ऊर्द्धमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध(र्द्ध्व)मान¦ न॰ ऊर्द्ध्वमारोप्य मीयते येन मा--करणे ल्युट्। पलकर्षादिमिते पाषाणादौ (वाटखारा)। तेन हि तुलादा-वारोपितेन खर्णादेर्गुरुत्वमुन्मीयते। भावे ल्युट्।

२ उच्च-तापरिच्छेदकपरिमाणे च
“ऊर्द्ध्वमानं किलोन्मानं परिमाणंतु सर्वतः। आयामस्तु प्रमाणं स्यात् संख्या बाह्या तुसर्वतः” व्या॰ का॰। अयमर्थः। तुलादावारोपितस्यस्वणादेर्गुरुत्वमितिःतुलापरकोटिदेशे आरोपाद्यदुन्मीयतेतदुन्मानम्। प्रस्थादिना स्वगताभ्यामारोहपरिणाहाभ्यांव्रीह्यादेः सर्वतोमानात् परिमाणम्। आयामोदैर्घ्यंवस्त्रादेर्जलादेश्च मितिर्हस्तदण्डादिना यत् मीयते तत्प्रमाणम्। सर्व्वतः उक्तप्रकारमानत्रयाद्बाह्या बहिर्भूतासंख्या द्वित्वादिरित्यर्थः।
“प्रमाणे द्वयसज्दघ्नञ्मात्रचः” पा॰ विहितौ द्वयसज्दघ्नचौ प्रत्ययौ ऊर्द्धमानादेव
“प्रथमश्च द्वितीयश्च ऊर्द्धमाने मतौ मम” वार्त्तिकोक्तेः।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धमान&oldid=246799" इत्यस्माद् प्रतिप्राप्तम्