ऊहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊहः, त्रि, (ऊह् + घञ् ।) पूर्ब्बाप्राप्तस्य उत्क्षेपणम् । तत्पर्य्यायः । अध्याहारः २ तर्कः ३ । इत्यमरः ॥ वितर्कः ४ । वूहः ५ व्यूहः ६ वितर्कणम् ७ अध्या- हरणम् ८ ऊहनम् ९ प्रतर्कणम् १० । इति शब्द- रत्नावली ॥ अपूर्ब्बोत्प्रेक्षणम् । इति जैमिनिः ॥ असमवेतार्थकपदत्यागपूर्ब्बकसमवेतार्थकपदस- मभिव्याहारकरणम् । इति श्राद्धतत्त्वटीका ॥ साकाङ्क्षवाक्यस्य पदान्तरेण आकाङ्क्षापूरणम् ॥ (ऊहनम् । आरोपः । यथा, महाभारते १३ । उमामहेश्वरसंवादे १४५ । ४३ ॥ “इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः । ज्ञानविज्ञानसम्पन्नाः प्रजावन्तोऽथ कोविदाः” ॥ परीक्षणम् । सिद्धिभेदः ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊहः&oldid=120550" इत्यस्माद् प्रतिप्राप्तम्