एक

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकम् त्रि, (एतीति । इण गतौ । “इण्भीकापा- शल्यतिमर्च्चिभ्यः कन्” ॥ ३ । ४३ । इत्युणादिसूत्रेण कन् ।) मुख्यम् । अन्यत् । केवलम् । इत्यमरः ॥ (“त्वमेको ह्यस्य सर्व्वस्य विधानस्य स्वयम्भुवः” । इति मनौ १ । ३ । “अजामेकां लोहितशुक्लकृष्णाम्” इति श्रुतिः ॥ “एकातपत्रं जगतः प्रभुत्वम्” । इति रघुवंशे २ । ४७ । “ममात्र भावैकरसं मनः स्थिरम्” इति कुमारे ५ । ८२ ॥) आदिसंख्या । इति मेदिनी । अथैकवाचकानि । परमात्मा १ विधुः २ क्षितिः ३ गणेशदन्तः ४ शुक्रचक्षुः ५ । इति कविकल्प- लता ॥ अग्निः ६ सूर्य्यः ७ देवराजः ८ यमः ९ । इति महाभारते वनपर्ब्ब ॥ (सर्व्वनामशब्दोऽयम् । तथा च सिद्धान्तकौमुद्यां “सर्व्वादयश्च पञ्चत्रिं- शत्” इत्युक्त्वा “त्यद्-तद्-यद् एतद्-इदम्-अदस् एक-द्वि-युष्मद्-अस्मद्-भवत्-किम्” इत्युक्तवान् । यथा शाकुन्तले २ अङ्के । “विश्रान्तेन भवता ममाप्येकस्मिन् कर्म्मणि सहायेन भवितव्यम्” । पुं, स्वनामख्यात ऐलवंशीयो नृपतिभेदः । यथा, भागवते ९ । १५ । २ । ‘श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतं जयः । रयस्य सुतएकश्च जयस्य तनयोऽमितः’ ॥ परमेश्वरः । विष्णुः । यथा विष्णुसंहितायाम् । “एको नैकः सवः कः किम्” । “परमार्थतः सजा- तीयविजातीयस्वगतभेदराहित्यादेकः” । इति भाष्यम् । घटे घटान्तरात् भेदः सजातीयभेदः । घटे पटात् भेदः विजातीयभेदः । घटे कपाला- देर्भेदः स्वगतभेदः ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एक वि।

असहायः

समानार्थक:एकाकिन्,एक,एकक

3।1।82।1।4

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , द्रव्यम्

एक वि।

भिन्नार्थकाः

समानार्थक:भिन्नार्थक,अन्यतर,एक,त्व,अन्य,इतर

3।1।82।2।3

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

एक वि।

अन्यः

समानार्थक:एक,पर,इतर

3।3।16।2।2

करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे। वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

एक वि।

केवलः

समानार्थक:एक

3।3।16।2।2

करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे। वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

एक वि।

मुख्यः

समानार्थक:वृन्दारक,एक

3।3।16।2।2

करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे। वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एक¦ त्रि॰ इण्--कन्।

