सामग्री पर जाएँ

ऋतुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुः, पुं, (ऋ + “अर्त्तेश्च तुः” । इति उणादिसूत्रेण १ । ७२ । तुः चकारात् कित् च ।) कालविशेषः । स तु षड्विधः यथा । मार्गपौषौ हिमः १ माघ- फाल्गुनौ शिशिरः २ चैत्रवैशाखौ वसन्तः ३ ज्यैष्ठाषाढौ ग्रीष्मः ४ श्रावणभाद्रौ वर्षाः ५ आ- श्विनकार्त्तिकौ शरत् ६ । इत्यमरः ॥ स त्रिविधो- ऽपि । कार्त्तिकाग्रहायणपौषमाघाः शीतः १ फाल्गुनचैत्रवैशाखज्यैष्ठाः ग्रीष्मः २ आषाढश्रावण- भाद्राश्विनाः वर्षाः ३ । द्विविधोऽपि । कार्त्तिका- दिषण्मासाः शीतः १ वैशाखादिषण्मासाः ग्रीष्मः २ ॥ इति स्मृतिः ॥ * ॥ (यदुक्तम् । “मासद्वयात्मकः कालः ऋतुः प्रोक्तो विचक्षणैः” । यत्र तु “द्वादश मासाः पञ्चर्त्तवः” इति श्रुतं तत्र त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥ युम्मासु पुत्त्रा जायन्ते स्त्रियोऽयुम्मासु रात्रिषु । तस्मात् युग्मासु पत्त्रार्थी संविशेदार्त्तवे स्त्रियम् ॥ पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान्पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्य्ययः” ॥ “रजः सप्तदिनं यावत् ऋतुश्च भिषजां बर” ! । इति शारीरस्थाने प्रथमेऽध्याये हारीतेनोक्तम् ॥ “ऋतुस्तु द्वादशरात्रं भवति दृष्टार्त्तवम् ॥” “नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा । ऋतौ व्यतीते नार्य्यास्तु योनिः संव्रियते तथा ॥ मासेनोपचितं काले धमनीभ्यान्तदार्त्तवम् । ईषत् कृष्णं विगन्धञ्च वायुर्योनिमुखं नयेत् ॥ तद्वर्षाद्द्वादशात्काले वर्त्तमानमसृक् पुनः । जरापक्वशरीराणां याति पञ्चाशतः क्षयम्” ॥ इति शारीरस्थाने तृतीयेऽध्याये सुश्रुतेनोक्तम् ॥ “द्वादशाद्वत्सरादूर्द्ध्व मापञ्चाशत् समाः स्त्रियः । मासि मासि भगद्वारा प्रकृत्यैवार्त्तवं स्रवेत् ॥ आर्त्तवस्रावदिवसात् ऋतुः षोडशरात्रयः । गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः” ॥ “सर्व्वासामेव चतुर्वर्णस्त्रीणां सर्व्ववादिसम्मतः । पूर्ब्बोक्तसमयः ग्रन्थान्तरेषु विषयः । तद्यथा । स्रानदिवसादूर्द्ध्वं द्वादशरात्रावधि ब्राह्मण्याः । दश- रात्रावधि क्षत्त्रियायाः । अष्टरात्रावधि तैश्यायाः । षड्रात्रावधि शूद्रायाः गर्भधारणे शक्तिः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “पद्मं सङ्कोचमायाति दिनेऽतीते यथा तथा । ऋतावतीते योनिः सा शुक्रं नातः प्रतीच्छति ॥ मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः । ईषत्कृष्णं विगन्धञ्च वायुर्योनिमु खन्नुदेत्” ॥ “ऋतुस्तु द्वादशनिशाः पूर्ब्बास्तिस्रश्च निन्दिताः” ॥ इति शारीरस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥ शिवः । यथा महाभारते १३ । महादेवसहस्र- नामकथने १७ । १३९ । “ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः” ॥ विष्णुः । यथा, महाभारते १३ । विष्णुसहस्रनाम- कथने १४९ । ५८ । “ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः” ॥) दीप्तिः । इति मेदिनी । मासः । सुवीरः । इति विश्वः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुः [ṛtuḥ], [ऋ-तु-किच्च Uṇ1.71]

