ऊरुस्तम्भ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊरुस्तम्भः, पुं, (ऊरू स्तभ्नाति इति ऊरु + स्तन्भ + अण् ।) ऊरुरोगविशेषः । यथा । अथोरुस्तम्भा धिकारः । तत्रोरुस्तम्भस्य विप्रकृष्टसन्निकृष्टनिदान- सम्प्रात्पिपूर्ब्बकं लक्षणमाह । “शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्न्निषेवितैः । जीर्णाजीर्णे तथायाससंक्षोभस्वप्नजागरैः ॥ सश्लेष्ममेदः पवनः साममत्यर्थस्रञ्चितम् । अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते ॥ सक्थ्यस्थिनी प्रपूर्य्यान्तःश्लेष्मणा स्तिमितेन सः । तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥ परकीयाविव गुरू स्यातामतिशयव्यथौ । ध्यानाङ्गमर्द्दस्तैमित्यतन्द्राच्छर्द्द्यरुचिज्वरैः ॥ संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः । तमूरुस्तम्भमित्याहुराढ्यवातमथापरे” ॥ जीर्णाजीर्णे किञ्चिज्जीर्णं किञ्चिदजीर्णं तस्मिन् भोजनमित्यर्थः । अतएव दृढबलेन जीर्णाजीर्णे समश्नत इति पठितम् । तत्र शीतादिभिर्निषे- वितैर्भुक्तैः । संक्षोभेण सञ्चलनेन । स्वप्नेन दिवा । जागरणेन रात्रौ । अभिभूय दूषयित्वा । इतरं दोषं पित्तम् । स्तिमितेन आर्द्रेण द्रुतेनेति यावत् । न तु घनेन । एवंविधेन श्लेष्मणा । सः पवनः । तदा ऊरू स्तभ्नाति तेन स्तम्भेन । अचेतनौ शून्यौ । परकीयाविव अक्रियावित्यर्थः । ध्यानं संमूढता । पादसम्बन्धिनीभिः सदनकृच्छ्रोद्धरणसुप्तिभिश्च संयुक्तौ । अयंसुश्रुतेन महावातव्याधिषु पठितः ॥ * प्राग्रूपमाह । “प्राग्रूपं तस्य निद्रातिध्यानं स्तिमितता ज्वरः । रोमहर्षोऽरुचिश्छर्द्दिर्जङ्घोर्व्वोः सदनं तथा” ॥ * ॥ तस्योपशयमाह । “वातशङ्किभिरज्ञानात्तत्र स्यात् स्नेहनात् पुनः । पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ॥ जङ्घोरुग्लानिरत्यर्थं शश्वदादाहवेदना । पदञ्च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ॥ संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः । अन्यनेयौ हि संभग्नावूरू पादौ च मन्यते” ॥ अन्यनेयौ अन्यपुरुषचाल्यौ भवत इत्यर्थः । अज्ञा- नात् अनिश्चयात् स्तम्भ-सुप्ति-कम्पादि-दर्शनेन । वातशङ्किभिः वातव्याधिशङ्किभिः । तत्र ऊरुस्तम्भे । स्नेहनात् स्नेहादिना स्नेहन्या चिकित्सया । पाद- सदनादय ऊरुभग्नोपमत्वात् ते विकाराः स्युः । जङ्घोरुग्लानिः जङ्घोर्व्वोर्गमनादावशक्तिः । आदा- हवेदना ईषद्दाहेन सह वेदना ॥ * ॥ ऊरुस्तम्भस्यारिष्टं लक्षणमाह । “यदा दाहार्त्तितोदार्त्तो वेपनः पुरुषो भवेत् । ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम्” ॥ अन्यथा दाहाद्युक्तोपद्रवरहितं तमपि नवमुत्पन्न- सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्द्दितः पिबेत्” ॥ इति कुष्ठाद्यं तैलम् ॥ * ॥ “पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः । तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः” ॥ इति अष्टकट्वरं तैलम् ॥ * ॥ “इत्यभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम् । श्लेष्मणः क्षपणन्त्वन्यद्वाह्यं शृणु चिकित्सितम् ॥ वल्मीकमृत्तिकामूलं करञ्जात् सफलत्वचम् । इष्टकानां ततश्चूर्णैः कुर्य्यादुत्सादनं भृशम् ॥ मूलैर्वाप्यश्वगन्धाया मूलैरर्कस्य वा भिषक् । पिचुमर्द्दस्य वा मूलैरथवा देवदारुणः ॥ क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक् । गाढमुत्सादनं कुर्य्यादूरुस्तम्भे प्रलेपनम्” ॥ “श्योनाकं खदिरं विल्वं वृहत्यौ सरलासनौ । अग्निमन्थाढकीशिग्रुश्वदंष्ट्रासुरसार्जकान् ॥ तर्कारीं नक्तमालञ्च जलेनोत्क्वाथ्य सेचयेत् । प्रलेपो मूत्रपिष्टैर्वाप्यूरुस्तम्भनिवारणः ॥ कफक्षयार्थं व्यायामेष्वेनं शक्येषु चोत्सृजेत् । स्थलान्याक्रामयेत् कल्यं शर्कराः सिकतास्तथा ॥ प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम् । सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ॥ तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत् । श्लेष्मणः क्षपणं यत्स्यान्न च मारुतकोपनम् ॥ तत् सर्व्वं सर्व्वदा कार्य्यमूरुस्तम्भस्य भेषजम् । शरीरं बलमग्निञ्च कार्य्यैषा रक्षता क्रिया” ॥ इति चरके चिकित्सास्थाने २७ अध्यायः ॥ * ॥ “निष्कत्रयं शुद्धसूतं निष्कद्वादशगन्धकम् । गुञ्जावीजञ्च षण्णिष्कं निम्ववीजं जया तथा ॥ प्रत्येकं निष्कमात्रन्तु निष्कं जैपालवीजकम् । जया जम्बीरधुस्तूरकाकमाचीद्रवैर्दिनम् ॥ भावयित्वा वटीं कृत्वा दद्याद्गुञ्जाचतुष्टयम् । गुञ्जाभद्ररसो नाम हिङ्गुसैन्धवसंयुतः ॥ शमयत्यूर्द्ध्वगं दुःखमूरुस्तम्भं सुदारुणम्” ॥ इति गुञ्जाभद्रो रसः ॥ इति वैद्यकरसेन्द्रसार- संग्रहे ऊरुस्तम्भाधिकारः ॥ * ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊरुस्तम्भ¦ पु॰ ऊरू स्तभ्राति स्तन्भ--अण् उप॰ स॰।
१ रोगभेदेस च रोगः भावप्र॰ सनिदानपूर्वरूपादिर्दर्शितः यथा
“शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः। जीर्णाजीर्णत-यायाससंक्षोभस्वप्नजागरैः। सश्लेष्ममेदःपवनः साम-मत्यर्थसञ्चितम्। अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते। शक्थ्यस्थिनी प्रपूर्य्यान्तः श्लेष्मणा स्तिमितेन सः। तदा स्त-भ्नाति तेनोरूस्तब्धौ शीतावचेतनौ। परकीयाविव गुरू स्यातामतिशयव्यथौ। ध्यानाङ्गमर्द्दस्तैमित्यतन्च्छर्द्यरुचिज्वरैः। संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः। तमूरुस्तम्भमित्याहुराढ्यपादमथाप”
“प्राग्रूपं तस्य निद्रा ऽतिध्यानं स्तिमि-तता ज्वरः। रोमहर्षोऽरुचिच्छर्द्दिर्जङ्घोर्वोः सदनं तथा। वातशङ्किभिरज्ञानात्तत्र स्यात् स्वेहनात् पुनः। पादयोःसदनं सुप्तिः कृच्च्राद्युद्धरणं तथा। जङ्घोरुग्लानिरत्यर्थंशश्वदादाहवेदना। पदं च व्यथते न्यस्तं शीतस्पर्शं नवेत्ति च। संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः। अन्यनेयौ हि सम्भग्नाषूरुपादौ च मन्यते। यदा दा-हार्त्तितोदादौ वेपनः पुरुषो भवेत्। ऊरुस्तम्भस्तदा ह-न्यात् साधयदन्यथा नवम्” अन्यथा दाहाद्युक्तोपद्रवरहितंतमपि नवमुत्पन्नमात्रं साधयेत्। सात्विकभावेन
२ ऊ-र्वोःस्तम्भे च।
“करिणीवोरुस्तम्भविधृता” काद॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊरुस्तम्भ¦ m. (-म्भः)
1. Paralysis of the lower extremities.
2. Rheumatism of the thigh. f. (-म्भा) The plantain tree. E. ऊरु and स्तम्भ a post.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊरुस्तम्भ/ ऊरु--स्तम्भ m. paralysis of the thigh Sus3r. Katha1s.