ऋच्छ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच्छ, श मूर्त्तौ । गमने । मोहे । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं अकञ्च-सेट् ।) श ऋच्छती ऋ- च्छन्ती । मूर्त्तिः कठिनीभावः । “मूर्त्तिः काठिन्य- काययोरित्यमरात् । ऋच्छति घृतं कठिनं स्यादि- त्यर्थः । ऋच्छति वृद्धो गच्छति मुह्यति वेत्यर्थः । मोहस्थाने इन्द्रियप्रलयं पठन्ति प्राञ्चः । ऋच्छति वृद्धस्येन्द्रियंप्रलीयते इत्यर्थः । इति रमानाथः” ॥ इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच्छ¦ मोहे मूर्त्तौ (कठिनीभावे) अक॰ गमने सक॰ तुदा॰ पर॰सेट्। ऋच्छति आर्च्छीत् आनर्च्छ। उपसर्गात् अस्यादेर्वृद्धिः प्रार्च्छति अपार्च्छति।
“उपसर्गाः क्रियायोगे” पा॰ इत्युक्तेः यत्क्रियया योगस्तत्व्रियायामेवोपसर्गत्वम् तेनप्रगतः ऋच्छकोऽस्मात् वाक्ये प्रादि॰ ब॰। प्रर्च्छकः इत्यादौ नवृद्धिः अत्र प्रस्य गमेरुपसर्गत्वेन ऋच्छोपसर्गत्वाभावात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच्छ¦ r. 6th cl. (ऋच्छति)
1. To go, to move.
2. To fail in faculties.
3. To become hard or stiff, to congeal.
4. To incur.

"https://sa.wiktionary.org/w/index.php?title=ऋच्छ&oldid=493755" इत्यस्माद् प्रतिप्राप्तम्