ऋतुमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुमुख¦ न॰

६ त॰। गौणचान्द्रमासप्रथमदिने प्रतिपद्रूपेतिथिभेदे।
“चातुमुर्मास्येषु चर्तुमुखश्रुतेः” कात्या॰

१ ,

२ ,

१३ ।
“चातुर्मास्येषु च न याथाकाम्यम् कुतः ऋतु-मुखश्रुतेः
“ऋतुमुख ऋतुमुखे चातुर्मास्यैर्यजेतेति” वीप्साश्रवणात् ऋतोर्मुखं प्रथमदिनं प्रतिपत् तत्रेत्यर्थः। अत एव वैश्वदेववरुणप्रघासादीनि चातुर्मास्यपर्वाणि प्रति-पद्येव क्रियन्ते न पौर्णमास्यामित्यवसीयते यतःप्रतिपदेव चर्तुमुखं न पौर्णमासीति तथा च श्रूयते”
“एषा ह संवत्सरस्य प्रथमा रात्रिर्यत् फाल्गुनी पौर्ण-मासी योत्तरैषोत्तमा या पूर्वा मुखतएव तत् संवत्सरमा-रभते” शत॰ ब्रा॰

६ ,

२ ,

१ ,

१७ , कर्कः।
“द्वेह वै पौर्ण-मास्यौ द्वे अमावस्ये” इति श्रुतेः योत्तरा पौर्णमासीकृष्णप्रतिपदित्यर्थः। तथा च पौर्णमास्यां दीक्षा प्रतिपदिपौर्णमास्येष्टिसमापनम् ऋतुसन्धिशब्दे विवृतिः। एतच्चपौर्णमासेष्टिविषयम् अमावास्येष्टौ दर्शएव दीक्षा शत॰ब्रा॰

६ ,

२ ,

२ ,

३० ,

२६ ,
“अमावास्यायां दीक्षते” इत्यु-पक्रम्य
“या प्रथयामावास्या तस्यां दीक्षित एतद्वै संव-त्सरस्य प्रथमान्यहानि तान्यस्य तदारभते”

३० इत्युक्तेः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुमुख/ ऋतु--मुख n. beginning or first day of a season S3Br. i Ka1tyS3r. R.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुमुख न.
(ऋतोः मुखम्) ऋतु का आरम्भ, मा.श्रौ.सू. 5.2.14.19; बौ.श्रौ.सू. 16.17ः22; आप.श्रौ.सू. 14.14.13; का.श्रौ.सू. 1.2.13 (चातुर्मास्येषु चर्तुमुखश्रुतेः); पु. मृत व्यक्ति के लिए सम्भार एवं पत्नी-मन्त्रों के साथ अन्त्येष्टि के अनन्तर प्रार्थना के रूप में उच्चारित मन्त्र का नाम, श्रौ.को. (अं.) 1.1०46 (पितृमेध)।

"https://sa.wiktionary.org/w/index.php?title=ऋतुमुख&oldid=493818" इत्यस्माद् प्रतिप्राप्तम्