ऋग्वेद

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्वेद¦ पु॰ ऋच्यते स्तूयते ऋक् कर्म्म॰। वेदभेदे। स च मन्त्र-ब्राह्मणोभयात्मकः। तत्र मन्त्रसमूहात्मकः ऋक्शब्देबक्ष्यमाणलक्षणर्गात्मकः संहितारूपो ग्रन्थः। तत्र दशमण्डलानि तत्राद्ये मण्डले

२४ अनुवाकाः
“अग्नि-मीले” इत्यादीनि आग्नेयानि

१९

१ सूक्तानि तानि शत-र्चिकर्षिदृष्टानि अध्यायोपाकरणोत्सर्गयोर्विनियुक्तानि। ( द्वितीये शौनकगृत्समदर्षिदृष्टे चत्वारि अनुवाकाः। त्वमग्न इत्यादीनि

४३ सूक्तानि आग्नेयानि उपाकरणो-त्सर्गयोर्विनियुक्तानि। शौनक गृत्समदः ऋषिरेतन्मण्डद्रष्टास च पूर्ब्बमाङ्गिरसकुले शुनहोत्रस्य पुत्रः सन् यज्ञकालेऽ-सुरैर्गृहीत इन्द्रेण मोचितः। पश्चात्तद्वचनेनैव भृगुकुले शुनकपुत्रो गृत्समदनामाऽभूत्।
“य आङ्गिरसः शौनहोत्रोभूत्वा भार्गवः शौनकोऽभवत् स गृत्समदो द्वितीयमण्डल-मपश्यत्” सर्वानु॰ उक्तेः।
“त्वमग्न इति गृत्स-मदः शौनको भृगुतां गतः। शौनहोत्रः प्रकृत्या तु य[Page1410-a+ 38] आङ्गिरस उच्यते” इति ऋष्यनुक्रमोक्तेश्च। ऋग्वेदभाष्यम्। ( तृतीये विश्वामित्रदृष्टे पञ्चानुवाकाः सो-मस्य मेत्यादीनि

६२ सूक्तानि। तानि च आग्नेयानिप्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि। ( चतुर्थे वामदेवर्षिदृष्टे पञ्चानुवाकाः। आग्नेयानि त्वांह्यग्ने इत्यादीनि

५८ सूक्तानि। आद्याध्यायोपाकरणेमण्डलादिहोमे च विनियुक्तानि। ( पञ्चमे आत्रेयबुधगविष्ठिराद्यर्षिके षड् अनुवाकाः

८७ अबोध्यग्निरित्यादीनि सूक्तानि आग्नेयानि आग्नेगेक्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चत्वारि शिष्टानि अ-ध्यायोत्सर्ज्जनीपाकरणयोर्विनियुक्तानि। ( षष्ठे भरद्वाजदृष्टे षडनुवाकाः त्वं ह्यग्ने प्रथम इत्या-दीनि

७५ सूक्तानि आग्नेयानि तत्र प्रातरनुवाके आग्नेयेक्रतौ त्रैष्टभे छन्दसि एतदादिसूक्ताष्टकं द्वितीयवर्जंविनियुक्तम् शिष्टानि आद्योपाकरणे विनियुक्तानि। ( सप्तमे वसिष्ठदृष्टे

६ अनुवाकाः अग्निं नर इत्यादीनि

१०

४ सूक्तानि आग्नेयानि तेषां विशेषतो विनियोगोबाहुल्यात्योक्त आकरे दृश्यः। ( अष्टमे मेधातिथिमेध्यातिथ्यादिनानर्षिक। दशानु-वाकाः। इन्द्रादिदैवत्यानि
“मा चिदन्यद्वीत्यादीनि

१०

३ सूक्तानि महाव्रतादौ विनियुक्तानि। ( नवमे वैश्वामित्रमधुछन्दआद्यृषिके सप्तानुवाकाःपावमानसोमादिदेवताकानि स्वादिष्ठयेत्यादीनि

