ऊह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊह ङ वितर्के । सन्देहाद्विचारे । इति कविकल्प- द्रुमः ॥ (भ्वादिं-आत्मं-सकं-सेट् ।) दीर्घादिः । सन्देहाद्विचारस्तर्कः । ङ ऊहन्ते धर्म्मं धीरः । यशः समूहन्निव दिग्विकीर्णमिति गेर्व्वास्योर्होढे चेति परस्मैपदविधानाच्छत्रन्तम् । “अनुक्तमप्यू- हति पण्डितो जनः” । इति गणकृतानित्यत्वादिति रमानाथः । वस्तुतस्तु पचादित्वादनि ऊह इवा- चरतीति क्वौ साध्यम् । इति दुर्गादासः ॥

ऊहः, त्रि, (ऊह् + घञ् ।) पूर्ब्बाप्राप्तस्य उत्क्षेपणम् । तत्पर्य्यायः । अध्याहारः २ तर्कः ३ । इत्यमरः ॥ वितर्कः ४ । वूहः ५ व्यूहः ६ वितर्कणम् ७ अध्या- हरणम् ८ ऊहनम् ९ प्रतर्कणम् १० । इति शब्द- रत्नावली ॥ अपूर्ब्बोत्प्रेक्षणम् । इति जैमिनिः ॥ असमवेतार्थकपदत्यागपूर्ब्बकसमवेतार्थकपदस- मभिव्याहारकरणम् । इति श्राद्धतत्त्वटीका ॥ साकाङ्क्षवाक्यस्य पदान्तरेण आकाङ्क्षापूरणम् ॥ (ऊहनम् । आरोपः । यथा, महाभारते १३ । उमामहेश्वरसंवादे १४५ । ४३ ॥ “इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः । ज्ञानविज्ञानसम्पन्नाः प्रजावन्तोऽथ कोविदाः” ॥ परीक्षणम् । सिद्धिभेदः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊह पुं।

तर्कः

समानार्थक:अध्याहार,तर्क,ऊह,नूनम्,हुम्

1।5।3।1।3

अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊह¦ वितर्के भ्वादि॰ आत्म॰ सक॰ सेट्। ऊहते औहिष्ट। ऊहां[Page1396-b+ 38] बभूव आस चक्रे। ऊहितः ऊहमानः ऊहितुम् ऊहः।
“औहिष्ट तान् वीतविरुद्धबुद्ध्वीन्” भट्टिः। कर्मणि ऊह्यतेऔहि णिच्। ऊहयति ते औजिहत् त।
“रूपेणतावौजिहतां नृसिंहौ” भट्टिः अस्य ऊहशब्दे वक्ष्य-माणेऽर्थेऽपि वृत्तिः। परस्मैपदित्वमप्यस्य ऊहति, इत्यु-हेत्द्विदैवतं दैविकेषु” कात्या॰

१०

१ ,

३ ,

१ ,

१७ , यादौ उप-सर्गात् परस्यादेर्ह्रस्वः। समुह्यतेअति--एकदेशस्थितस्य तद्विपरीतदेशप्रेरणे
“द्रोणकलसमत्यू-ह्य” कात्या॰

९ ,

२ ,

१६ ।
“अत्युह्य प्राञ्चमेव प्रतीच्यांप्रेर्य्य” कर्कः। अधि + अञ्जने।
“अग्निमग्नीत् संमृढ्ढीति यथाधुरमध्यूहेदेवं तद्यत् पूर्वमाघार माघार यत्यध्युह्य हि धुरं युञ्जन्ति” शत॰ ब्रा॰

१ ,

४ ,

४ ,

१३ ,अप + निरसने दूरीकरणे।
“अपोह्य बर्हींषि” कात्या॰

२ ,

२ ,

१७ ,
“एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः” मनुः।
“सर्वान् रसानपोहेत कृतान्न च तिलैः सह” मनुःप्रतिकूलतर्केण प्रकृतर्तर्कापनमने अपोहः। अप + वि + निवारणे
“व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः” भा॰आ॰