१ एकत्वरूपप्रथमसंख्यान्विते,

२ केवले,

३ मुख्ये,

४ अन्यार्थे,

५ सत्ये,

६ अद्वितीये,

७ समाने,

८ अल्पेच। प्रायशः संख्यावाचकस्य संख्यासंख्येयोभयपरत्वेऽपिएकशब्दस्य मूरिशः एकत्वसंख्यान्वितपरत्वम्। तेन एकोघट-इत्यादि न तु घटस्यैकः। क्वचित्तु भावप्रधाननिर्द्देशपर-त्वेन संख्यावाचकत्वमपि।
“द्व्येकयोर्द्विवचनैकवचने” पा॰। इह द्वित्वम् एकत्वं च द्व्येकशब्दयोरर्थः। अत्र द्विव-चनान्तत्वमेव तथार्थत्वे लिङ्गम् संख्येयपरत्वेद्व्येकेषामितिस्यात् द्वन्द्वार्थानां संख्यान्वितानां बहुत्वात्। तेन एकद्विव-चनशब्दोऽपि एकत्वद्वित्वार्थकः तत्रार्थे तयोःपरिभाषितत्वात्अतएव
“सुपां कर्म्मादयोऽप्यर्थाः संख्या चैव तथा तिङा-म्” इति सुपां तिङाञ्च संख्यावाचकत्वमुक्तम्। तथा
“अ-नेकमन्यपदार्थे” पा॰ सूत्रे अनेकपदस्य एकवचनान्ततयाप्रयोगात् नास्ति एकत्वं यत्र इति विग्रहेण एकत्वशू-[Page1459-b+ 38] न्यार्थकता। एकसंख्यान्वितपरत्वे अनेके इति स्यात्
“पत-न्त्यनेके जलधेरिवोर्मय” इत्यादौ बहुवचनान्ततयैवानेकशब्दस्य प्रयोगात्। स्वारसिकप्रयोगे तु न लक्षणा तेनघटस्यैक इत्यादि न प्रयोगः इति द्रष्टव्यम्। इतरसंख्यासुएकत्वस्यानुगमात् द्वित्वादीनामेकत्वबुद्ध्यैव जननाच्चइण्धात्वर्थानुगमात् तस्य अन्वर्थनामता। संख्या चद्रव्यसमवेतो गुणबिशेषः गुणादौ च संख्यान्वयः पर-म्परयेति विशेषः। एकत्वादेर्जातित्वनिरासेन गुण-त्वव्यवस्थापनं कणा॰ सू॰ वृत्त्योःकृतं यथा
“रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम्” क॰ सू॰
“रूप-रसगन्धस्पर्शेति संख्यादिपञ्चकभिन्नगुणोपलक्षणं व्यतिरे-कादिति व्यभिचारात्। तदयमर्थः, एकोघट इति विशिष्ट-प्रतीतिर्विशेषणज्ञानजन्या, तत्र विशेषणं न रूपादि, तद्व्य-तिरेकेण जायमानत्वात्। न च घटत्वादिकमेव निमित्तम्,पटेऽपि जायमानत्वात्, न चैकत्वं सत्तावत् सामान्यम्,सत्तया सहान्यूनानतिरिक्तावृत्तित्वात्, न च द्रव्यमात्रेसामान्यं तत्, द्रव्यत्वेनान्यूनानतिरिक्तदेशत्वात्, न चान्यू-नानतिरिक्तदेशत्वेऽपि प्रतीतिभेदाद्भेदः, प्रतीतिभेदस्य स्व-रूपकृतत्वे सत्ताऽपि भिद्येत, विषयभेदकृतत्वे तु विषय-भेदानुपपत्तेरुक्तत्वात् अन्यथा घटत्वकलसत्वयोरपि भेदा-पत्तेः। न च स्वरूपाभेद एकत्वमिति भूषणोक्तं युक्तम्। घटस्वरूपभेदश्चेदेकत्वं तदा पटादावेकत्वप्रत्ययो न स्यात्स्वरूपभेदोद्वित्वादिकमित्यपि भूषणमतमनुपपन्नं स्वरूप-भेदस्य त्रिचतुरादिसाधारण्येन व्यवहारवैचित्र्यानुपप-त्तेरिति भावः”। वैया॰ सू॰ सङ्ख्यानिरूपणपूर्वकं तद्वि-वक्षादिनिरूपणं यथा
“अभेदैकत्वसंख्याया वृत्तौ भा-नमिति स्थितिः। कपिञ्जलालम्भवाक्ये त्रित्वन्यायाद्य-थोच्यते। उक्तञ्च वाक्यपदीये।
“यथौषधिरसाः सर्वेमधुन्याहितशक्तयः। अविभागेन वर्त्तन्ते संख्यां तांतादृशीं विदुरिति”। परित्यक्तविशेषं वा संख्यासामान्यंतत्। उक्तञ्च
“भेदानां वा परित्यागात्संख्यात्मा सतथाविधः। व्यापाराज्जातिभागस्य भेदापोहेन वर्त्तते। अगृहीतविशेषेण यथा रूपेण रूपवान्। प्रख्यायतेन शुक्लादि भेदापोहस्तु गम्यते इति”। अस्याः वृत्तौसमासादौ भानं न्यायसिद्धमिति शेषः। इति मतस्थिति-र्वैयाकरणानाम्। अयं भावः राजपुरुष इत्यादौ राज्ञो-राज्ञोः राज्ञां वायं पुरुष इति जिज्ञासा जायते। विशेषजिज्ञासायां सामान्यरूपेण तत्प्रतीतिः शब्दादाब-[Page1460-a+ 38] श्यकी अतस्तस्यां शक्तिरिति। तस्या एकत्वेन प्रतीतौन्यायमाह कपिञ्चलेति। बहुत्वगणनायां त्रित्वस्यैव प्रथ-मोपस्थितत्वात् तद्रूपेणैव भानवदेकत्वस्य सर्वतः प्रथमो-प्रस्थितत्वमस्तीति। वस्तुतस्तु जिज्ञासैव नानुभवसिद्धा। तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतु-मद्भावात्तत्तद्रू पेणैव वाच्यता स्यादिति ध्येयम्”। तथा च उत्सर्गात् सर्वत्र अभेदैकत्वसंख्यैव वृत्तौ प्रतीयतेन तु विशेषेण। अत एव
“संख्या तु व्यञ्जकाभावाद-व्यक्ता प्रातरादिवत्। यत्र तु व्यञ्जकं किञ्चित् तत्रसंख्याप्रतीयते” इति वाक्यपदीये उक्तम्तेन राजपुरुष इत्यादौ न विशेषसंख्याप्रतीतिः व्यञ्ज-काभावात् त्वत्पुत्रः अस्मद्धनम् इत्यादी तु विशेषेण तत्-प्रतीतिः त्वादेशतदभावयोर्व्यञ्जकत्वात्
“त्वमावेकपचने” इतिपा॰ एकवचने त्वमादेशस्य विधानात्। तदभावादेव द्वि-त्वबहुत्वयोर्विशेषेण प्रतीतिः। एवं द्रव्यैक्ये एकदेशितत्-पुरुषविधानात् अर्द्धपिप्पलीत्यादौ एकत्वप्रतीतिः द्वित्वादौविवक्षिते तु पिप्पल्यर्द्धमित्याद्येव स्यादिति तत्र विशेष-संख्याप्रतीतिः।
“एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातःस्वर्गे लोके कामधुग्भवति” श्रुतिः एकमेवाद्वितीयं ब्रह्म” श्रुतिः।