११

४ सूक्तानि तेषाञ्च उपाकर्म्मणि मण्डलादिग्रहणे चयथायथं विनियोगः। ( दशमे मण्डले आप्त्यत्रिताद्यर्षिके द्वादशानुवाकाःअश्वे वृहन्नित्यादीनि

१९

१ सूक्तानि आग्मेयादीनि। प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसी-त्यादि कर्मसु विनियुक्तानि। इत्येवं दशसु मण्डलेषु

१ म॰

१९

१ ,

२ म॰

४३ ,

३ म॰

६२ ,

४ म॰

५८ ,

५ म॰

८७ ,

६ म॰

७५ ,

७ म॰

१०

४ ,

८ म॰

१०

३ ,

९ म॰

११

४ ,

१० म॰

११

९१ । इत्येवं समष्टि भूतानि

१०

२८ सूक्तानि। सूक्तानि च एकद्व्यादिकर्ग् घटितानि यथायथंतत्तत्सूक्तेषु दृश्यानि। एतत्संख्या च बालखिलसहितानांतद्व्यतिरिक्तानि तु

१०

१७ सूक्तानि तच्च चरणव्यूह-भाष्ययोः स्पष्टम्। तस्य च पकारान्तरेण विभागः तस्यअष्टाष्टकानि प्रत्येकाष्टके च अष्टौ अष्टौ अध्यायाःइत्येवं

