उष्ट्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्ट्रः, पुं, (उष + “उषिखनिभ्यां कित्” । ४ । १६१ । इत्युणादिसूत्रेण ष्ट्रन् किच्च ।) वाह्यरथः । इति धरणी ॥ पशुविशेषः । उट् इति भाषा । तत्प- र्य्यायः । क्रमेलकः २ मयः ३ महाङ्गः ४ । इत्य- मरः ॥ दीर्घगतिः ५ बली ६ करभः ७ दासेरकः ८ धूसरः ९ लम्बोष्ठः १० रवणः ११ महाजङ्घः १२ जवी १३ जाङ्घिकः १४ दीर्घः १५ शृङ्खलकः १६ महान् १७ महाग्रीवः १८ महानादः १९ महा- ध्वगः २० महापृष्ठः २१ बलिष्ठः २२ । इति राज- निर्घण्टः ॥ दीर्घजङ्घः २३ ग्रीवी २४ धूम्रकः २५ शरभः २६ । इति जटाधरः ॥ क्रमेलः २७ कण्ट- काशनः २८ भोलिः २९ बहुकरः ३० अध्वगः ३१ मरुद्विपः ३२ वक्रग्रीवः ३३ । इति शब्दरत्नावली ॥ वासन्तः ३४ कुलनाशः ३५ । इति त्रिकाण्डशेषः ॥ कुशनामा ३६ मरुप्रियः ३७ द्विककुत् ३८ दुर्ग- लङ्घनः ३९ भूतघ्नः ४० दासेरः ४१ दीर्घग्रीवः ४२ केलिकीर्णः ४३ । इति हेमचन्द्रः ॥ (यथा मनुः ४ । १२० । “नाधीयिताश्वमारूढो न रथं न च हस्तिनम् । न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” ॥ “उष्ट्रयानं समारुह्य खरयानं तु कामतः” । इति च मनुः । ११ । २९ ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्ट्र पुं।
उष्ट्रः
समानार्थक:उष्ट्र,क्रमेलक,मय,महाङ्ग
2।9।75।1।1
उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः। करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः॥
पत्नी : उष्ट्रिका
जन्य : उष्ट्रशिशुः
: उष्ट्रशिशुः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्ट्र¦ पुंस्त्री॰ उष + ष्ट्रन् किच्च। (उट) प्रसिद्धे पशुभेदे[Page1379-a+ 38] स्त्रियां जातित्त्वात् ङीष्।
“हस्तिगोऽश्वोष्ट्रदमकोनक्षत्रैर्यश्च-जीवति”
“नाधीयीताश्वमारूढो न रथं न च हस्तिनम्। न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” मनुः। तद्यान-निषेधमाह
“उष्ट्रयानं समारुह्य खरयानं तु कामतः। स्नात्वा तु विप्रो दिग्वामाः पाणायामेन शुध्यति” मनुः। काततः” इत्यक्त्या कर्म्मभेदे तद्याने न दोष इति सूचितम्अतएव
“उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि” पार॰गृ॰ सू॰ मन्त्रलिङ्गेन तद्यानं विहितम्। तस्य मांसंन भक्ष्यम्
“भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः” मनूक्तेः। तेनास्य एकदन्तपङ्क्तियुक्तत्वम्।
“गौरजोमहिषः कृष्णः शूकरो गवयोरुरुः। द्विशफाः पशवश्चेमे अ-{??}ष्ट्रश्च सत्तम!” भाग॰ उक्तेः गवादयः उष्ट्रान्ता द्विशफाःइति बोध्यम्। वृथा तद्घाते दोषः
“मनुष्यमारणेक्षिप्रं चौरवत् किल्विषं भवेत्। प्राणभृसु महत्-स्वर्द्धं गोगजोष्ट्रहयादिषु” मनूक्तेः। ब्रह्महत्याशेष-पापेन तज्जातिर्भवति यथाह मनुः
“यां यां यो-निन्तु जीवोऽयं येन येनेह कर्म्मणा। क्रमशो यातिलोकेऽस्मिंस्तत्तत् सर्वं निबोधत। बहून् वर्षगणान् घोरा-न्नरकान् प्राप्य दारुणान्। संसारान् प्ततिपद्यन्ते महा-पातकिनस्त्विमे। श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षि-णाम्। चण्डालपुक्कसानाञ्च ब्रह्महा योनिमृच्छति”। यान-हरणपापेऽप्युष्ट्रयोनिप्राप्तिमाह हृत्वेत्यनुवृत्तौ मनुः
“स्त्री-मृक्षः स्तोककोवारि, यानान्युष्ट्रः, पशूनजः। तद्बधे प्रायश्चि-त्तमाह
“हयच्छागाविकोष्ट्रेषु गर्द्दभेषु च मारणात्। प्राजा-पत्यार्द्धमेवेह प्रायश्चित्तं विधीयते” प्रा॰ वि॰ विष्णुः। तद्भ-क्षणे प्रायश्चित्तमाह भुक्त्वेत्यनुवृत्तौ प्रा॰ वि॰ शङ्खः
