ऊर्द्ध्वरेताः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वरेताः, [स्] पुं, (ऊर्द्ध्वं रेतो यस्य न पतति वीय्यं यस्यत्यर्थः ॥) महादेवः । इति त्रिकाण्डशेषः । (अष्टोत्तरसहस्रनामान्तर्गतो महादेवस्य नाम- भेदः । यथा महाभारते १३ । १७ । ४५ । “ऊर्द्ध्वरेता ऊर्द्ध्वलिङ्ग ऊर्द्ध्वशायी नभस्थलः” ॥) भीष्मः । (कृतसमावर्त्तनोऽपि भीष्मदेवः पितुः काम्यविवाहार्थं वैवाहिकधर्म्मं त्यक्तवान् अतस्तस्य ऊर्द्ध्वरेतस्त्वं जातम् । एतद्विवरणन्तु महाभारते १ । सत्यवतीलाभोपाख्याने १०० अध्याये द्रष्टव्यम् ॥) मुनिविशेषः । तद्यथा । सनक-सनन्द-सनातन- सनत्कुमारादयः । (यथा, महाभारते २ । ब्रह्म- सभावर्णने । ११ । ४९ ॥ “अष्टाशीतिसहस्राणि मुनीनामूर्द्धरेतसाम्” ॥ त्रि, विषयासङ्गरहितः । सन्न्यासी । यथा भा- रते शकुन्तलोपाख्याने, -- “ऊर्द्ध्वरेता महाभागो भगवान् लोकपूजितः । चलेद्धि वृत्ताधर्म्मोऽपि न चलेत् संशितवतः” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वरेताः&oldid=120460" इत्यस्माद् प्रतिप्राप्तम्