९ भेदत्रयशून्ये परमेश्वरे पु॰।
“एकोऽनेकः सवःकः किम्” विष्णुस॰।
“परमार्थतः सजातीयविजा-तीयस्वगतभेदराहित्यात् एकः” भा॰। सजातीयभेदःयथा वृक्षे वृक्षान्तरात् भेदः विजातीयभेदः यथा वृक्षे-पटाद्भेदः। स्वगतभेदः यथा वृक्षे शाखादिभ्योभेदइत्येवंभेदत्रयराहित्यञ्च सर्वस्य ब्रह्मात्मकत्वात् कार्य्य-कारणयोरभेदात् तदरिक्तपरमार्थवस्त्वन्तराभावाच्च। तदेव
“एकमेवाद्वितीयमिति” श्रुतौ पदत्रयेणोक्तम् इह तु अन्य-पदाभावात् एकशब्दस्यैव तथा भेदत्रयराहित्यपरत्वमितिबोध्यम्। सांख्यमते तु
“एकोऽद्वितीय इति वेदवचांसिपुंसि वैधर्म्य लक्षणभिदाविरहं वदन्ति” इत्युक्तवैधर्म्म्यरूप-भेदराहित्यमेकत्वमिति बोध्यम्। न्यायमते तु
“एकत्वमनु-पश्यतः” इति श्रुत्यन्तरात् एकत्वेन चिन्त्यतया, प्राधा-न्येन वा एकत्वं समर्थनीयम्।
“एकातपत्रा पृथिवीभृता-ङ्गर्णः” माघः।
“त्वमेकदृश्यं नयनैः पिबन्त्यः”
“ममात्रभावैकरसं मनः स्थितम्” कुमा॰ त्वमेकोह्यस्य सर्वस्यविधानस्य स्वयम्भुवः” मनुः।
“अजामेकां लोहितशु-क्लकृष्णां वह्वीः प्रजाः सृजमानां सरूपाः। अजोह्ये-कोजुषमाणोऽनुशेते” श्रुतिः।
“एकातपत्रं जगतः प्रभुत्वम्[Page1460-b+ 38]
“त्वमेका कल्याणी गिरिशरमणी कालि! सततम्” कर्पू॰ स्त॰
“हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता” भाषा॰। विशेषणयोरेकस्य विशेष्यत्वविवक्षया क॰ स॰ एकशब्द स्यपूर्वनिपातः एकधनुर्द्धर इत्यादि
“अमोघं सन्दधे शस्त्रंधनुष्येकधनुर्द्धरः” रघुः। वीरशब्देन समासे तु एकवीरःवीरैक इति रूपद्वयं भवतीति भेदः। वस्तुतस्तत्र वीरैकःइत्येव एकेषु मुख्येषु वीरयते इति वीरधातो-रूपवीरशब्देन सप्तमीतत्पुरुषे एकवोर इतिप्रौढम॰। एकशब्दस्य संख्यावाचकत्वेऽपि
“संख्या-पूर्वो द्विगुः” पा॰ न द्विगुत्वमिति। अस्य सर्वनामकार्यम्एके एकस्मै एकस्मात् एकेषाम् एकस्मिन्। स्त्रियाम्एकस्यै एकस्याः एकासामेकस्यामित्यादि नञ्तत्पुरुषे तु। अनेक एकभिन्ने द्वि॰ ब॰ व॰। तत्र एकत्व संख्यान्वयासम्भ-वान्नैकवचनप्रयोगः। तत्र च सर्वनामकार्यम्
“अनेकेअनेकस्मै इत्यादि अनेके सेवन्ते भवदधिकगोर्वाणनिव-हान्” कर्पू॰ स्त॰। एकत्वार्थकेन तेन बहुव्रीहौ एक-वचनप्रयोगोऽपि
“अनेकमन्यपदार्थे” पा॰। एकस्य भावः त्व। एकत्व न॰ तल्। एकता स्त्री, ष्यञ्ऐक्य न॰ एकत्वसंख्यायां साम्ये श्रेष्ठत्वे अभेदे च।
“तत्र कोमोहः कः शोक एकत्वमनुपश्यतः” श्रुतिः
“अर्थान्तरमेकत्वम्” कणा॰ सू॰।
“एकत्वं सागता यस्मात्” स्मृतिः।
“समालोक्यैकतामेवं शशिनो भास्करस्य च” भा॰ व॰