“गामश्वंकुञ्जरौष्ट्रौ च सर्वं पञ्चनखं तथा। क्रव्यादं कुक्कुटं ग्राम्यंकुर्य्यात् संवत्सरव्रतम्”
“अथोष्ट्रवामीशतवाहितार्थः” रघुः।
“वृतिञ्च तत्र कुर्व्वीत यामुष्ट्रोनावलोकयेत्” मनुः।
“अन्योन्यतः पथि वताबिमीतामिभोष्ट्रौ” माघः। तन्मूत्रगुणाः सुश्रु॰ उक्ताः।
“अथ मूत्राणि गोमहि-षाजाविगजहयखरोष्ट्राणां तीक्ष्णानि कटून्युष्णानि ति-क्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमि-भेदोविषगुल्मार्शौदरकुष्ठशोफारोचकपाण्डुरोगहराणिहृद्यानि दीपनानि च सामान्यतः। भवन्ति चात्र। तत्सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु। शोधनं कफ-वातघ्नं कृमिमेदोविषापहम्। अर्शोजठरगुल्मघ्नं शोफा-रोचकनाशनम्। पाण्डुरोगहरं भेदि हृद्यं दीपनपाच-[Page1379-b+ 38] नम्”। सामान्यत उक्त्वा
“अर्शोघ्नं कारभं मूत्रमिति” विशे-षगुण उक्तः। तन्मांसगुणाःसुश्रुते उक्ताः तच्च उरभ्रशब्देदर्शितम्। तस्य ग्राम्यत्वं तत्रोक्तम्। तच्च उरभ्रशब्देदर्शितम्। किन्तु तस्यारण्यत्वमपि अतएव
“उष्ट्रमारण्य-मनु ते दिशामि” यजु॰
१३ ,
२४ , तस्यारण्यत्वमुक्तम्। तस्य त्वष्टृदेवतायै अश्वमेधे देयतोक्ता
“वृहस्पतये गवयां-स्त्वष्ट्र उष्ट्रान्” यजु॰
२४ ,
२८ , द्वित्वे गोयुगच् उष्ट्रगोयुगउष्ट्रद्वित्वे न॰ शालायां गोष्ठच्। उष्ट्रगोष्ठ उष्ट्रशालायांन॰ षट्के षड्गवच्। उष्ट्रषड्गव उष्ट्रषट्के न॰। तस्ये-दमण्। औष्ट्र तत्सम्बन्धिमांसादौ त्रि॰।
“परं चौष्ट्रंमैषं नरमहिषयोश्छागमपि वा” कर्पूरस्तवः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्ट्र¦ m. (-ष्ट्रः)
1. A camel.
2. A cart, a vehicle of burthen. f. (-ष्ट्री or -ष्ट्रिका) An earthen vessel.
2. A she camel. E. उष् to burn, and ष्ट्रन् Una4di affix, fem. affix ङीष् or टाप् with इक् inserted.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्ट्रः [uṣṭrḥ], [उष्-ट्रन्-किच्च Uṇ.4.161.]
Camel; अथोष्ट्रवामी- शतवाहितार्थम् R.5.32; Ms.3.162,4.12,11.22.
A buffalo.
A bull with a hump.
A cart or carriage.
ष्ट्री A she-camel.
An earthen vessel in the shape of a camel.
Bignonia Spathacea (Mar. मेडशिंगी). [cf. Pers. ushtar; Zend ustra.] -Comp. -अक्षः A camel-eyed (horse) उष्ट्राक्षाः प्रियदर्शनाश्च सुभगाः श्वासैः सुगन्धैश्च ये; Bhoja's Śālilhotra. -कर्णिका (pl.) N. of a country or its inhabitants, in the south. -काण्डी A thistle dear to camels, Echinops echinatus (Mar. उंटकटारी). -क्रोशिन् a. making a noise like a camel.-गोयुगम् a couple of camels; यथा गोस्तद्वदुष्ट्रस्य युगं उष्ट्रगो- युगम् Mbh. on P.V.2.29. -ग्रीवः, -शिरोधरः piles.-निषदनम् A particular posture among Yogins. -पादिका Jasminum Zambac (Mar. मोगरा). -प्रमाणः A kind of fabulous eight-footed animal शरभ. -यानम् camellitter.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उष्ट्र m. ( उष्Un2. iv , 161 ; but probably connected with the above ) , a buffalo RV. AV. xx , 127 , 2 ; 132 , 13 VS. S3Br. AitBr.
उष्ट्र m. a camel MBh. Mn. Pan5cat. etc.
उष्ट्र m. a cart , waggon L.
उष्ट्र m. N. of an असुरHariv.