सामग्री पर जाएँ

ऋतुमती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुमती, स्त्री, (ऋतुरस्या अस्तीति । ऋतु + मतुप् + ङीप् ।) ऋतुयुक्ता स्त्री । तत्पर्य्यायः । ग्ज- स्वला २ स्त्रीधर्म्मिणी ३ अवी ४ आत्रेया ५ मलिनी ६ पुष्पवती ७ उदक्या ८ । इत्यमरः । (यथा, महाभारते । १ । ३ । ८७ । “उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाय- मृतुर्बन्ध्यो न भवति तथा क्रियताम्” ॥ ऋतुमतीकृत्यमाह । “आर्त्तवस्रावदिवसात् त्र्यहं सा ब्रह्मचारिणी । शयीत दर्भशय्यायां पश्यदपि पतिं न च ॥ करे शरावे पर्णेंवा हविष्यं त्र्यहमाचरेत् । अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ॥ नेत्रयोरञ्जनं स्नानं दितास्वप्नं प्रधावनम् । अत्युच्चशब्दश्रवणं हसनं बहुभाषणम् ॥ आयासं भूमिखननं प्रवातञ्च विवर्जयेत् । ततश्चतुर्थे दिवसे स्नाता सद्वसनादिभिः । भूषिताः सुमनाः पश्येत् भर्त्तारं समलङ्कृतम् ॥ पूर्ब्बं पश्येत् ऋतुस्नाता यादृशं नरमङ्गना । तादृशं जनयेत् पुत्त्रं ततः पश्येत् पतिं प्रियम्” ॥ एतदकरणे प्रत्यवायमाह । “अज्ञानात् वा प्रमोदाद्वा लौल्याद्वा दैवतश्च वा । सा चेत् कुर्य्यात् निषिद्धानिगर्भदोषां स्तदाप्नुयात् ॥ एतस्या रोदनात् गर्भो भवेद्विकृतलोचनः । नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत् ॥ अनुलेपात् तथा स्नानात् दुःखशीलोऽञ्जनाददृक् । स्वापशीलो दिवास्वापात् चञ्चलः स्यात् प्रधावनात् ॥ अत्युच्चशब्दश्रवणात् वधीरः खलु जायते । तालुदन्तौष्ठजिह्वासु श्यावो हननतो भवेत् ॥ प्रलापी भूरिकथनात् उन्मत्तस्तु परिश्रमात् । खलतिर्भूमिखननात् उन्मत्तो वातसेवनात्” ॥ इति । “क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम् । स्रस्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियम्” ॥ इति शरीरस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥ “गते पुराणे रजसि नवे चावस्थिते पुनः शुद्ध- स्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृतु- मतीमाचक्ष्महे” । इति शारीरस्थाने चतुर्थेऽध्याये चरकेणोक्तम् ॥ “पीनप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम् । नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्द्धजाम् ॥ स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचम् । हर्षौत्सुक्यपराञ्चापि विद्यादृतुमतीमिति” ॥ इति शारीरस्थाने तृतीयेऽध्याये, -- “ततः शुद्धस्नातां चतुर्थेऽहन्यहतवासःसमलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्त्तारं दर्शयेत् । तत्- कस्य हेतोः । पूर्ब्बं पश्येदृतुस्नाता यादृशं नरमङ्गना । तादृशं जनयेत् पुत्त्रं भर्त्तारं दर्शयेदतः ॥ ततो विधानं पुत्त्रीयमुपाध्यायः समाचरेत् । कर्म्मान्ते च क्रमं ह्येनमारभेत विचक्षणः” ॥ “तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमना- युष्यं पुंसां भवति । यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते । द्वितीयेऽप्येवं सूतिकागृहे वा । तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्व्वा भवति । चतुर्थे तु सम्पूर्णाङ्गो दीर्घायुश्च भवति । नच प्रवर्त्तमाने रक्ते वीजं प्रविष्टं गुणकरं भवति यथा नद्यां प्रतिस्रोतः प्लावि द्रव्यं प्रक्षिप्तं प्रतिनिव- र्त्तते नोर्द्ध्वं गच्छति तद्वदेव द्रष्टव्यम् । तस्मान्नि- यमवतीं त्रिरात्रं परिहरेत् । अतः परं मासा- दुपेयात्” । इति च शारीरस्थाने द्वितीयेऽध्याये सुश्रुतेनोक्तम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुमती स्त्री।

रजस्वला

समानार्थक:रजस्वला,स्त्रीधर्मिणी,अवि,आत्रेयी,मलिनी,पुष्पवती,ऋतुमती,उदक्या

2।6।21।1।1

ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्. श्रद्धालुर्दोहदवती निष्कला विगतार्तवा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुमती¦ f. (-ती) A woman during menstruation. E. ऋतु, मतुष् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुमती/ ऋतु--मती f. " having courses " , a girl at the age of puberty , marriageable girl Mn. ix , 89 ff. Pan5cat. etc.

ऋतुमती/ ऋतु--मती f. a woman during her courses or just after them (during the period favourable for procreation) Gobh. ii , 5 , 6 MBh. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुमती स्त्री.
(ऋतु + मतुप् + ङीप्) ऋतु के सन्दर्भ वाली ‘आगन् देवा ऋतुभिः’ यह ऋचा ऋ.वे. 4.5.37।

"https://sa.wiktionary.org/w/index.php?title=ऋतुमती&oldid=493817" इत्यस्माद् प्रतिप्राप्तम्