६४ अध्यायाः[Page1410-b+ 38] तत्र च वर्गा

२०

०६ संख्यकाश्चरणव्यूहोक्ताः खिल-सहितस्तु ततोऽप्यधिकाः। चरणव्यूहभाष्ययोर्दर्शित-विभागो दर्श्यते यथा। (
“चातुर्वेद्य चत्वारोवेदा विज्ञाता भवन्ति ऋग्वेदो-यजुर्वेदः सामवेदोऽथर्ववेदश्चेति तत्र ऋग्वेदस्या-ष्टभेदा भवन्ति चर्चा श्रावकश्चर्चक श्रवर्णायपारः क्रमपारःक्रमजटाः क्रमदण्डश्चेति चतुष्पारायणमेतेषां शाखाःपञ्च भवन्त्याश्वलायनी सांख्यायनी शाकला बाष्कला मा-ण्डूकाश्चेति तेषामध्ययनम्। अध्यायानां चतुःषष्टिर्मण्ड-लानि दशैव तु। वर्गाणां परिसंख्यातं द्वे सहस्रे षडुत्तरेसहस्रमेकं सूक्तानां निर्विशङ्गं विकल्पितम्। दश सप्त चपठ्यन्ते संख्यातं वै पदक्रमात्। एकशतसहस्रं वा द्वि-पञ्चाशत्सहस्रार्द्धमेतानि चतुर्दश वासिष्ठानामितरेषांपञ्चाशीतिः। ऋचां दश सहस्राणि ऋचां पञ्चशतानिच। ऋचामशीतिः पादश्च पारायणं प्रकीर्त्तितम्। एकर्च एकवर्गश्च नवकश्च तथा स्मृतः। द्वौ वर्गौ द्विऋचौज्ञेयौ ऋक्त्रयं शतं च स्मृतम्। चतुरृचां पञ्च-सप्तत्यघिकञ्च शतं तथा। पञ्चऋचां तु द्विशतंसहस्रं रुद्रसंयुतम्। पञ्चचत्वार्य्यधिकं तु षड्ऋचां च शतत्रयम्। सप्त ऋचां शत ज्ञेयं विंशति-श्चाधिकाः स्मृताः। अष्टऋचां तु पञ्चाशत् पञ्चाधिका-स्तथैव च। दशाघिकद्विसहस्राः पञ्चशाखासु निश्चिताः। वर्ग संज्ञा न सूक्तस्य चत्वारश्चात्र कीर्त्तिताः” चरण-व्यूहः। वेदपारायणचतुर्विभागात् चरण उच्यते। तस्य व्यूहः समुदायः, चतुर्वेदानां समुदायं व्याख्या-स्यामः इत्यर्थः। कथमेकोवेदः तदुक्त आरण्यके,
“सर्वेवेदाः सर्वेघोषा एकैव व्याहृतिः प्राणा एव प्राणाऋच इत्येता विद्यादिति” तस्य चतुर्धा भागः कृतः। तथाचोक्तं भागवते।
“तेनासौ चतुरो वेदाः चतुर्भिर्वदनैःप्रभुः। सव्याहृतिकान्सोङ्कारांश्चतुर्होत्रविचक्षणः। पुत्रानध्यापयंस्तां तु ब्रह्मषिर्ब्रह्मकोविदान्। ते तु धर्म-पदेष्टारः स्वपुत्रेभ्यः समादिशन्। ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः। चतुर्युगेष्वप्यव्यस्ता द्वापारादौमहर्षिभिः। क्षीणायुःक्षीणसत्यञ्च दुर्मेधा वीक्ष्य का-लतः। वेदान् ब्रह्मर्षयोव्यस्तान् हृदिस्थाऽच्युतनोदितः। अस्मिन्मन्वन्तरे ब्रह्मन् स्वर्गत्वा लोकभावनः। ब्रह्मेशा-द्यैर्लोकपालैर्याचितोधर्मगुप्तये। पराशरात् सत्यवत्यामंशां-शकलया विभुः। अवतीर्णोमहाभागो बेदं चक्रे चतु-[Page1411-a+ 38] विधम्। ऋगथर्वयजुःसाम्नोराशीनुद्धृत्य वर्गशः। चत-स्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव। तासां स चतुरः-शिष्यान् उपाहूय महामतिः। एकैकसंहितां ब्रह्मन्नेकेकस्मैददा विभः। पेलायः संहितामाद्यां बह्वृचाख्यामुवाच ह। शैम्पायनसंज्ञाय निगदाख्यं यजुर्गणम्। साम्नां जैमिनयेप्रादात्तथा छन्दोगसंहिताम्। अथर्वाङ्गिरसं नाम स्व-शिष्याय सुमन्ततये। पैलः स्वसंहितामूचे इन्द्रप्रमित-ये मुनिः। बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितांस्वकाम्। चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव!। पराशरायाग्निहोत्रे इन्द्रप्रमतिरात्मवान्। अध्यापयत्संहितां स्वां माण्डूकेयमृषिङ्कविम्। तच्छिष्यो देवमित्रश्चसौभार्यादिभ्य ऊचिवान्। (इन्द्रप्रमतिसुतो माण्डूकेयः। माण्डूकेयसुतः शाकल्यः। शाक{??}शिष्यो देवमित्रः)। शाकल्यस्तत्सुतः स्वान्तु पञ्चधा व्यस्य संहिताम्। वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात्। जातूकर्णश्च तच्छिष्यःसनिरुक्तां स्वसंहिताम्। बालाकपैङ्ग्यवेतालविरजेभ्योददौसुनिः। वाष्कलिः प्रतिशाखाभ्यो बालखिल्याख्यसंहि-ताम्। चक्रे बालायनिर्भुज्यः काशारश्चैव तां दधुः। बह्वृचाः संहिताह्येता एतैर्ब्रह्मर्षिभिर्धृताः। श्रुत्वैवछन्दसां व्यासं सर्वपापैः प्रमुच्यते” भाग॰

