उपेन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्रः, पुं, (इन्द्रमुपगतः । कश्यपादृषेः अदितौ वामनावतारे इन्द्रस्यानन्तरं जातत्वात् तथात्वम् ।) विष्णुः । इत्यमरः ॥ (उपेन्द्रस्यापरां व्युत्पत्तिमाह हरिवंशे ७५ । ४६ । “ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः । उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः” ॥ तथा च भागवते ८ । २३ । २१, २२, २३ । “कश्यपस्यादितेः प्रीत्यै सर्व्वभूतभवाय च । लोकानां लोकपालानामकरोत् वामनं पतिम् ॥ वेदानां सर्व्वदेवानां धर्म्मस्य यशसः श्रियः । मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ उपेन्द्रं कल्पवाञ्चक्रे पतिं सर्व्वविभूतये । तदा सर्व्वाणि भूतानि भृशं मुमुदिरे नृप !” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्र पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।20।1।1

उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः। पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्र¦ पु॰ उपगत इन्द्रम् अनुजत्वात् अत्या॰ स॰।

१ विष्णौ। स हि कश्यपात् अदितौ इन्द्रादनन्तरं वामनरूपतयासंजातः इति तस्य तथात्वम्।
“उपेन्द्रो वामनःप्रांशुः” विष्णुस॰। अत्र भाष्ये अन्यापि निरुक्तिर्दर्शितायथा।
“ममोपरि यथेन्द्रस्त्वं स्थापितोगोभिरीश्वरः। उपेन्द्र इति कृष्ण! त्वां गास्यन्ति दिवि देवताः” इति हरि-वंशवचनात् उपरि इन्द्रः उपेन्द्रः” इति। अत्र वासुदेवस्यैवयथोपेन्द्रनामता, तथा गोवर्द्धनोद्धारणेन गोषु रक्षितासुतत्प्रीतये गोभिस्तस्य सर्वोपरिलीकस्थितत्वेन उपेन्द्रनामत-याऽभिषेकः कृत इति वर्ण्णितं हरिवं॰

