ऋष्टि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्टिः, स्त्री, (ऋष् हिंसायां + क्तिन् ।) खङ्गः । इत्य- मरः ॥ (यथा, ऋग्वेदे । ५ । ५७ । २ । “वाशीमन्त ऋष्टिमन्तो मनीषिणः । सुधन्वान इषुमन्तो निषङ्गिणः” ॥ आयुधमात्रम् । यथा ऋग्वेदे १ । १६६ । ४ । “मयन्ते विश्वाभुवनानि हर्म्म्या । चित्रो वो यामः प्रयतास्वृष्टिषु” ॥ “ऋष्टिषु युद्धस्थहेतिषु” । इति भाष्यम् । तथा तत्रैव । ५ । ५२ । ६ । “आ रुक्मैरायधा नर ऋष्वा ऋष्टीरसृक्षत” । “ऋष्टीरायुधविशेषान्” । इति भाष्यम् । तथा मनुः ३ । १३३ । “यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् । तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्टयोगुडान्” ॥ “ज्वलितशूलर्ष्टाख्यायुधलोहपिण्डान्” । इति त- ट्टीका ॥ दीप्तिः । यथा, ऋग्वेदे ३ । ५४ । १३ । “विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः” । “ऋष्टिमन्तो दीप्तिमन्तः” । इति भाष्यम् ॥ गमना- गमनशीलः । यथा, ऋग्वेदे १ । ६४ । ४ ॥ “अंसे- ष्वेषां निप्निमृक्षुरृष्टयः साकं यज्ञिरे स्वधया दिवो नरः” । “ऋष्टयः गमनागमनशीलाः” । इति दयानन्दभाष्यम् ॥ पुं, धर्म्मसावर्णिके मन्व- न्तरे ऋषिभेदः । यथा, मार्कण्डेये । ९४ । १९ । “हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्टि¦ स्त्री ॠष--करणे क्तिन्। उभयतो धारायुक्ते
१ खड्गे।
२ खड्गमात्रे अमरः।
३ आयुधमात्रे च
“चित्रोवोयामःप्रयतास्वृष्टिषु” ऋ॰
१ ,
१६
६ ,
४ ,
“ऋष्टिषु युद्धस्थहेतिषु” भा॰।
“अंशेष्वेषां निमिमृक्षुरृष्टयः” ऋ॰
१ ,
६४ ,
४ ,
“ऋष्वा ऋष्टीरसृक्षत” ऋ॰
५ ,
५२ ,
६ ,
“ऋष्टीरायुषवि-शेषान्” भा॰
“वाशीमन्त ऋष्टिमन्तो मनीषिणः” ऋ॰
५ ,
५७ ,
२ ,
“ऋष्टिर्नाम छुरिका” भा॰
“शरशक्त्यृष्टि वृष्टिभिः” देवोमा॰
“धनूंषि चाग्र्याणि शराश्च चित्रा शक्त्यृष्टयःकाञ्चनभूषणाश्च” भा॰ आ॰
१९
४ अ॰
“कोवोऽन्तर्मरुतऋष्टिविद्युतः” ऋ॰
१ ,
१६
८ ,
५ ,
“ऋष्टिविद्युत ऋष्ट्या मेघभे-दनायुधविशेषेण विद्योतमानाः” भा॰ भावे क्तिच्।
४ हिं-सायाम्
५ अनिष्टोत्पादने।
“हिरण्यनिर्णिगुपराऋष्टिः” ऋ॰
१ ,
१६
७६ , रिष हिंसायां रिष्टिरप्यत्र
“गोचरे वा विलग्ने वा ये ग्रहा रिष्टिसूचकाः” ज्योति॰
६ दीप्तौ च। ऋष्टिरस्त्यस्य मतुप्। रिष्टियुक्ते दीप्तियुक्तेत्रि॰ स्त्रियां ङीप्
“विद्युद्रथा मरुत ऋष्टिमन्तो दिवो-मर्या” ऋ॰
३ ,
५४ ,
१३
“ऋष्टिमन्तो दीप्तिमन्तः” भा॰
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्टि¦ f. (-ष्टिः) A sword. E. ऋष् to go, affix क्तिन्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्टिः [ṛṣṭiḥ], m. f. [ऋष्-करणे-क्तिन्]
A double-edged sword. Mb.1.194.7.
A sword (in general). Bhāg. 8.1.36.
Any weapon (as a spear or lance &c.).
A kind of musical instrument; सतालवीणामुरजर्ष्टिवेणुभिः Bhāg.3.15.21. -Comp. -विद्युत् a. shining with weapons.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्टि f. a spear , lance , sword RV. AV. iv , 37 , 8 ; 9 ; viii , 3 , 7 ; ([ cf. O. Pers. arstis ; Zd. arsti.])
ऋष्टि See. under2. ऋष्, p.226.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Ṛṣṭi is a term frequently employed in the Rigveda[१] to designate a weapon held in the hands of the Maruts, and doubtless meant to indicate lightning. That it denotes a spear in mortal warfare, as Zimmer[२] thinks, is not shown by a single passage.[३]
- ↑ Rv. i. 37, 1;
64, 4. 8;
166, 4;
v. 52, 6;
54, 11;
57, 6;
viii. 20, 11. Indra has a Ṛṣṭi in Rv. i. 169, 3 (cf. Av. iv. 37. 8). Cf. Macdonell, Vedic Mythology, p. 79. - ↑ Altindisches Leben, 301.
- ↑ Rv. i. 167. 3;
vii. 55. 2;
viii. 28, 5;
x. 87, 7. 24 are all mythological or contain similes.
Cf. Schrader, Preshistoric Antiquities, 221.