१२ ,

६ अ॰।
“ब्रह्मणा नोदितो व्यासोवेदान् व्यस्यन् प्रचक्रमे। अथशिष्यान् सञ्जग्राह चतुरोवेदपारगान्। ऋग्वेदश्रावकंपैलं सञ्जग्राह महामतिः। वैशम्पायननामानं यजु-र्वेदस्य चाग्रहीत्। जैमिनिः सामवेदस्य तथैवाथर्ववेद-वित्। सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धोमतः” विष्णुपु॰गृह्यसूत्रम्।
“सुमन्तुजैमिनिवैशम्पायनपैलाः सूत्र-भाष्यमहाभारतधर्माचार्या” इति। जलतिबाह-वीत्यारभ्य माण्डूकेया इत्यन्तामाण्डूकगणाः गर्गीवाचक्न-वीत्यारभ्य सांख्यायनमित्यन्ताः सांख्यायनगणाः। एतेषांकौषीतकीसूत्रं ब्राह्मणम् आरण्यकं च। ऐतरेय इत्या-रभ्य आश्वलायनान्ताः आश्वलायनगणाः एषन्तु ऐतरेयआरण्यकं ब्राह्मणम्। आश्वलायनसूत्रम्। तत्र यदुक्तं चातुर्वेद्यं चत्वारोवेदाविज्ञाता भवन्ति। अ-स्मिन् ग्रन्थे चातुर्वेद्यं तेन चत्वारोवेदाविज्ञाता भवन्तिऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदश्चेति इति स्पष्टार्थः। वेदा हि यज्ञार्थम् अभिप्रवृत्ताः। ते यज्ञाः द्विविधाः। अग्नौ हूयमाना, अनग्नौ प्रहुताः। अग्नौ हूयमानावैताविकाः। अनग्नौ प्रहुता नित्याभ्यासो ब्रह्मयज्ञः पारा-[Page1411-b+ 38] यणं च। अत्र गृह्यसूत्रे ब्रह्मयज्ञखण्डे
“यद्वचोऽधीतेप-यआहुतिभिरेव तद्देवतास्तर्पयति, यद्यजूंषि घृताहुतिभिः,यत्सामानि मध्वाहुतिभिः, यदथर्वाङ्गिरसः सोमाहुतिभिः,यत् ब्राह्मणानि कल्पान् गाथानाराशंसीरितिहासपुरा-णानीत्यमृताहुतिभिर्यदृचोऽधीते स्वधा अस्य पितॄन् उप-क्षरन्ति” इति। तत्र ऋग्वेदस्याष्टभेदा भवन्ति। स्थानानिभवन्तीति पाठान्तरम्। शाकलबाष्कलौ