४७

० । अभि + आच्छादने।
“अथाङ्गारैरभ्यूहति” शत॰ ब्रा॰

१ ,

२ ,

४ ,

३८ ।
“अभ्यूहति आच्छादयति” भा॰। उत् + उत्कर्षणे।
“रशनामुदुह्य प्राच्याम्” कात्या॰

१ ,

६ ,

१ ।
“उदुह्य उत्कृष्य” कर्कः निरसने च।
“तेन प्राचोऽङ्गा-रानुदूहति” शत॰ ब्रा॰

१ ,

२ ,

१ ,

४ । प्रति + उद् + प्रक्षेपणे
“दक्षिणतः पुरीषं प्रत्यूहेत” शत॰ ब्रा॰

१ ,

३ ,

५ ,

१७ । वि + उद् + अन्ते विवर्द्धने।
“चतुङ्गुलमुभमयतो बाह्यतो व्यु-दूहति” शत॰ ब्रा॰

१०

२ ,

१ ,

४ । व्युदूहति अन्ते विवर्द्ध-यति” भा॰उप + अधस्तात् प्रवेशने।
“पश्चाच्छम्यामुपोहति” कात्या॰

२ ,

५ ,

४ ।
“उपोहति अधस्तात् प्रवेशयति” कर्कः। निर् + निष्काश्य ग्रहणे पृथक्करणे च। गार्हपत्यादुष्णं भस्मनिरुह्य” शत॰ व्रा॰

१३ ,

४ ,

२ ,

२ ।
“शिरः श्रियमस्य निरौ-हत्” शत॰ ब्रा॰

१० ,

५ ,

४ । वपान्तेऽनपेक्षमध्वर्युःप्रेष्यति निरूहैतं गर्भमिति”
“निरुह्यमाणमभिमन्त्रयीत” कात्या॰

२५ ,

१० ,

४ ,

५ । निरुह्यमाणं पृथक्क्रियमाणम्वेददी॰ निरूहणम्परि + परितः खातपूरणे।
“अरत्निमात्रे संतृण्णे वोपदधाति-पर्यूहति च” कात्या॰

८ ,

५ ,

२५ । पर्यूहति पांशुभिरन्त-रालं परितः पूरयति” कर्कः। पर्य्यूहणम्। [Page1397-a+ 38] प्र + देशान्तरनयने।
“प्रोह्य द्रोणकलसम्” कात्या॰

९ ,

५ ,

१४ ।
“प्रोह्य प्रेर्य्य” कर्कः। पातने च
“कृष्णाजिनेप्रोहति” कात्या॰

२ ,

५ ,

७ । प्र + ऊहस्यादेर्वृद्धिः प्रौहः। प्रति + उपरिस्थापने।
“दीक्षितोरौ दक्षिणे प्रत्यह्य वासः” कात्या॰

७ ,

८ ,

२३ ।
“प्रत्युह्य उपरि स्थापयित्वा” वेददी॰निवारणे च।
“प्रत्यौहतमश्विनी मृत्युमुखात्” यजु॰

२७ ,
“प्रत्यौहतं न्यवर्त्तयताम्” वेददी॰। वि + विपरीततया प्रेरणे
“जुहूपभृतौ व्यूहति” कात्या॰

३ ,

५ ,

१७ । सैन्यानां सन्निवेशविशेषेण स्थापने च। व्यूहः।
“प्रहर्षयेद्बलं व्यूह्यतांश्च सम्यक् परीक्षयेत्” मनुः। समवेतभवने।
“योवैम्रियते ऋतवोऽस्य व्युह्यन्ते” शत॰ब्रा॰

८ ,

७ ,

१२ ,

११ ,प्रति--वि प्रतिरूपव्यूहकरणे।
“वार्हस्पत्यविधिं कृत्वा प्रति-व्यूह्य निशाचरम्” भा॰ व॰

