ऊर्णनाभः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णनाभः, पुं, (ऊर्णेव तन्तुर्नाभौ यस्य । यद्वा मृदु- त्वादूर्णेव नाभिर्यस्य । नाभेरुपसङ्ख्यानमित्यच् । ङयापोरिति ६ । ३ । ६३ । ह्रस्वः ।) कीटविशेषः । माकड्सा इति भाषा । तत्पर्य्यायः । लूता २ तन्तुवायः ३ मर्कटकः ४ । इत्यमरः । (यथाह उज्वलदत्तः । ५ । ४७ । “नाचारेण विना सृष्टिरूर्णनाभेरपीष्यते । नच निःसाधनः कर्त्ता कश्चित् सृजति किञ्चन” ॥ अत्र ऊर्णनाभिरिति चिन्त्यम् ।) (स्वनामख्यातो धृतराष्ट्रपुत्त्रभेदः । यथा, महाभारते । १ । ६७ । ९७ । “ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ” । स्यनामख्यातो दैत्यभेदः । यथा, हरिवंशे । ३ । ८६ । “सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्णनाभः&oldid=120396" इत्यस्माद् प्रतिप्राप्तम्