ऋष्यादि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्यादि¦ पु॰ ऋषिरादिरस्य। वैदिकमन्त्रस्यावश्यज्ञातव्येऋषिप्रभृतिपञ्चके तच्च पञ्चकं यथा
“आर्षं छन्दश्च दैवत्यंविनियोगस्तथैव च। वेदितव्यं प्रयत्नेन ब्राह्मणेन विपश्चि-ता” योगिया॰। ब्राह्मणेन सह आर्षादिकमित्यर्थः व्यक्त-माह स एव
“यस्तु जानाति तत्त्वेन आर्षं छन्दश्चदैवतम्। विनियोगं ब्राह्मणञ्च मन्त्रार्थज्ञानकर्म च। एकैकस्या ऋचःसोऽभिवन्द्यीह्यतिथिवद्भवेत्। देवतायाश्च सायुज्यं गच्छ-त्यत्र न संशयः। पूर्वोक्तेन प्रकारेण ऋष्यादीन् वेत्ति योद्विजः। अधिकारोभवेत्तस्य रहस्यादिषु कर्मसु। मन्त्रेमन्त्रे प्रयत्नेन ज्ञातव्यं ब्राह्मणेन तु। विज्ञानपरिपू-र्णस्तु स्वाध्यायफलमश्नुते। छन्दांस्ययातयामानि भवन्तिफलदान्यपि। श्रेयश्च लभते सोऽत्र धर्ममायुश्च बिन्दति। दिव्यं वर्षसहस्रन्तु स्वस्थाने ऋषिभिः सह। तिष्ठन्तितत्र तैः सार्द्धं तत्तुल्यश्चैव जायते”। ऋष्यादिपदार्था-नाह स एव।
“येन यदृषिणा दृष्टं सिद्धिः प्राप्ता च येनवै। मन्त्रेण, तस्य तत्प्रोक्तमृषिभावस्तदात्मकः। छादना-च्छन्द इत्युक्तं वाससीबाऽथ वा कृते। आत्मातु च्छादितो-देवैर्मृत्योर्भीतेस्तु वै पुरा। आदित्यैर्वसुभीरुद्रैस्तेन च्छन्दइतीरितम्। यस्य यस्य च देवस्य उद्दिष्टा या च देवता। तदाकारं भवेत्तस्य दैवतं देवतोच्यते। पुरा कल्पेससुत्पन्नामन्त्राः कर्मार्थमेव च। अनेनेदं तु कर्त्तव्यंविनियोगः स उच्यते। निरुक्तं यस्य मन्त्रस्य समुत्-पत्तिः प्रयोजनम्। प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं त्वभि-धीयते। एवं पञ्चविधं प्रोक्तं जपकालेष्वनुस्मरेत्। होमेवान्तर्जले योगे स्वाध्याये याजने तथा”।

"https://sa.wiktionary.org/w/index.php?title=ऋष्यादि&oldid=249364" इत्यस्माद् प्रतिप्राप्तम्