२ ऐतरेयब्राह्म-णारण्यकौ

४ साङ्खायनमाण्डूकौ

६ । कौषीतकीयब्राह्मणारण्मकाविति

८ अष्टभेदाः। अन्यच्च
“वेदाश्चविकृतिः शाखाभेदस्तु त्रिविधस्ततः। पृथग्नामाभिधानेनव्यासेन कथितं पुरा” इति। अत्राष्टभेदेनाष्टस्थानेन वाप्रकृतिर्ग्राह्या विकृतिस्तु अग्रे वक्ष्यामः। तस्मात् ब्रह्म-यज्ञार्थे पारायणार्थे च ऋग्वेदस्याध्ययनं कर्त्तव्यम्। ततश्चतु-ष्पदेन वक्ष्यति। चर्चेत्यादि चर्चाध्ययनम्। ताल्वोष्टपुट-व्यापारेण शब्दस्योच्चारणं क्रियते सा चर्चा। तस्याध्ययनस्यगुरुः श्रावकः। तस्य चर्चकः शिष्यः श्रवणीयपारः। श्रवणीयोवेदः। तस्य पारं समाप्तिः। इति चतुष्पदेन अध्ययनंसूचितम्। अग्रे चतुष्पदेन चत्वारि पारायणानि सू-चयढि। तत्पारायणं द्विविषम्। प्रकृतिविकृतिरूपम्का प्रकृतिः?। प्रकृतिः संहिता। सा द्विविधा रूढायोगा च रूढा यथा!
“अग्निमीले पुरोहितमिति। योगायथा। अग्निम् ईले पुरोहितमिति। प्रातिशाख्येद्वितीयपटले भाष्यकारेण व्याख्यातम्। अथ चतुष्पारा-यणं यथा। क्रमपारः क्रमपदः क्रमजटाः क्रमद-ण्डश्चेति चतुष्पारायणम्। क्रमशब्देन उभयसंहिताबाच्या स कथम्?।
“अनुलोमविलोमाभ्यां द्विवारंहि पठेत् क्रमम्। विलोमे पदवत्सन्धिरनुलोमे यथाक्र-मम्”। यथाक्रमं यथा संहिता इत्यर्थः। अन्यच्च वर्ण-क्रमः। अक्षरसमाम्नाय एवेत्यारण्यके।
“कथमभिष्टुयादि-त्यक्षरशः चतुरक्षरशः पच्छः अर्द्ध्वर्चशः ऋक्शः”। इति ब्राह्मणम्। क्रमः संहितावाची कथम्?। पदप्रकृतिः संहिता इति नैरुक्तवचनात्। सा क्रमरूपाइत्यर्थः। क्रमपदः। क्रमः संहिता तस्याः पदानि इतिप्रकृतिपारायणे द्वेप्रकृतिरूपे। विकृतिस्तु अष्टधा भवति। तच्च
“जटा माला शिस्वा लेखा ध्वजो दण्डोरथोघनः। अष्टौ विकृतयः प्रोक्ताः क्रमपूर्बा महर्षिभिः” इति आसां मध्येजटदण्डयोः प्राधान्यं तत्कथम्?। जटानुसारिणी शिखादण्डनुसारिणो मालालेखाध्वजोरथश्च। घनस्तु{??}भयो-[Page1412-a+ 38] रेवात्तुसारी। तत्र जटापटले जटावाक्यम्।
“क्रमे यथोक्तेपदजातमेव द्विरभ्यसेदुत्तरमेव पूर्ब्बम्। अभ्यस्य पूर्ब्बं च त-थातरे पदेऽवसानमेवं हि जटाभिधीयते” अस्यार्थः। क्रमेयथोक्ते सति क्रमोत्क्रमाभ्यामित्युक्ते क्रमप्रकारेपदजातं पदद्वयं वा पदत्रयं वा द्विवारमभ्यसेत्। द्वि-वारम्पठेत्। अभ्यासप्रक रः। उत्तरमेव पूर्ब्बम्। क्रमवतपदद्वयं गृहीत्वा पूर्ब्बेण समं प्रथमम् उत्तरपदम-भ्यसेत्। ततः उत्तरपूर्ब्बपदयोः सन्धानद्वारा पूर्ब्बम्द्विरभ्यस्योत्तरपदे अवसानम् एवंप्रकारेण अध्ययनंजटा अभिधीयते उदाहरणेन दर्श्यते। अग्निसीलईलेऽग्निमग्निमीले ईले पुरोहितं पुरोहितमील ईलेपुरोहितमित्यादि ज्ञेयम्। अथ दण्डलक्षणम्।
“क्रम-मुक्तं विपर्य्यस्य पुनश्च क्रममुत्तरम्। अद्धर्चादेव मुक्त्योक्तःक्रमदण्डोऽभिधीयते। उदाहरणम्। अग्निमीले ईलेऽ-ग्निम् अग्निमालईलेपुरोहितम् पुरोहितमीलेऽग्नि मत्यादिज्ञेयम्। अथ मालालक्षणम्।