७६ अ॰ यथा।
“अपामधस्ताल्लोकोऽयं तस्योपरि महीधराः। नागानामुप-रिष्टाद्भूः पृथिव्युपरि मानुषाः। मनुष्यलोकादूर्द्ध्वं तुखगानां गतिरुच्यते। आकाशस्योपरि रविर्द्वारं स्वर्गस्यभानुमान्। देवलोकः परस्तस्माद्विमानगमनो महान्। यत्राहं कृष्ण! देवानामैन्द्रे विनिहितः पदे। स्वर्गादूर्द्ध्वंब्रह्मलोको महर्षिगणपूजितः। तत्र सोमगतिश्चैव ज्योति-षाञ्च महात्मनाम्। तस्योपरि गवां लोकः सिद्धास्तंपालयन्ति हि। स हि सर्वगतः कृष्ण! महाकाशगतो म-हान्। उपर्युपरि तत्रापि गतिस्तव तपोमयी। यां नविद्म वयं सर्वे पृच्छन्तोऽपि पितामहम्। लोकास्त्वधोदुष्कृतिनां नागलोकस्तु दारुणः। पृथिवी कर्मशीलानांक्षेत्रं सर्वस्य कर्मणः। खमस्थिराणां विषयो वायुनातुल्यवर्त्तिनाम्। गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्म-णाम्। ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः। गवामेव तु गोलोको दुरारोहा हि सा गतिः। स तुलोकस्त्वया कृष्ण! सीदमानः कृपात्मना। धृतो धृतिमतावीर! निघ्नतोपद्रवं गवाम्। तदहं समनुप्राप्तो गवां वा-क्येन नोदितः। ब्रह्मणश्च महाभाग। गौरवात्तव चानघ!। अहं भूतपतिः कृष्ण! देवराजः पुरन्दरः। अदितेर्गर्भप-र्याये पूर्ब्बजस्ते पुरातनः। तेजस्तेजस्विनश्चैव यत्ते द-र्शितवानहम्। मेघरूपेण तत्सर्वं क्षन्तुमर्हसि मे विभो!। एवं क्षान्तमनाः कृष्ण! स्येन सौम्येन तेजसा। ब्रह्मणःशृणु मे वाक्यं गवाञ्च गजविक्रम!। आह त्वां भगवान्ब्रह्मा गावश्चाकाशगा दिवि। कर्मभिस्तोषिता दिव्यैस्तवसंरक्षणादिभिः। भवता रक्षिता लोका गोलोकश्च महा-नयम्। तद्वयं पुङ्गवैः सार्द्धं वर्द्ध्वामः प्रसवैस्तथा। कर्ष-[Page1361-a+ 38] कान् पुङ्गवैर्वाह्यैर्म्मेध्येन हविषा सुरान्। श्रियं शकृत्-प्रवृत्तेन तर्पयिष्यामः कामदाः। तदस्माकं गुरुस्त्वंहि प्राणदश्च महाबल!। अद्यप्रभृति नो राजा त्वमिन्द्रोवै भव प्रभो!। तस्मात्त्वं काञ्चमैः पूर्णैर्द्दिव्यस्य पयसो घटैः। एभिरद्याभिषिच्यस्व मया हस्तावनामितैः। अहं किलेन्द्रोदेवानां त्वङ्गवामिन्द्रताङ्गतः। गोविन्द इति लोकास्त्वांस्ताष्यन्ति भुवि शाश्वतम्। ममोपरि यथेन्द्रस्त्वं स्थापितोगोमिरोश्वरः। उपेन्द्र इति कृष्ण! त्वां गास्यन्ति दिविदेवताः”।
“ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान्। अभि-षेकेन गोविन्दं योजयामास योगवित्। दृष्ट्वाऽभिभिच्य-मानं तं गावस्ताः सह यूथपैः। स्तनैः प्रस्रवसंयुक्तैःसिषिचुः कृष्णमव्ययम्। मेघाश्च दिवि मुक्ताभिः सा-मृताभिः समन्ततः। सिषिचुस्तोयधाराभिः सिच्यमानंतमव्ययम्। वनस्पतीनां सर्वेषां सुस्रावेन्दनिमं पयः। ववर्ष पुष्पवर्षञ्च नेदुस्तूर्थाणि चाम्बरे। स्तुवन्ति मुनयःसर्वेबाग्भिर्मन्त्रपरायणाः। एकार्णवविविक्तञ्च दधारवसुधा वपुः। प्रसादं सागरा जग्मुर्तवुर्वाता जगद्धिताः। मार्गस्थो विबभौ भानुः सोमो नक्षत्रसंयुतः। ईतयः प्रशमंजग्मुर्जग्मुर्निवैर्रतां नृपाः। प्रवालपत्रशवलाः पुष्प-वन्तश्च पादपाः। मदं प्रसुस्नुवुर्नागा यातास्तोषं वनेमृगाः। अलङ्कृता नात्ररुहैर्धातुभिर्भान्ति पर्वताः। देव-लोकोपमो लोकस्तृप्तोऽमृतरसैरिव। आसीत् कृष्णाभि-षेके हि दिव्यः स्वर्गरसोक्षितः। अभिषिक्तन्तु तं गोभिःशक्रो गोविन्दमव्ययम्। दिव्यमाल्याम्बरधरं देवदेवोऽब्र-वीदिदम्। एष ते प्रथमः कृष्ण! नियोगो गोषु यः कृतः”। तत्रैव

१७ अ॰।
“शक्रस्तु स्वयमागत्य दैवतैः सह वृत्रहा। अभिषिच्याब्रवीत् कृष्णमुपेन्द्रेति शचीपतिः”। वासुदेवस्यै-येन्द्रेण उपेन्द्रना{??}ऽभिषेकः कृतः इत्युक्तम्। भा॰

