उपासना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासना, स्त्री, (उपासनमिति । उप + आस् + युच् + टाप् ।) सेवा । तत्पर्य्यायः । वरिवस्या २ शुश्रूषा ३ परिचर्य्या ४ उपासनम् ५ । इत्यमरः ॥ (“न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् । न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥ गायत्र्युपासना नित्या सर्व्ववेदैः समीरिता । यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्व्वथा ॥ तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि । गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥ कुर्य्यादन्यन्न वा कुर्य्यात् इति प्राह मनुः स्वयम् । विहाय तान्तु गायत्रीं रिष्णूपास्तिपरायणः ॥ शिवोपास्तिरतो विप्रो नरकं याति सर्व्वथा । तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः ॥ देवीपादाम्बुजरता आसन् सव्व द्विजोत्तमाः” ॥ इति श्रीदेवीभागवतम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासना स्त्री-नपुं।

उपासनम्

समानार्थक:वरिवस्या,शुश्रूषा,परिचर्या,उपासना

2।7।35।1।4

वरिवस्या तु शुश्रूषा परिचर्याप्युपासना। व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः॥

 : उपवासादिव्रतम्

पदार्थ-विभागः : , क्रिया

"https://sa.wiktionary.org/w/index.php?title=उपासना&oldid=493359" इत्यस्माद् प्रतिप्राप्तम्