ऋक्षम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षम्, क्ली, पुं, (ऋष् + स । “स्नुव्रश्चिकृत्यृषिभ्यः कित्” । ३ । ६६ । इत्युणादिसूत्रेण कित् ।) नक्षत्रम् । इति मेदिनी ॥ (यथा, मनुः । २ । १९१ । “पूर्ब्बां सन्ध्यां जपंस्तिष्ठेत् सावित्रीमार्कदर्शनात् । पश्चिमान्तु समासीनः सम्यगृक्षविभावनात्” ॥ तच्च अश्विन्यादिभेदेन सप्तविंशतिः ।) राशिः । इति ज्योतिषम् ॥ (राशयश्च मेषवृषादिभेदेन द्वादश । अस्मिन्नर्थे प्रमाणं यथा रघौ । १२ । २५ । “प्रययावातिथेयेषु वसन्नृषिकुलेषु सः । दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः” ॥ “ऋक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव” । इति तट्टीकायां मल्लिनाथः ॥)

"https://sa.wiktionary.org/w/index.php?title=ऋक्षम्&oldid=120566" इत्यस्माद् प्रतिप्राप्तम्