उपासक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासकः, पुं, स्त्री, (उपास्ते सेवते यः । उप + आस् + ण्वुल् । द्विजातिसेवकत्वादस्य तथात्वम् ।) शूद्रः । इति राजनिर्घण्टः ॥

उपासकः, त्रि, (उपासते इति । उप + आस् + ण्वुल् ।) उपासनाकर्त्ता । (यथा, वेदान्ते । “चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः । उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना” ॥) स च पञ्चविधः । वैष्णवः १ शाक्तः २ शैवः ३ सौरः ४ गाणपत्यः ५ । त्रिविधश्च यथा । दिव्यः १ वीरः २ पशुः ३ । इत्यागमः ॥ अपि च । सात्त्विकः १ राजसिकः २ तामसिकश्च ३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासक¦ त्रि॰ उप + आस--ण्वुल्।

१ सेवके

२ उपासनाकर्त्तरि
“चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः। उपास-कानां सिद्ध्यर्थं ब्रह्मणोरूपकल्पना” वेदा॰।

३ शूद्रे पुंस्त्रीतस्य द्विजसेवकत्वात् तथात्वम् स्त्रियां जातित्कत् ङीष्। हेमचन्द्रोक्ते

४ वाक्यदशाभेदे यथा वाक्यमुपक्रम्य
“आचा-राङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक्। पञ्चमं भगवत्यङ्गंज्ञाता धर्म्मकथापि च। उपासकान्तकृदनुत्तरोपपातिकादशाः। प्रश्नव्याकरणञ्चैव विपाकश्रुतमेव च। इत्येकादशसोपाङ्गान्यङ्गानि द्वादश पुनः” इति। उपासनञ्च चिन्त-नापरपरपर्य्यायमननात्मिका मानसी क्रिया। सा चक्वचिद्गुणादिकमारोप्यप्रवर्त्तते यथा निर्गुणे ब्रह्मणि सगु-णत्वाद्यारोपेण प्रागुक्तवचने निर्गुणस्य ब्रह्मणोरूपारोपेणैवउपासनोक्तेः अतएव
“सर्वं खल्विदं ब्रह्म तज्जलान् इति[Page1357-a+ 38] शान्त उपासीत यथाक्रतुरस्मिन् लोके भवति तथेत्य प्रेत्यभवति स क्रतुं कुर्व्वीत” इत्युपक्रम्य
“मनोमयः प्राणशरीरः” इत्यादिना छा॰ उ॰
“उपासनायां तत्तगुणापाधयोऽ-भिहिता निर्गुणे प्रथमं चित्तप्रवेशासम्भवेन सगुणे एवमनोऽभिनिवेश्यम् ततो निविष्टमनसः चित्तैकाग्र्यम् ततःउपासितेश्वरानुग्रहादेव समाधियोगसिद्ध्विः इति पात॰सू॰ भाष्ययोर्दर्शितम्।
“ईश्वरप्रणिधानाद्वा” सू॰
“प्रणि-धानाद्भक्तिविशेषादायर्जित ईश्वरस्तमनुगृह्णाति श्रभिधा-नमात्रेण” व्यासं भा॰
“प्रणिघानाद्भक्तिविशेषात् मान-साद्वाचिकात् कायिकाद्वा आवर्जित अभिमुखीभूतस्तमनुगृह्णाति अभिध्यानमनागतेऽर्थे इच्छा, इदमस्याभिप्रेत-मस्त्विति, तावन्मात्रेण न व्यापारान्तरेण” विव॰। तादृशे-श्वरोपासनाऽसमर्थस्य तु प्रथमं स्थूलादिभ्यो विविच्यात्मन-इन्द्रियाद्यात्मकतया चिन्तनं कार्य्यं तच्चिन्तने च फलमुक्तंवायुपु॰।
“दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। बौद्धाः दश सहस्राणि तिष्ठन्ति विगतज्वराः। पूर्णंशतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः” विवृतञ्चै तत् पात॰भाष्यविवृतौ वाचस्पतिना
“अव्यक्तमहदहङ्कारपञ्च-तन्मात्रेष्वन्यनममात्मत्वेन प्रतिपन्नाः तदुपासनागततद्वा-सनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनाम-न्यतमे लीनाः” उक्ततत्तत्कालपर्य्यन्तं तिष्ठन्तीत्यर्थः। उपासनशब्देऽधिकं वक्ष्यते। तन्त्रोक्ता उपासकाश्च पञ्च-विधा पञ्चदेवतोपासकत्वात्।
“शाक्तः शैवोगाणपत्थःसौरश्च वैष्णवः क्रमात्। उपासकाः पञ्चविधास्तन्त्र-श्मस्त्रविधानतः”। पुनस्ते त्रिविधाः।
“सात्विको राज-सश्चैव तामसश्चेति ते त्रिधा”। प्रकारान्तरेणापि यथा-सम्मवं त्रिधा।
“पशुर्वीरस्तथा दिव्य आचारभेदतस्त्रिधा”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासक¦ mfn. (-कः-का-कं)
1. Worshipping, a worshipper.
2. Serving, a servant.
3. A Sudra. E. उप before अस् to be, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासकः [upāsakḥ], 1 One who waits upon, a worshipper.

A servant, follower.

A Śūdra, a low fellow.

A worshipper of Buddha as distinguished from theBhikṣu. -Comp. -दशाः N. of one of the Aṅgas or chief Jaina sacred writings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासक/ उपा mfn. serving , a servant Kaus3. Katha1s.

उपासक/ उपा mfn. worshipping , a worshipper , follower Mr2icch.

उपासक/ उपा mfn. intent on , engaged or occupied with Kap.

उपासक/ उपा mfn. a Buddhist lay worshipper (as distinguished from the भिक्षुSee. ) Sarvad. Lalit. Prab. etc.

उपासक/ उपा mfn. a शूद्रL.

"https://sa.wiktionary.org/w/index.php?title=उपासक&oldid=493357" इत्यस्माद् प्रतिप्राप्तम्