ऊर्ज्जः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज्जः, पुं, (ऊर्ज्जयति उत्साहयति जिगीषून् इति । ऊर्ज्ज + णिच् + अच् ।) कार्त्तिकमासः । उत्- साहः । बलम् । (यथा, ऋग्वेदे । १ । २६ । १ । “वसिष्ठा हि मिहेध्य वस्त्राण्यूर्जां पते” । “ऊर्जां बलपराक्रमादीनाम्” । इति भाष्यम् ।) प्राणनम् । इति मेदिनी ॥ (वीर्य्यम् । यथा, मनुः । २ । ५५ । “पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति” ॥ “यस्मात् पूजितमन्नं सामर्थ्यं वीर्य्यं च ददाति” ॥) इति कुल्लुकभट्टः ॥) कान्तिकनामसंवत्सरः ॥ (स्वारोचिषस्य मनोः पुत्त्रभेदः । यथा हरिवंशे ७ । १४ । “प्रथितश्च नभस्यश्च नभ ऊर्ज्जस्तथैव च । स्वारोचिषस्य पुत्त्रास्ते मनोस्तात महात्मनः” ॥ स्त्री, हिरण्यगर्भकन्या । यथा, हरिवंशे ७ । १७ । “हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्ज्जः&oldid=120382" इत्यस्माद् प्रतिप्राप्तम्