३८

४ अ॰। विरोधाचरणे चप्रत्यूहःसम्--समवेतभवने संहनने सम्यक्प्रापणे च।
“यद्गव्यन्ताद्वा जना स्वर्यन्ता समूहसि” ऋ॰

१ ,

१३

१ ,

३ , ससूहसिप्रापयसि भा॰। सम्यक्पूरणे
“अङ्गारैरभि समूहति” शत॰ब्रा॰

४ ,

५ ,

२ ,

१८ , समूहःउप + सम् समीपे सङ्कोचने
“पक्षाउपसमूहन्ते” शत॰ ब्रा॰

१० ,

२ ,

१ ,

१ ,
“समूहन्ते मध्यमागसमीपे सङ्कोचयन्ति” भा॰। परि--सम्--समन्तात् परिमार्जने
“वेदिं परिसमुह्य” कात्या॰

२ ,

६ ,

१ ,

२ ,
“परिसमुह्य सर्म्माज्य” कर्कः।
“अग्निं प्रति-ष्ठाप्यान्वाधाय परिसमुह्य” आश्व॰ गृ॰

१ ,

३ ,

१ ,
“परिसमूहनंनाम चाग्नेः समन्तात् परिमार्जननम्” नारा॰ वृ॰। समूढव्यूढनिरूढादिकमस्यैव रूपमाहुः केचित्। अस्य-सेट्कत्वात् ऊहित इत्यादय एव स्युः। अतस्तानि उपसृष्टस्यवहतेरेव रूपाणीत्यन्ये। अस्यैव आङ्पूर्ब्बकस्य ओहतेइति रूपम्। न तु केवलस्य, दीर्घोपधत्वेन गुणाप्रसक्तेः।

ऊह¦ पु॰ ऊह--घञ्।

१ वितर्के आगमाविरोधिना तर्केण आगमार्थस्यसंशयपूर्व्वपक्षनिवारणपूर्वकोत्तरपक्षव्यवस्थापनेन निर्णयरूपे

२ परीक्षणे,

३ अनन्वितार्थकविभक्तिलिङ्गुत्यागपूर्व्वके अन्व-ययोग्यविभक्त्यादिकल्पने, यथा पार्वणे सौम्यास इति बहु-वचनमन्वितमपि एकोद्दिष्टे अनन्वितत्वात् सौम्य इत्येकवच-नान्ततया कल्पनम्।

४ पदान्तरेणाकाङ्क्षापूरणार्थेअध्याहारेच।
“ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्-प्राप्तिः। दानञ्च सिद्धयोऽष्टौ सिद्ध्वेः पूर्व्वोऽङ्कुशस्त्रिविधः” सा॰ का॰ उक्ते ताराख्ये

