सामग्री पर जाएँ

उल्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्वम्, क्ली, (उल्लीयते इति । उत् + लीङ् श्लेषणे उल्वादयश्च ४ । ९५ । इति उणादिसूत्रेण साधुः ।) जरायुः । इत्यमरः ॥ (यथा, गीतायां ३ । ३८ । “यथोल्वेनावृतो गर्भस्तथा तेनेदमावृतम्” । “जातमात्रं विशोध्योल्वाद्बालं सैन्धवसर्पिषा । प्रसूतिक्लेशितञ्चानु बलातैलेन सेचयेत्” ॥ इति वाभटः उत्तरस्थाने १ अध्याये उक्तवान् ॥ “अथ जातस्योल्वं मुखञ्च सैन्धवसर्पिषा विशोध्य घृताक्तं मूर्द्ध्नि पिचुं दद्यात् ततो नाभिनाडीमष्टा- ङ्गुलमायम्य सूत्रेण बद्ध्वा च्छेदयेत्तत्सूत्रैकदेशञ्च कुमारस्य ग्रीवायां सम्यग् बध्रीयात् । इति सुश्रुते शारीरस्थाने १० अध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्व¦ पु॰ उच--समवाये आधारे वन्
“उल्वादयश्च” उणा॰ नि॰ चस्यलः गुणाभावश्च। गर्भवेष्टनचर्म्मणि
“उल्वावृतोगर्भोदश वामासान्नन्तः शयित्वा यावद्वाऽथ जायते” छा॰ उ॰।
“उल्वावृत इत्यादि वैराग्यहेतोरिदमुच्यते। कष्टं हिमातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्यगर्भस्योल्वाऽशुचिपूयावृतस्य लोहितरेतोऽशुचिवीजस्यमातुरशितपीतरसानुप्रवेशेन विवर्द्धमानस्य निरुद्धशक्तिबल-वीर्य्यतेजः प्रज्ञाचेष्टस्य शयनं, ततो योनिद्वारेण पीड्यमा-नस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति मुहू-र्त्तमप्यसह्यं दश वा मासानतिदीर्घकालमन्तःशयित्वेति” इति शा॰ भा॰। कर्त्तरि वन्।

२ गर्भे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्व¦ n. (-ल्वं)
1. The womb.
2. The embryo.
3. The membranes investing the fœtus.
4. A cavity. E. उच् to accumulate, कन् Una4di affix, and च becomes ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्व [ulva] उल्वण [ulvaṇa], उल्वण See उल्ब, उल्बण.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्व etc. See. उल्ब, col. 1.

"https://sa.wiktionary.org/w/index.php?title=उल्व&oldid=493570" इत्यस्माद् प्रतिप्राप्तम्