विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऌ ऌकारः । स तु नवमस्वरवर्णः । अस्योच्चारण- स्थानं दन्तः । (यदुक्तम् सिद्धान्तकौमुद्याम् “ऌतु- लसानान्दन्ताः” । शिक्षायामपि यथा, -- “स्युर्मूर्द्धन्या ऋटुरसा दन्त्या ऌतुलसाः स्मृताः” ।) स ह्रस्वो दीर्घः प्लुतश्च भवति । इति व्याकरणम् ॥ (अयन्तु उदात्तानुदात्तस्वरितभेदात् त्रिविधोऽपि प्रत्येकं पुनरनुनासिकाननुनासिकभेदन द्विधेति षड्विधएव ॥) “ऌकारं चञ्चलापाङ्गि कुण्डली परदेवता । अत्र ब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये ॥ पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा । पञ्चप्राणयुतं वर्णं तथा गुणत्रयात्मकम् ॥ विन्दुत्रयात्मकं वर्णं पीतविद्युल्लता तथा” । इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) अस्य लेखनप्रकारो यथा, -- “रेखाधःकुण्डली वक्रा दक्षतो वामतो गता । वह्नीशवायवस्तासु नित्यं सन्ति च नित्यशः” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, -- “ऌः स्थाणुः श्रीधरः शुद्धो मेधाधूम्रावको वियत् । देवयोनिर्द्दक्षगण्डो महेशः कौन्तरुद्रकौ ॥ विश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा । चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्द्धनः ॥ शुचिस्मिता च नवमी कान्तिरायातकेश्वरः । चित्ताकर्षिणी काशश्च तृतीयकुलसुन्दरी” ॥ इति तन्त्रशास्त्रम् ॥ (मातृकान्यासे दक्षिणगण्डे न्यस्यतया दक्षिणगण्डेनाप्यभिधानम् । यथा मातृ- कान्यासमन्त्रे । “ऌं नमो दक्षिणगण्डे ऌं नमो वामगण्डे” । अनुबन्धविशेषः । एतेन लुङि अङ् स्यात् । यदुक्तम् कविकल्पद्रुमे । “चङ्यह्रस्वोऽथॠर्वा ऌरङ्वानिर्वाथ एः सिचि” । एतेन गम् ऌ औ गतौ इत्यस्य लुङि अगम- दिति स्यात् ॥)

ऌ, व्य, देवमाता । इति मेदिनी एकाक्षरकोषश्च ॥ भूमिः । कुध्रः पर्ब्बतः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ अव्य॰ ऋगतौ ऋ--क्विप् तुगभावः लत्वम्।

१ देवमातरि

२ भूमौ

३ पर्व्वते च मेदि॰। इति बाचस्पत्ये ऌकारादिशब्दार्थसङ्कलनम्। [Page1458-b+ 28] ल्ललॢकारः तन्त्रमते मुग्धबोधमते च स्वरवर्ण्णभैदः पा॰ मतेतस्य दीर्घत्वं नास्ति तेन उदात्तानुदात्तस्वरित भेदात् अनु-नासिकानुनासिकभेदाच्च षड्विधः। अत्रेदं बोध्यम् ऌ-वर्ण्णस्य दीर्घत्वाभावेऽपि
“ऌति लॢवा” वार्त्ति॰ उक्तेः लका-रद्वययुत ऌवर्ण्णएव तत्र विधेयः तत्र लकारद्वयरूपव्य-ञ्जनद्वयस्य एका मात्रा अचश्चापरा इति द्विमात्रत्वं तेनहोलॢकारः इत्यादौ दीर्घत्वव्यवहारः। मुग्धबोधे ऌत्रय-मित्युक्तिरपि एकमात्रद्विमात्रत्रिमात्रत्वभेदापेक्षया। तेनन विरोधः। अतएव शिक्षायां
“दुस्पुष्टश्चेति विज्ञेयऌकारः प्लुतएव वेति” ऋकारऌकारयोः दुःस्पृष्टत्वोक्तिः। दुःस्पृष्टत्वञ्च ईषत्स्पृष्टत्वं तस्य रकारलकारादित्वे एवसम्भवति
“अचोऽस्पृष्टायणस्त्वीषन्नेमस्पृष्टाःशलस्तथा” शिक्षाणां यवरलानामीषत्स्पृष्टत्वोक्तेः।
“तेन ऋकारऌकारयोरीषत्स्पृष्टत्वात् दुःस्पृष्टत्वम्। एवं सर्वसामञ्जस्येऌवर्णस्य न दीर्घत्वकल्पनमिति सूक्ष्ममीक्षणीयम्। अस्यच लकारद्वयघटितत्वात् दन्त्यता। अन्ते च स्वरवर्णयोगात्अस्पृष्टत्वम्। तस्य च उदात्तादिभेदैः षड्विधत्वमपि। मातृकान्याशे च तस्य वामगण्डे न्यस्यता तेन तच्छब्देना-प्यस्याभिधानम्। कामधेनुतन्त्रे तस्य ध्येयस्वरूपमुक्तम्यथा
“लॢकारं परमेशानि पूर्णचन्द्रसमप्रभम्। पञ्चदेवा-त्मकं वर्णं पञ्चप्राणात्मकं तथा। ऋणत्रयात्मकं वर्णंतथाविन्दुत्रयात्मकम्। चतुर्वर्गप्रदं देवि! ध्यायेत् परम-कुण्डलीम्”।

¦ ऌःस्थाणुः श्रीधरः शुद्धो मेघोधूम्रो वकोवियत्। देव-योनिर्दक्षगण्डोरुद्रः काकोदरी शुभा। शान्तिकृत् स्व-स्तिका शक्रो माया च भ्रामरी शुभा। विश्वेश्वरो दीर्घ-जिह्वा महास्त्री लाङ्गली परा। चन्द्रिका पार्थिवोघूम्याद्विदन्तः कामवर्द्धनः। शुचिस्मिता च नवमी कान्तिरायत-केश्वरः। चित्तस्याकर्षणकरी तुरीया कुलसुन्दरी”।

¦
“ऌकारं चञ्चलापाङ्गि! कुण्डलीं परदेवताम्। अत्रब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये!। पञ्चदेवमयं वर्णंचतुर्ज्ञानमयं सदा। पञ्चप्राणयुतं वर्णं तथा गुण-त्रयात्मकम्। विन्दुत्रयात्मकं वर्णं पीतविद्युल्लतां यथा।

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऌ the ninth vowel of the alphabet (resembling the sound ल्र्य्in रेवेल्र्य्; it only appears in some forms of कॢप्).

ऌ m. a mountain L.

ऌ m. the earth , the mother of the gods L.

ऌ (in gram.) N. of the terminations of the Conditional Mood or N. of that Mood itself.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the tenth face of fourteen-faced deva; सावर्णिक Manu came from it. वा. २६. ४२ [page३-134+ २५]

"https://sa.wiktionary.org/w/index.php?title=ऌ&oldid=507774" इत्यस्माद् प्रतिप्राप्तम्