“ब्रूयात् क्रमविपर्य्यासा-बर्घर्चस्यादिवोऽन्ततः। अन्तं चादिन्नयेदेवं क्रममालेतिगीयते। माला मालेव पुष्पाणां पदानाङ्ग्रथिनी हिता। आवर्त्तने क्रमस्तस्यां क्रमव्युत्क्रममंव मा॰। अथ शिखा-लक्षणम्।
“पदोत्तराञ्जटामेव शिखामार्य्याः प्रचक्षते। अथ लेखालक्षणम्। क्रमद्वित्रिचतुःपञ्चपदक्रममुदाहरेत्। पृथक् पृथक् विपर्य्यस्य लेखामाहुः पुनः क्रमात्”। अथध्वजलक्षणम्।
“ब्रूयादादेः क्रमं सम्यगान्तादुत्तारये-द्यदि। वर्गे च ऋचि यत्र स्यात् पठनं स ध्वजः स्मृतः”। अथ रथलक्षणम्।
“पादशोर्द्धर्चशो वापि सहोक्त्या दण्ड-वद्रथः”। अथ घनलक्षणम्।
“जटमुक्त्वा विपर्यस्य घनमाहुर्मनोषिणः”। अन्यच्च।
“जटाशिखाघनाः प्रोक्ता क्रमपूर्ब्बामतोषिभिः”। इति विकृतिलक्षणान्यूक्तानि। अध्ययनेसंहितापारायणम् पदपारायणम् जटापारायणम्क्रमदण्डपारायणं चतुष्पारायणमिन्यर्थः! एतेषां शाखाःपञ्च भवन्ति। एतेषां वेदपारायणानां पञ्च शाखा भवन्ती-त्यर्थः। ताः काः?। आश्वलायनी सांख्यायनी शाकलाबाष्कला माण्डूका चेति इति प्रसिद्धाः। तेषामसध्ययनम्। तेषाम् आश्वलायनादिशाखानां समानाध्ययनं सूचयति। अध्यायाश्चतुःषष्टिः। अग्निमीले अयं देवायेत्यादि। चतुःषष्टिरध्याया इत्यर्थः। मण्डलानि दशैव तु। अग्नि-मीले--कुषुम्भकम् इत्यादि उपाकम्मणि प्रसिद्धानि इत्यर्थः!वर्गाणां परिसंख्यातन्द्वे सहस्रे षड्त्तरे। वर्गादिः आऋ-[Page1412-b+ 38] चान्ताः संख्या बालखिल्यैर्विना ज्ञेया। षडुत्तरसहस्र-द्वयं वर्गा इत्यर्थः। सहस्रमेकं सूक्तानां निर्विशङ्कं विक-ल्पितम्। दश सप्त च पठ्यन्ते। सप्तदशाधिकसहस्रं सूक्ता-नीत्यर्थः। संख्यातं वै पदक्रमम्। एकं शतसहस्रं चद्विपञ्चाशत्सहस्रकम् सार्द्धम् चतुर्दश वासिष्ठानामि-तरेषां पञ्चाशीतिः। एकलक्षद्विपञ्चाशत्सहस्रपञ्चशतंचतुर्दश वाशिष्टानां वसिष्ठगोत्रिणाम् इन्द्रोभिरेकसप्तति-पदात्मकोवर्गोनास्ति। एतद्गोत्रीयाणां पञ्चाशीत्यधिकपदा-लीत्यर्थः। अथ बालखिल्यसहितपदसंख्या उच्यते। लक्षैकन्तु त्रिपञ्चाशत्सहस्रं शतसप्तकम्। पदानि च द्विन-वतिः प्रमाणं शाकलस्य च। एकलक्षत्रिपञ्चाशत्सहस्रसप्त-शतं द्विनवति श्चाधिकानि पदानि इत्यर्थः। पदानि बाल-खिल्यस्य अर्कसंख्याशतानि च। अधिकानि तु सप्तैव वर्गाअष्टादश स्मृताः सप्ताधिकद्वादशशतानि पदानीत्यर्थः। इत्याश्वलक्षायनानाम् सांख्यायनानान्तु बालखिल्यसहितपदसंख्या उच्यते। शाकल्यदृष्टे पदलक्षपेकं सार्द्धं तथैवत्रिसहस्रयुक्तम्। शतानि सप्तैव तथाधिकानि चत्वारि-त्रिंशच्च पदानि चर्चा। शाकल्योमाण्डूकगणस्थस्तत्-संहितापदानि एकलक्षत्रिपञ्चाशत्सहस्रसप्तशतचतुस्त्रिं-शदघिकानि पदानीत्यर्थः। पदानि