सामग्री पर जाएँ

ऋणिधनिचक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणिधनिचक्र¦ न॰ तन्त्रोक्ते ग्राह्यमन्त्रशु भाशुभज्ञानार्थे चक्रभेदे तच्चक्रलेखनप्रकार उक्तः तन्त्रसारे
“अथ ऋणि-धनिचक्रम्। तद्यथा रुद्रया॰
“कोष्ठन्येकादशैवेह वेदेनपूरितानि च। अकारादिहकारान्तं लिखेत् कोष्ठेषु तन्त्र-वित्। प्रममं पञ्चकोष्ठेषु ह्रस्वदीर्घक्रमेण तु। द्वयं द्वयं[Page1428-b+ 38] लिखेत् तत्र विचारे खलु साधकः। शेषेष्वेकैकशोवर्णान्क्रमतस्तु लिखेत् सुधीः। षट्कालकालवियदग्निसमुद्रवेदखाकाशशून्यदहनाः खलु साध्यवर्णाः। युग्मद्विपञ्चवियदम्बरयुक्शशाङ्कव्योमाब्धि वेदशशिनः खलु साध्य-कार्णाः। नामाज्झलादकठबाद्गजभक्तशेषं ज्ञात्वोभयोरधि-कशेषमृणं धनं स्यात्”। अस्यार्थः साध्यवर्णान् स्वरव्यञ्जन-रूपेण पृथक्कृतान् षट्कालाद्यङ्कैर्गणितान् (मिलितान्) तथासाधकनामाक्षराणि स्वरव्यञ्जनरूपेण पृथक्कृतानि युन्माद्यै-रङ्कैर्गणयित्वा (सकङ्कलय्य) अष्टसंख्याभिर्हृत्वा उभयोः साध्य-साधकयोश्चाधिकम् ॠणंशेषं धनं ज्ञात्वा मन्त्रं दद्यात्। मन्त्रश्चेदृणी भवति तदा मन्त्रः शुभदायको भवति धनीचेन्न। तन्त्रान्तरे
“मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी चतुल्यो यदा समफलः कथितो मुनीन्द्रैः”। अन्यच्च
“शून्येमृत्युमवाप्नोति धने च विफलोभवत्। ऋणे तु प्राप्ति-मात्रेण सर्वसिद्धिस्तु जायते” तथा रुद्रयामले
“मन्त्रेयद्यधिकाङ्कः स्यात्तदा मन्त्रं जपेत् सुधीः। समेऽपिजपेन्मन्त्रं न जपेत् तु ऋणाधिके। शून्ये मृत्युं विजा-नीयात् तस्मात् शून्यं विवर्ज्जयेत्।
“तथा इन्द्रर्क्षनेत्र रविप-ञ्चदशर्त्तुवेदवह्न्यायुधाष्टनवभिर्गुणितानथ साध्यवर्णान्। दि-ग्सूगिरिश्रुतिगजाग्निमुनीषुवेदैः षड्वह्निभिस्तु गुणितानथसाधकार्णान्” इदन्तु वचनं विष्णुविषयम् रामार्चनचन्द्रिकाधृतत्वादिति केचित्। वस्तुतस्तु पूर्वस्यैव विवरणं तथाहि इन्द्रर्क्षनेत्रेत्याद्यनन्तरं
“नामार्णकोष्ठाङ्मथाभि-हन्यात् एकादिरुद्राङ्कगतक्रमेण”। व्यक्तं रुद्रयामसे
“साध्याङ्कान् साधकाङ्कांश्च पूरयेद्ग्रहसंख्यया। गुणिते तुहृतेऽष्टाभिर्यच्छेषं जायते स्फुटम्। तदङ्कं कथयाम्यत्रएकादशगृहस्थितम्” इत्युक्त्वा षट्कालेत्याद्युक्तम्। प्र-कारान्तरं यथा
“नामाद्यक्षरमारभ्य यावत् मन्त्रादिमा-क्षरम्। त्रिधाकृत्वा स्वरैर्भिन्नं तदन्यद्विपरीतकम्”। अस्यार्थःसाधकनामाद्यक्षरतोगणनया यावत् मन्त्रादिमाक्षरम् तत्-संख्यां त्रिधा कृत्वा सप्तभिर्हृत्वा अधिकम् ऋणं शेफंधनंस्यात्। तदन्यदिति मन्त्राद्यक्षरमारभ्य यावत् साधकाद्य-क्षरं भवेत् तावत् संख्यां सप्तगुणां कृत्वा त्रिभिर्हरेत्। अन्यच्च
“साध्यनाम द्विगुणितं साधकेन समन्वितम्। अ-ष्टभिश्च हरेच्छेषं तदन्यद्विपरीतकम्”। अस्यार्थः साध्य-नामस्वरव्यञ्जनभेदेन द्विगुणीकृत्य साधकनाम्ना स्वरव्यञ्ज-नभेदेन मिलितं कृत्वा अष्टभिर्हरेत् अधिकम् ऋणंशेषं धनम्। तदन्यदिति साधमनाम खण्व्यंञ्जनभेदेन[Page1429-a+ 38] द्विगुणीकृत्य साध्यं न युक्तं कृत्वा अष्टभिर्हरेत्। नामग्र-हणप्रकारमाह पिङ्गलामते।
“प्रसिद्धं यद्भवेन्नाम किंवास्य जन्मनामतः। यवीनां पुष्पपातेन गुरुणा यत्कृतं भवेत्। लोकप्रसिद्धमथ वा मात्रा पित्रा तथा कृ-तम्”। यामले
“सुप्तोजागर्त्तियेनासौ दूरस्थश्च प्रभाषते। वदत्यन्यमनमस्कोऽपि तन्नाम ग्राह्यमत्र तु”। सनत्कु-मारीये
“पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान्। श्रीवर्ण्णञ्च ततो विद्वान् चक्रेषु योजयेत् क्रमात्”

"https://sa.wiktionary.org/w/index.php?title=ऋणिधनिचक्र&oldid=248350" इत्यस्माद् प्रतिप्राप्तम्