ऋणादानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणादानम्, क्ली, (ऋणस्य आदानम् ग्रहणम् ।) अधम- र्णात् उत्तमर्णेन सलाभधनग्रहणम् । तत्तु अष्टा- दशविवादान्तर्गताद्यविवादः । (यदाह मनुः । ८ । ४ । “तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः” । इत्यादि ।) तच्च सप्तविधं यथा । ईदृशमृणं देयम् १ ईदृशमदेयम् २ अनेनाधिकारिणा देयम् ३ अस्मिन् समये देयं ४ अनेन प्रकारेण देयं ५ इत्यधमर्णे पञ्चविधम् । उत्तमर्णे तु दानविधिः ६ आदान- विधिश्च ७ इति द्विविधम् । तथाच नारदः । “ऋणन्देयमदेयञ्च येन यत्र यथा भवेत् । दानग्रहणधर्म्माश्च ऋणादानमिति स्मृतम् ॥ अदेयमिति यदुक्तं तदाह कात्यायनः । न स्त्रीभ्यो दासबालेभ्यः प्रदद्यात् किञ्चिदुद्धृतम् । दाता न लभते तत्तु तेभ्यो दत्तन्तु यद्वसु” ॥ तत्र विशेषमाह वृहस्पतिः । “परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम् । लेख्यारूढं साक्षिमद्वा ऋणं दद्यात् धनी सदा” ॥ इति विवादार्णवसेतुः ॥ अस्य यदवशिष्टं ऋणोद्- ग्राहणशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=ऋणादानम्&oldid=120640" इत्यस्माद् प्रतिप्राप्तम्