बालखिल्यस्य रुद्रसं ख्याशतानि च षडशीत्यधिकानि वर्गाः सप्तदशापि च। एकादशशतषट्पञ्चाशदधिकानि बालखिल्य पदानीत्यर्थः। अष्टपञ्चाशत्पदात्मकर्क्त्रयस्य यमृत्विजो वर्गोनास्तिआश्वलायनानाञ्चतुरृचात्मको वर्गः। इत्याश्वलायन-साख्यायनशाख्योरध्ययनयोर्भेद इत्यर्थः। अथ पारायणेऋक्परिमाणमुच्यते। ऋचां दश सहस्राणि ऋचां पञ्च-शतानि च। ऋचामशीतिः पादस्य पारायणं प्रकीर्त्तितम्एतत्पारायणं बालखिल्मैर्विना संख्यातम्। बालखि-ल्यानि पारायणे न सन्ति। तदुच्यते। ऋग्वेदान्तर्गत-बालखिल्यमेकादशसूक्तम् सूक्तसहस्रसप्तदशाधिकमित्यत्रऋचां दशसहस्राणीत्येतत्संख्या व्यतिरिक्तानि वालखिल्या-नीति प्रसिद्धिः” भाष्यम्। अत्र प्रधान शाखाभेदाभि-प्रायेण पञ्चविधत्वमुक्तम्
“ऋग्वेदस्य तु शाखाः स्यरेक-विंशतिसंख्यकाः” मुक्तिकोपनिषदि एकोनविंशतिभे-दोक्तिः प्रशाखाभिप्रायेण अत एव प्रशाखाभ्य इतिप्रागुक्तभाग॰ वाक्ये तथोक्तम्। षस्य उपनिषद्भेदस्तुउपनिषच्छब्दे उक्तः।
“ऋग्वेदो देवदैवत्यो यजुर्वेदस्तुमानुषः। सामवेदः स्मृतः पैत्रस्तस्मात्तस्याशुचिर्ध्वनिः[Page1413-a+ 38] मनुः।
“ऋग्वेदाधिपतिर्जीवः” ज्यो॰ उक्तेः जीवस्य ऋग्वे-दाधिपत्वं तेन तस्य वारे तद्बले च तत्तत्कर्म ऋग्वेदिभिःकरणीयम्
“शाखाधिपे बलिनि वीर्य्ययुतेऽथवाम्मिन्”। ज्यो॰ त॰ तद्ध्यानं तु
“ऋग्वेदः पद्मपत्राक्षो गायत्राःसोमदैवतः। आत्रेयगोत्रः” इति विधा॰ पा॰ उक्तम्। ऋग्वेदोऽध्येयत्वेनास्त्यस्य इनि। ऋग्वेदिन् तत्पाठके।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्वेद¦ m. (-दः) The Rich or Rik Veda, the first of the four Vedas. E. ऋच् and वेद a Veda.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्वेद/ ऋग्--वेद m. " Hymn - वेद" or " वेदof praise " , the ऋग्- वेद, or most ancient sacred book of the Hindus (that is , the collective body of sacred verses called ऋचs [see below] , consisting of 1017 hymns [or with the वालखिल्यs 1028] arranged in eight अष्टकs or in ten मण्डलs ; मण्डलs 2-8 contain groups of hymns , each group ascribed to one author or to the members of one family ; the ninth book contains the hymns sung at the सोमceremonies ; the first and tenth contain hymns of a different character , some comparatively modern , composed by a greater variety of individual authors ; in its wider sense the term ऋग्- वेदcomprehends the ब्राह्मणs and the सूत्रworks on the ritual connected with the hymns) AitBr. S3Br. Mn. etc.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛgveda : m.: Name of one of the four Vedic Saṁhitās.


