ऊर्द्धक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धकः, पुं, (ऊर्द्धः सन् कायतीति । ऊर्द्ध + कै शब्दे + क ।) ऊर्द्ध्वकः । मृदङ्गविशेषः । इत्यमरटीकायां भरतमुकुटौ । (यथा शब्दार्णवे । “ऊर्द्धको गोपुच्छवत् सत्रितालोऽष्टाङ्गुलो मुखे । धृत्वोर्द्ध्वं वाद्यते तेषां वादनं दुर्जनं न वा” ॥ तथाच चिन्तामणौ । “हरीतक्याकृतिस्त्वङ्क्यस्तथालिङ्ग्यो यवाकृतिः । ऊर्द्धको दण्डतुल्यः स्यात् मुरजा भेदतो मताः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध(द्ध्व)क¦ पु॰ ऊर्द्धः सन् कायति शब्दायते। मृदङ्गभेदे सच गोपुच्छ्ववदाकारस्त्रितालपरिमितः मुखेऽष्टाङ्गुलः ऊर्द्धंधृत्वा वाद्यते।
“ऊर्द्धकोगोपुच्छ्वसमस्त्रितालोऽष्टाङ्गुलोमुखे। धृत्वोर्द्ध्वं वाद्यते” शब्दार्ण्णवोक्तेः।
“हरीतक्याकृति-स्थङ्क्यस्तथालिङ्ग्योयवाकृतिः। ऊर्द्धकोदण्डतुल्यः स्यात्सुरजाभेदतोमताः” शब्दचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धक¦ m. (-कः) A kind of drum: see ऊर्द्ध्वक।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धक&oldid=246724" इत्यस्माद् प्रतिप्राप्तम्