ऋणलेख्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋणलेख्य¦ न॰ ऋणसूचकं लेख्यं लेखपत्रम्। ऋणग्रहण-सूचके व्यवहारोपयोगिनि (स्वत) (तमःसुक) इत्यादिप्रसिद्धे पत्रभेदे। तल्लेखनप्रकारादि मिता॰ दर्शितंयथा
“तत्र लेख्यं द्विबिधं शासनं जानपदं चेति। शा-सनं निरूपितं जानपदमभिधीयते। तच्च द्विविधम्स्वहस्तकृतमन्यकृतं चेति। तत्र स्वहस्तकृतमसाक्षिकम्,अन्यकृत ससाक्षिकम्। अनयोश्च देशाचारानुसारेणप्रामाण्यम् यदाह नारदः।
“लेख्यन्तु द्विविधंज्ञेयं स्वहस्तान्यकृतं तथा। असाक्षिमत्साक्षिमच्च सिद्धि-र्द्देशस्थितेस्तयोरिति” तत्रान्यकृतमाह।
“यः कश्चिद-र्थोनिष्णातः स्वरुच्या तु परस्परम्। लेख्यन्तु साक्षिमत्कार्यं तस्मिन् धनिकपूर्वकम्” या॰। धनिकाधमर्णयोर्योऽर्थोहिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमि-तीयती च प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः त-स्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यम्साक्षिमदुक्तलक्षणसाक्षियुक्तम् धनिकं पूर्वो यस्मिन्तद्धनिकपूर्वकम् धनिकनामलेखनपूर्वकमिति यावत्कार्यं कर्त्तव्यम्। उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः
“कर्त्रा तु यत्कृतं कार्यं सिद्ध्यर्थन्तस्य साक्षिणः। प्रवर्त्तन्तेविवादेषु स्वकृतं वाप्यलेखकमिति” स्मरणात्। अपि च
“समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः। सब्रह्मचारिका-त्मीयपितृनामादिचिह्नितम्” या॰ समा संवत्सरः मासःचैत्रादिस्तदर्द्धः पक्षः शुक्लः कृष्णी वा अहस्तिथिः प्रति-पदादिः। नाम धनिकाधमर्णयोः। जातिः ब्राह्मणादिःस्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्नितम्। तथासब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचःकठ इति। आत्मीयपितृनाम धनिकर्णिकपितृनाम। आदिग्रहणाद्द्रव्य जाति संख्याचारादेर्ग्रहणम्। एतेश्चि-ह्नितं लेख्यं कार्यमिति गतेन सम्बन्धः। किञ्च
“समाप्तेऽर्थेऋणी नाम स्वहस्तेन निवेशयेत्। मतं मेऽसुकपुत्रस्य यद-[Page1418-b+ 38] त्रोपरि लेखितम्” या॰ धनिकाधमर्णयोर्योऽर्थः स्वरुच्याव्यवस्थितः तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णोना-मात्मीयं स्वहस्तेनास्मिं ल्लेख्ये यदुपरि लेखितं तन्ममामुक-पुत्रस्य मतमभिप्रेतमिति निवेशयेत् पत्रे विलिखेत्। तथा
“साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम्। अत्राहम-मुकः साक्षी लिखेयुरिति ते समाः” या॰। तस्मिन् लेख्ये येसाक्षिणो लिखिताः तेऽप्यात्मीयपितृनामलेखनपूर्वकमस्मि-न्नर्थे अहममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लि-खेयुस्ते च समाः संख्यातो गुणतश्च कर्त्तव्याः। यद्यधमर्णःसाक्षी वा लिपिज्ञो न भवति तदाऽधमर्णोऽन्येन साक्षी चसाक्ष्यन्तरेण सर्वसाक्षिसन्निधौ स्वमतं लेखयेत्। यथा-ह नारदः
“अलिपिज्ञ ऋणी यः स्यात् स्वमतं तु सलेखयेत्। साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः” इति अपि च
“उभयाभ्यर्थितेनैतन्मयाह्यमुकसूनुना। लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्” या॰। ततोलेखको धनिकाधमर्णिकाभ्यामुभाभ्यां प्रार्थितेन मयाऽ-मुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखित-मित्यन्ते लिखेत्” साम्प्रतं स्वकृतं लेख्यमाह।
“विनापिसाक्षिभिर्ल्लेख्यं स्वहस्तलिखितं तु यत्। तत्प्रमाणं स्मृतंलेख्यं बलोपधिकृतादृते” या॰। यल्लेख्यं स्वहस्तेन लिखितंअधमर्णेन तत् साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वा-दिभिः। बलोपधिकृतादृते। बलेन बलात्कारेण, उप-धिना छललोभक्तोधभयमदादिलक्षणेन यत्कृतं तस्माद्वि-ना। नारदोऽप्याह
“मत्ताभियुक्तस्त्रीबालबलात्कार-कृतं च यत्। तदप्रमाणं लिखितं भयोपधिकृतन्तथेति”। तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशाचारानु-सारेण सबन्धकव्यवहारे बन्धकव्यवहारयुक्तमर्थक्रमापरि-लोपेन लिप्यक्षरापरिलोपेन च लेख्यमित्येतावन्न पुनःसाधुशब्दैरेव प्रातिस्विकदेशभाषयापि लेखनीयम् यथा-ह नारदः
“देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्ष-णम्। तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरमिति”। विधानं विधिराधेर्विधिराधीकरणन्तस्य लक्षणम् गो-प्याधिभोग्याधिकालकृतमित्यादि तद्व्यक्तं विस्पष्ट य-स्मिंस्तद्व्यक्ताधिविधिलक्षणम्। अविलुप्तक्र माक्षरम्अर्थानां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि अविलुप्ता-नि क्रमाक्षराणि यस्मिंस्तटविलुप्तक्रमाक्षरम्। तदेवंभूतं लिखितं प्रमाणम्। राजशासंनवन्न साधुशब्दनिय-मोऽत्रेत्यभिप्रायः। लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभि-[Page1419-a+ 38] रेव देयमित्याह
“ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु। यथा साक्ष्यादिकृतमृणं त्रिभिरेव देयम् तथा लेख्यकृ-तमप्याहर्तृपुत्रतत्पुत्रैस्त्रिभिरेव देयम्। न चतुर्थादि-भिरिति नियम्यते। ननु पुत्रपौत्रैरृणन्देयमित्यविशे-षेणर्ण्णमात्रं त्रिभिरेव देयमिति नियतमेव। बाढम-स्यैवोत्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभबामपवादशङ्कामपनेतुमिदं वचनमारब्धम्। तथा हि पत्रलक्षण-मभिधाय कात्यायनेनाभिहितम्
“एवं कालमतिक्रान्तंपितॄणां दाप्यते ऋणमिति”। इत्थं पत्रारूढमतिक्रान्त-कालमपि पितॄणां सम्बन्धि दाप्यते। अत्र पितॄणा-मिति बहुवचननिदशात् कालमतिक्रान्तमिति वचना-च्चतुर्थादिर्दाप्यत इति प्रतीयते। तथा हारीतेनापि
“लेख्यं यस्य भवेद्धस्ते लाभन्तस्य विनिर्दिशेदिति”। अत्रापियस्य हस्ते पत्रमस्ति तस्यर्ण्णलाभ इति साभान्येन चतुर्था-दिभ्योप्यृणलाभोऽस्तीति प्रतीयते। अतश्चैतदाशङ्कानिवृत्त्यर्थम् एतद्वचनमिति युक्तम्। वचनद्वयन्तु योगीश्वरवच-नानुसारेण योजनीयम्। अस्यापवादमाह
“आधिस्तुभुज्यते तावद्यावत्तन्न प्रदीयते”। सबन्धकेऽपि पत्रारूढेऋणे त्रिभिरेव देयमिति नियमादृणापकरणानधिकारेणा-ध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते। यावच्चतुर्थेनपञ्चमेन वा ऋणं न दीयते तावदेवाधिर्भुज्यत इति वदतासबन्धकर्ण्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः। नन्वे-तदप्ययुक्तमेव।
“फलभोग्यो न नश्यतीति” सत्थम्। तदप्येतस्मिन्नसत्यपवादवचने पुरुषत्रयविषयमेव स्यादितिसर्वमनवद्यम्। प्रसिङ्गिकं परिसमाप्य प्रकृतमेवानुसरति।
“देशान्तरस्थे दुर्ल्लेख्ये नष्टोन्मृष्टे हृते तथा। भिन्ने दग्धे-ऽथवा छिन्नेलेख्यमन्यत्तु कारयेत्” या॰। व्यवहाराक्षमे पत्रेपत्रान्तरं कुर्यादिति विधीयते। व्यवहाराक्षमत्वं चा-त्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्ल्लेख्ये दुष्टानि सन्दि-ह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणिपदानि वा यस्मिंस्तस्मिन् दुर्ल्लेख्ये नष्टे कालवशेन, उन्मृष्टेमसीदौर्बल्यादिना, मृदिते लिप्यक्षरे, हृते तस्करादिभिः,भिन्ने विदलिते, दग्धे अग्निना, छिन्ने द्विधाभूते सति द्वि-र्भवति। एतच्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्यां विमत्या-न्तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनाध्वापेक्षयाकालोदातव्यः दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभि-रेव व्यवहारनिर्ण्णयः कार्यः। यथा ह नारदः
“लेख्येदेशान्तरन्यस्ते शीर्ण्णेदुर्ल्लिखिते हृते। सतस्तत्कालक-[Page1419-b+ 38] रणमसतोद्रष्टृदर्शनमिति”। सतो विद्यमानपत्रस्य देशान्तर-स्थस्यानयनाय कालकरणं कालावधिर्दातव्यः असतःपुनरविद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनंव्यवहारपरिसमापनं कार्यम्। यदा तु साक्षिणो नसन्ति तदा दिव्येन निर्ण्णयः कार्यः।
“अलेख्यसाक्षिकेदैवीं व्यवहारे विनिर्दिशेदिति” स्मरणात्। एतच्च जान-पदं व्यवस्थापत्रं सन्दिग्धं चेत् स्वहस्तलिखितादिभिः शोध-नीयम्
“सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिःक्तिप्राप्तिक्रियाचिह्न संबन्धागमहेतुभिः” या॰ उक्तेः।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋणलेख्य/ ऋण--लेख्य n. a bond , note of hand.