ऊत्तमाङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊत्तमाङ्ग¦ न॰ कर्म्म॰। मस्तके।
“बभौ पतद्गङ्ग इवोत्तमा-ङ्गे” कुमा॰।
“कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः” रघुः।
“पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन” मनुः। मस्तकस्यअङ्गेषूत्तमत्वं चक्षुरादीन्द्रियाधारत्वात् प्राणवायुसञ्चा-रस्थानत्वात् सर्वेषामङ्गानामुपरिवर्त्तमानत्वाच्च। अतएव
“गर्भस्य हि सम्भवतः प्रथमं शिरः सम्भवतीत्याह शौनकःशिरोमूलत्वाद्देहेन्द्रियाणाम्” सुश्रु॰ शौनकीयमते इन्द्रि-यमूलत्वमस्योक्तम्
“तच्च शरीरम् षडङ्गं शाखाश्चतस्रो मध्यंपञ्चमं षष्ठं शिर” इति सुश्रु॰ षडङ्गविभागे हस्तपादानांचतुर्ण्णां शाखात्वेन मध्यमस्य मध्यत्वेन उप्रवर्ण्य-सर्वशेषे शिरसः कथनं पूर्वोक्तहेतोः प्राधान्यात्तस्येतिबोध्यम्। प्रत्यङ्गविभागेऽपि
“मस्तकोदरेत्यादिनासुश्रु॰ मस्तकस्य प्रथमनिर्देशः प्राधान्यादेव लोके-ऽपि मस्तकच्छेदनेऽवशिष्टाङ्गैः न प्रत्यभिज्ञा छिन्न-मस्तकमात्रेण तु प्रत्यभिज्ञा इत्यतो मस्तकस्य प्रत्यभिज्ञा-साधनत्वादपि उत्तमत्वम्” कथमन्यथा देवदत्तादिदेहस्यहस्तादिषु च अङ्गेषु मध्ये हस्तादिना न प्रत्यभिज्ञाइत्यतः मस्तकस्य उत्कृष्टत्वम्। हस्तादिच्छेदनेऽपिजीवनसम्भवात् मस्तकस्य छेदने तदभावादपि मस्तकस्यप्राधान्यमित्यपि मन्तव्यम्।

"https://sa.wiktionary.org/w/index.php?title=ऊत्तमाङ्ग&oldid=246341" इत्यस्माद् प्रतिप्राप्तम्