A season, period of the year, commonly reckoned to be six; शिशिरश्च वसन्तश्च ग्रीष्मो वर्षाः शरद्धिमः; sometimes only five; शिशिर and हिम or हेमन्त being counted together; cf. पञ्चर्तवो हेमन्तशिशिरयोः समासेन Ait. Br. वसन्तश्चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ । वर्षा श्रावणभाद्राभ्यां शरदश्विनकार्तिकौ ॥ मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ ॥ गोरक्षसंहिता.

An epoch, a period, any fixed or appointed time.

Menstruation, courses, menstrual discharge.

A period favourable for conception; वरमृतुषु नैवाभिगमनम् Pt.1; ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः Ms.3.46,9.7; Y.1.11,79.

Any fit season or right time.

Fixed order or rule; द्वा यन्तारा भवतस्तथ ऋतुः Rv.1.162.19.

Light, splendour.

A month.

N. of Viṣṇu.

A symbolical expression for the number 'six'.

A kind of collyrium.

Comp. अन्तः the close of a season.

termination of menstruation.

कालः, समयः, वेला the time of menstruation, time favourable for conception, i. e. 16 nights from menstrual discharge; see ऋतु above.

the duration of a season. -गणः the seasons taken collectively. -गामिन् a. having intercourse with a wife (at the time fit for conception, i. e. after the period of menstruation). -ग्रहः a libation offered to the seasons, a kind of sacrifice. -चर्या f. seasonal proceeding; अथातः संप्रवक्ष्यामि ऋतुचर्यास्तु वाजिनाम् Bhoja's Śālihotra 92. -जुष्f. A woman enjoying intercourse at the time fit for procreation; Ks. -धामन् m. N. of Viṣṇu

पतिः the lord of seasons, i. e. the spring.

N. of Agni; Rv.1.2.1.

N. of other deities; Av.3.1.9. -पर्णः N. of a king of Ayodhyā; son of Ayutāyu, a descendant of Ikṣvāku. [Nala, king of Niṣadha, entered into his service after he had lost his kingdom and suffered very great adversity. He was 'profoundly skilled in dice'; and he exchanged with Nala this skill for his skill in horsemanship; and by virtue of it the king succeeded in taking Nala to Kuṇḍinapura before Damayantī had put into execution her resolve of taking a second husband]. -पर्यायः, -वृत्तिः the revolution of the seasons; cf. Ms.1.29. -पशुः An animal to be sacrificed at a particular season. -पाः m. N. of Indra. -पात्रम् the cup in which the libation is offered. -प्राप्त a. fertile, fruitful. -प्रैषः N. of particular invocations spoken before the sacrifice to the seasons. Ait. Br.5.9.3,4. -मुखम् the beginning or first day of a season. -याजः a sacrifice offered to the seasons. -राजः the spring.

लिङ्गम् a characteristic or sign of the season (as the blossom of the mango tree in spring); यथर्तुलिङ्गान्यृतवः स्वयमेवर्तुपर्यये Ms. 1.3.

a symptom of menstruation. -लोका f. N. of particular bricks; Śat. Br.1. -ष्ठा (स्था) a. fixed at the proper seasons; Vāj.17.3. -संहारः 'collection of the seasons, N. of Kālidāsa's work on the six seasons.

सन्धिः the junction of two seasons.

the last day in the bright fortnight (पौर्णमासी) and in the dark one (दर्श). -सात्म्यम् diet &c. suited to the season.-स्तोमः a kind of sacrifice. -स्नाता a woman who has bathed after menstruation and who is, therefore, fit for sexual intercourse; धर्मलोपभयाद्राज्ञीमृतुस्नाताभिमां स्मरन् R.1.76. -स्नानम् bathing after menstruation.

"https://sa.wiktionary.org/w/index.php?title=ऋतुः&oldid=493808" इत्यस्माद् प्रतिप्राप्तम्