८ स्क॰

३३ अ॰ तु वामनस्यैव तन्नामतोक्ता यथा वामनेन बलेर्दमनान-न्तरम्।
“कश्यपस्यादितेः प्रीत्यै सर्व्वभूतभवाय च। लोकानां लोकपालानामकरोत् वामनं पतिम्। वेदानांसर्वदेवानां धर्मस्य यशसां श्रियः। मङ्गलानां व्रतानाञ्चकल्पं स्वर्गापवर्गयोः। उपेन्द्रं कल्पयाञ्चक्रे इति सर्व-विभूतये इति”
“प्राप्य त्रिभुवनञ्चेन्द्र उपेन्द्रभुजपालितः” इति तत्रैव। वामनस्य उपेन्द्रत्वमिन्द्रानुजातत्वात् वासु-देवस्य तु पूर्दोक्तप्रकारेण तन्नामता उभयोरेव एकपरमेश्वरांशत्वान्न विरोधः।
“तदिन्द्रसन्दिकृष्टसुपेन्द्र![Page1361-b+ 38] यद्वचः” माघे नारदस्य वासुदेवसम्बोधनतया प्रयोगः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्र¦ m. (-न्द्रः) A name of VISHNU or KRISHNA. E. उप after, इन्द्र INDRA: born subsequently to INDRA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्रः [upēndrḥ], [उपगत इन्द्रं अनुजत्वात्] N. of Viṣṇu or Kṛiṣṇa as the younger brother of Indra in his 5th or dwarf incarnation; see इन्द्र; उपेन्द्रवज्रादपि दारुणो$सि Gīt.5; यदुपेन्द्रस्त्वमतीन्द्र एव सः Śi.16.7. -Comp. वज्राf. N. of a metre; see App. -अपत्यम् Madana, God of love. ... उद्भटोपेन्द्रापत्यपराक्रमैकनिधयो भद्राणि संतन्वते Chola Champu P.27, verse 61.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्र/ उपे m. " younger brother of इन्द्र" , N. of विष्णुor कृष्ण(born subsequently to इन्द्र, especially as son of अदिति, either as आदित्यor in the dwarf अवतार) MBh. Hariv. R. VP. etc.

उपेन्द्र/ उपे m. N. of a नागL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a manifestation of Hari born of Aditi and कश्यप. He was known as वामन because of his short stature. फलकम्:F1: भा. X. 3. ४२: V. २४. २४; VI. 6. ३९; वा. ९८. ८४; Br. III. २१. ५९; ७३. ८४.फलकम्:/F Anointed by gods as the Lord of all worlds. Helped Indra his elder brother in the administration of his kingdoms. फलकम्:F2: भा. VIII. २३. २३-25.फलकम्:/F Knew the योग power of Hari फलकम्:F3: Ib. II. 7. ४५; 5. ३०; IV. 2. १८.फलकम्:/F and was invoked by gopas for the protection of the baby कृष्ण. फलकम्:F4: Ib. X. 6. २२ and २३;फलकम्:/F Had a son बृहत्श्लोक through कीर्ति. फलकम्:F5: Ib. VI. १८. 8.फलकम्:/F Also known as Uru- krama. A son of Diti. फलकम्:F6: M. १४६. २०; २४४. २६-8.फलकम्:/F कृष्ण, crowned by Indra as the Indra of cows, urged by the speech of Gava; perhaps the cows of heaven like the कामधेनु; at that time the cattle delighted the earth with milk. फलकम्:F7: Vi. V. १२. १२-15.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UPENDRA : A synonym of Viṣṇu. Mahāviṣṇu once took birth by Aditi the wife of Kaśyapaprajāpati. In that birth Mahāviṣṇu had the name Upendra. He was known as Vāmana too. (Bhāgavata, 10th Skandha).


_______________________________
*4th word in left half of page 810 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उपेन्द्र&oldid=493376" इत्यस्माद् प्रतिप्राप्तम्