५ सिद्धिमेदे
“ऊहस्तर्कः आगमा-[Page1397-b+ 38] विरोधिन्यायेनागमार्थपरीक्षणम्। संशयपूर्व्वपक्षनिराकर-णेनोत्तरपक्षव्यवस्थापनं तदिदं मननमाचक्षते आग-मिनः सा तृतीया सिद्धिस्तारमुच्यते” सा॰ कौ॰
“रक्षोहा-गमलघ्वसन्देहाः प्रयोजनम्” का॰ वार्त्ति॰।
“ऊहः खल्वपिन सर्व्वैर्लिङ्गैर्नच सर्व्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदि-तास्ते चावश्यं यज्ञगतेन पुरुषेण यथायथं विप-रिणमयितव्याः तान्नावैयाकरणः शक्नोति विपरिणमयितुम् तस्मादध्येयं व्याकरणम्” महाभा॰।
“ऊहः ख-ल्वपोति। इह यस्मिन् यागे इतिकर्त्तव्यतोपदिष्टा यागा-न्तरेणोपजीव्यते सा प्रकृतिः येन चोपजीव्यते सा विकृतिःप्रकृतिवद्विकृतिः कर्त्तव्येति मीमांसकैर्व्यवस्थापिते न्या-ये प्रकृतिप्रत्ययादीनामूहं वैयाकरणस्मम्यग्विजानाति। तत्र अग्नेर्मन्त्रोऽस्ति
“अग्नये त्वा जुष्टन्निर्वपामीति” तत्र
“सौर्य्यं चरुं निर्वपेत् ब्रह्मवर्चसकाम” इति सौर्य्ये चरौमन्त्र ऊह्यते सूर्य्याय त्वा जुष्टं निर्वपामीति। विस्तरेणभर्त्तृहरिणा प्रदर्शित ऊहः” कै॰।
“ऊहः खल्वपीत्यस्यप्रयोजनमिति शेषः। ननु यत्र प्रकरणे ये मन्त्राः पठि-तास्तत्र तेषां तथैव प्रयोग इष्ट इति नोहेन प्रयोजनमित्याशङ्क्य प्रकृतावूहाभावेऽपि विकृतावूह इति दर्शयितुम्प्रकृतिशब्दार्थ माह। इहेति। यस्मिन्नाग्नेयादौ। यागान्तरेण सौर्य्यादिना। प्रकृतिविकृत्यवगमश्च द्विदैवत्यत्वैकदेवत्यत्वादिसाम्येन बोध्यः। अन्यत्र पठितमन्त्रा-णाङ्कथमन्यत्र गमनमत आह प्रकृतिवदिति। यथा सोप-कारा प्रकृतिरनुष्ठीयते तथा विकृतिरपीति तदर्थः त-दनेनोपकारातिदेशे तत् पृष्ठभायेन पदार्था अप्यतिदि-श्यन्ते इतिकर्त्तव्यताय्यम्भावनायास्साकाङ्खत्वादेतन्मू-लकमेव प्रकृतिवदितीति मीमांसकसरणिः। यागा-न्तर्गताश्च मन्त्राः। तत्र अग्निसम्बन्धिनिर्वापप्रकाशकमन्त्रस्थाग्निपदस्य सूर्य्यसम्बन्धिनिर्वापप्रकाशनासम-र्थत्वात्तदपहाय तत्स्थाने सूर्य्यायेत्यूह्यमित्याह त-त्राग्नेरिति। मन्त्र ऊह्यत इति। यद्यप्यूहे न मन्त्र-त्वं तथाप्येकदेशस्योहेऽपि अनेकपदसमुदाये मन्त्रत्वप्रत्य-भिज्ञानात्तद्घटिते समुदाये मन्त्रत्वव्यवहारः, कर्म्मण स्सा-ङ्गत्वञ्चेति बोध्यम्। सोऽयम्प्रकृत्यूहः अन्येऽप्यूह्याः। ऊ-हज्ञस्य हि आर्त्विज्यलाभेन द्रव्यप्राप्तिद्वारा ऐहिकसुखसिद्धिःफलमिति बोध्यम्। भाष्ये लिङ्गपदञ्च प्रकृत्या-देरुपलक्षणम्। यथायथमिति। अर्थप्रकाशनसाम-र्थ्यानतिलङ्घनेनेत्यर्थः” उद्योतः। [Page1398-a+ 38]( तादृशोहभेदस्तु अधिकरणमालादौ दृश्यः। द्रव्यप्रतिनिधौ तु नोहः।
“तैलं प्रतिनिधिं कुर्य्यात्घृतार्थे याज्ञिको-यदि। प्रकृत्यैव तदा होता ब्रूयात् घृतवतीमिति” मीमां॰कात्यायनसूत्रादौ प्रतिनिधिविषये ऊहाभावोदर्शितो यथा(
“अथेदं चिन्त्यते विहितद्रव्यस्याभावे द्रव्यान्तरे प्रति-निधित्वेनोपात्ते छागाभावे मेषरूपे अनुवाचनप्रेषादौकिमूहं कृत्वा प्रतिनिहितद्रव्यशब्दस्य प्रयोगः कार्य्यः
“अग्नीषोमाभ्यां मेषस्य वपाया” इत्येवम् उत विहितद्रव्यशब्दस्यैव अग्नीषोभाभ्यां छागस्येत्येवमेवेति। तत्र मन्त्रेणद्रव्यमभिधेयम् न चानूहितः प्रतिनिहितं द्रव्यं शक्नो-त्यभिधातुम् तस्मादूहित्वा प्रतिनिहितद्रव्यवाचिशब्दस्यप्रयोगे प्राप्त आह”
“शब्देऽविप्रतिपत्तिः” कात्या॰