A. Relationship with Kṛṣṇa-Nārāyaṇa: Nārāyaṇa, the greatest of the gods (devadeva 3. 186. 129), told the sage Mārkaṇḍeya that the Ṛgveda and the other Vedas arise from him and enter into him (mattaḥ prādurbhavanty ete mām eva praviśanti ca) 3. 187. 14; Bhagavān (Kṛṣṇa) told Arjuna that in the Ṛgveda and in many other texts his names have been enumerated by great sages (ṛgvede…bahūni mama nāmāni kīrtitāni maharṣibhiḥ) 12. 328. 8-9; those versed in the Vedas call Bhagavān as the Ṛgveda of twentyone branches (ekaviṁśatiśākhaṁ ca ṛgvedaṁ māṁ pracakṣate/… ye vai vedavido janāḥ) 12. 330. 32.


B. Source of mythology and vratas: Gṛtsamada, son of Vītahavya, who in appearance was like another Indra, was once caught hold of by the Daityas; this incident is referred to in the Ṛgveda (cf. ṚV. 2. 12) where Gṛtsamada is glorified by the Brāhmaṇas (ṛgvede vartate cāgryā śrutir atra viśāṁ pate yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate) 13. 31. 56; a vrata called Trisauparṇavrata, difficult to observe, is found in the Ṛgveda (ṛgvedapāṭhapaṭhitaṁ vratam etad dhi duścaram) 12. 336. 20.


C. Ṛgveda personified:

(1) Ṛgveda, along with the Sāmaveda and the Purāṇas, move in front of the chariot of Mahādeva to protect it (when Śiva got ready to fight with the Tripuras) 8. 24. 80;

(2) Ṛgveda together with the other three Vedas, visit the Sabhā of Brahmadeva (2. 11. 19) and wait on him 2. 11. 23, 31;

(3) Ṛgveda, adorned with krama and pada, came to the sacrifice of Mahādeva (Śiva) who had assumed the form of Varuṇa 13. 85. 4, 2. [See Ṛc ]


_______________________________
*2nd word in left half of page p174_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛgveda : m.: Name of one of the four Vedic Saṁhitās.


A. Relationship with Kṛṣṇa-Nārāyaṇa: Nārāyaṇa, the greatest of the gods (devadeva 3. 186. 129), told the sage Mārkaṇḍeya that the Ṛgveda and the other Vedas arise from him and enter into him (mattaḥ prādurbhavanty ete mām eva praviśanti ca) 3. 187. 14; Bhagavān (Kṛṣṇa) told Arjuna that in the Ṛgveda and in many other texts his names have been enumerated by great sages (ṛgvede…bahūni mama nāmāni kīrtitāni maharṣibhiḥ) 12. 328. 8-9; those versed in the Vedas call Bhagavān as the Ṛgveda of twentyone branches (ekaviṁśatiśākhaṁ ca ṛgvedaṁ māṁ pracakṣate/… ye vai vedavido janāḥ) 12. 330. 32.


B. Source of mythology and vratas: Gṛtsamada, son of Vītahavya, who in appearance was like another Indra, was once caught hold of by the Daityas; this incident is referred to in the Ṛgveda (cf. ṚV. 2. 12) where Gṛtsamada is glorified by the Brāhmaṇas (ṛgvede vartate cāgryā śrutir atra viśāṁ pate yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate) 13. 31. 56; a vrata called Trisauparṇavrata, difficult to observe, is found in the Ṛgveda (ṛgvedapāṭhapaṭhitaṁ vratam etad dhi duścaram) 12. 336. 20.


C. Ṛgveda personified:

(1) Ṛgveda, along with the Sāmaveda and the Purāṇas, move in front of the chariot of Mahādeva to protect it (when Śiva got ready to fight with the Tripuras) 8. 24. 80;

(2) Ṛgveda together with the other three Vedas, visit the Sabhā of Brahmadeva (2. 11. 19) and wait on him 2. 11. 23, 31;

(3) Ṛgveda, adorned with krama and pada, came to the sacrifice of Mahādeva (Śiva) who had assumed the form of Varuṇa 13. 85. 4, 2. [See Ṛc ]


_______________________________
*2nd word in left half of page p174_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋग्वेद&oldid=493751" इत्यस्माद् पुनः प्राप्तिः