ऊर्ण्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ण्ण¦ न॰ ऊर्णा अस्त्यस्य कारणत्वेन अर्श॰ अच्। मेषलोमर-चितवस्त्रादौ
“ऊर्ण्णञ्च राङ्कवं चैव कीटजं पट्टजंतथा। कुटीकृतं तथैवात्र कमलानां सहस्रशः। श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्” भा॰ स॰

५० अ॰।

२ मेषलोम्नि स्त्री।
“माङ्गल्योर्णावलयिनि पुरःपावकस्योच्छिखस्य” रघुः
“कार्पासकीटजोर्णानां द्विश-फैकशफस्य च” मनुः।

३ ललाटस्थचिह्नभेदे उर्ण्णाशब्देउदा॰। स च चक्रवर्त्तित्वसूचकः भ्रूद्वयमध्यगतमृणालतन्तुसूक्ष्मांशुनिभः प्रशस्तायतः। नरलक्षणशब्देवक्ष्यते।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ण्ण&oldid=246679" इत्यस्माद् प्रतिप्राप्तम्