१ ,

४ ,

९ ,
“प्रतिनिधावुपात्तेऽपि विहितद्रव्यवाचिनि-शब्दे अविप्रतिपत्तिरविपरिणामः अनूहो भ-वति अग्नीषोमाभ्यां छागस्य वपाया इत्यनूहितमेव मे-षेऽपि प्रयोज्यम् न तु मेषस्येत्येवं विपरिणतरूपमित्यर्थःकुतः? प्रतिनिधिः श्रुतद्रव्यबुद्ध्या गृह्यते न तु द्रव्यान्तरबुद्ध्या अतश्छाग एवायमिति बुद्ध्या गृहीतत्वात्तच्छब्दे-नैवाभिधानम्। यद्यत्र मेषश्छागवत् साधनं भवेत्ततस्तत्-प्रकाशकम् मेषपदं प्रक्षिप्येत न त्वेवम्, किं तर्हि मेष-गता ये छागांशास्त एवात्र साधनम् ते च छागगताइव मेषगता अपि छागशब्देनैव प्रकाशयितुं शक्यन्त्यइत्यनूहेनैव प्रयोगः। यत्र तु द्रव्यान्तरं वचनेन विधी-यते यथा
“सारस्वतीं मेषीमिति”
“ऐन्द्रं मेषमिति”
“ऐन्द्रऔरभ्रः” इति तत्र द्रव्यान्तरबुद्धिर्भबति तत्र ऊहोऽपिभवति। नचात्रेवंविधं किमपि वचनमस्ति तस्माद्बहू-नामवयवानां सामान्याच्छ्रुतद्रव्यमेवेदमितिबुद्ध्या मेषादि-द्रव्यस्य छागादिप्रतिनिधित्वेनोपादानम्। तेन श्रुत-द्रव्यशब्देनैवाभिधानं युक्तमिति साधूक्तम् शब्देऽविप्र-तिपत्तिरिति। यत्र तु वचनेन द्रव्यान्तरं विधीयतेतत्र ऊहो भवतीत्युक्तम् तेन सोमाभावे पूतीकानभिषुणुया-दिति पूतीकानां वाचनिकत्वादूहो भविष्यतीत्याशङ्याह” कर्कः
“सोमेन जात्यभावात्” का॰ सू॰

१०
“सोमेनेति तृती-यैकवचनम्। सोमाभावे पूतीकेषूपात्तेषु सोमशब्देनैवपूतीकानामभिधानं कर्त्तव्यम्।
“अंशुरंशुष्टे देव! सोम!पायतामित्येवम् न तु पूतीकाशब्देन। अथ वा सोमे इतिसप्तम्येकवचनम् नेनि निषेधः। सोमप्रतिनिधित्वेनोपा-त्तेषु अर्ज्जुनश्येनहृतपूतोकादिषु सोमे सोमशब्दे ऊहो[Page1398-b+ 33] न भवति कुतः जात्यभावात् जात्यन्तरबुद्ध्यभावात् नह्यत्रवचनेन द्रव्यान्तरं विधीयते किं तर्हि सोमाभावे यागस्या-वश्यकर्त्तव्यत्वादनेकेषु सुसदृशेष्वीषत्सदृशेषु च प्राप्तेषुपूतीकादेर्नियमः क्रियते तेनैन्द्रमेषैतिवद् वाचनिकजात्यन्तराभावादतोऽप्यूहो न भचति” कर्कः।
“छाग! त्वं बलिरूपेणेत्यादिमन्त्रे च बहुपशुघाते न ब-हुत्वोहः। तदेततत्” ति॰ त॰
“बहुपशुघातेऽपि मन्त्रेएकवचनान्त एव प्रयोज्यः न बहुवचनोहः।
“नरंपञ्चत्वमागतम्” इत्यत्र नार्य्यां स्त्रीत्वोहाभाववत् अतएवसपत्नीकयजमानप्रयोगेऽपि
“पत्नीं सन्नह्येति” मन्त्र एक-वचनान्त एवेति। ऊहं प्रकृत्य
“प्रकृतावपूर्ब्बत्वात्” कात्या-यनेनोहस्य प्रकृतो प्रतिषेधात्। विकृतावेवोहः।
“ऊहो-ऽपूर्ब्बोत्प्रेक्षणमिति” जै॰ तल्लक्षणात् न वान्वयबाधःवैभक्ति-कार्थापेक्षया प्राथमिकत्वेन बलवतः प्रातिपदिकार्थस्य सम-न्वितत्वेनाविरोधात्। एवञ्च प्रकृतौ नररूपबहुपशौबहुवचनोहाभावात् छागादौ विकृतिभूतेऽपि न बहुवच-नोहः किन्तु एकवचनमात्रमिति” वदता रघुनन्दनेन तथासमर्थितम्। संकल्पादिवाक्ये तु ऊह इति भेदः। ऋत्विगादि-प्रयोगे च अस्मदादिपदघटिते
“दातारोनोऽभिवर्द्धन्ता-मित्यादि” मन्त्रेऽपि नोहः तैस्तथा प्रयोगेऽपि यजमान-गतानामेव तत्तत्फलानामवगम इत्याकरे प्रपञ्चः। तथा-चासमवेतार्थस्य समन्वयाय मन्त्रे समवेतार्थकरण-रूपमपूर्ब्बस्योत्प्रेक्षणमूहः।

५ आरोपे

६ समूहने च।
“इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः” भा॰ अमु॰

१४

५ अ॰
“ऊहापोहाभ्यां तत्त्वावधारणम्” पातञ्ज॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊह¦ r. 1st cl. (ऊहते) To reason, to apprehend and infer: with प्र and वि to intermit; with वि, to array in order of battle; with सम् prefixed, (समूहति or -ते) to assemble or to be assembled.

ऊह¦ mfn. (-हः-हा-हं)
1. Reasoning.
2. Completing a defective sentence or verse, supplying an ellipsis. E. ऊह् to deliberate, घञ् affix, or with ल्युट् affix, ऊहन।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊह [ūha], a. Observed, perceived. -हः [ऊह्-घञ्]

A change, modification. ऊहदर्शनं न विवक्षितार्थानामेव भवति । ŚB. on MS.1.2.52. ऊह forms the subject-matter of जैमिनि's मीमांसासूत्र, अध्याय IX. It is said to bo of three varieties; cf. त्रिविधश्च ऊहः मन्त्रसामसंस्कारविषयः ŚB. on MS; 9.1.1.

A guess, conjecture; Mb.5.33.28.

Examination and determination.

Understanding.

Reasoning, arguing.

Supplying an ellipsis.

Attributing, ascribing.

Collection. -Comp. -अपोहः full discussion, consideration of the pros andcons; इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः Mb.13.145.43; ऊहापोहमिमं सरोजनयना यावद्विधत्तेतराम् Bv.2.74; see अपोह.-गानम् N. of the third Gāna or hymn-book of the Samaveda. -च्छला f. N. of a chapter of the Sāmaveda Chchhalā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊह m. removing , derangement , transposition , change , modification La1t2y. S3a1n3khS3r. Pat. etc.

ऊह m. adding , addition Car.

ऊह m. the act of comprehending , conceiving

ऊह m. consideration , deliberation , examination

ऊह m. supposition , conclusion , inference MBh. BhP. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=ऊह&oldid=493724" इत्यस्माद् प्रतिप्राप्तम्