२२

३ ।
“व्रजतोरपि प्रणयपूर्वमेकताम्” माघः
“दैक्यं सोऽन्वये” मुग्धबो॰।
“द्रव्यैक्ये” सि॰ कौ॰। डतर। एकतर द्वयोर्मध्ये जातिगुणक्रियादिभिर्निर्धार्य्येएकस्मिन् त्रि॰ एकतरो ब्राह्मणः एकतरः कठः एकतरो-नीलः एकतरश्चल इत्यादि।
“अस्त्राणि वा शरीरं वाब्रह्मन्नेकतरं वृणु” भा॰ आ॰

१६

६ अ॰।
“एकतरपक्ष-पातिनी युक्तिर्विनिगमना” न्याय॰। स च शब्दः अन्यतरा-न्यतमवत् अव्युत्पन्नं प्रातिपादिकमित्यन्ये अतएव
“अद्ड्ड-रादिभ्यः” पा॰ एकतरशब्दान्न अद्ड्। एकतरं कुलम्। तेन न सर्वनामकार्य्यम्
“द्वयोरेकतरे बुद्धिः क्रियतामि-त्यादि, एकशब्दस्य भिन्नार्थकत्वोन एकतरशब्दोऽपि भिन्नार्थेअमरः। डतम। एकतम बहूनां मध्ये जात्यादिभिः निद्धार्य्येएकस्मिन् त्रि॰
“यदि ह्येकतमोह्योषां स्त्रीधनं भक्षयेद्ब-लात्” कात्या॰ स्मृ॰। सर्वनामकार्य्यम् एकतमे एकतम-स्मादित्यादि क्लीवे स्वमोः अद्ड् एकतमत्। तसिल्। एकतस् एकस्मिन्नित्यर्थे अव्य॰
“एकतोदतः” मनुः
“तामेक-[Page1461-a+ 38] तस्तव बिमर्त्ति गुरुवितन्त्रो” रघुः। त्रल्। एकत्र एक-स्मिन्नित्यर्थे अव्य॰
“एकत्र स्फटिकतटांशुभिन्ननीराः” माघः।
“तथैकत्र करे दश” मनुः
“अन्त्यजैर्गर्द्दभै-रुष्ट्रैः सहैकत्रावतिष्ठते” या॰। दाच्। एकदा एकस्मिन्काले अव्य॰।
“स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा। एकदा स्माल्पकं भुङ्क्ते” भा॰ अनु॰

१५

९ अ॰। अल्पा-द्यर्थकात् कारकार्थेवीप्सार्थे शस्। एकशस् अल्पमल्पमेक-मेकं वेत्याद्यर्थे अव्य॰
“परिस्तीर्य्य तं पूर्व्ववत् पात्रा-सादनमेकशः” कात्या॰

४ ,

२ ,

४ । एवमेकेनैकेन एकै-कस्मै इत्याद्यर्थेऽपि। प्रकारे धा। एकधा एकप्रकारे
“एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” श्रुतिः। ध्यमुञ्ऐकध्यम् एकधेत्यर्थे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एक¦ mfn. (-कः-का-कं)
1. One.
2. Alone, solitary.
3. Other, different.
4. Chief, pre-eminent. E. इण् to go, Una4di affix कन्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एक [ēka], pron. a. [इ-कन्]

One, single, alone, only; वायुर्यथैको भुवनं प्रविष्टो ... एकस्तथा ... Kaṭh. Up.2.5.1. Mb.4.49.5,6; बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ Bh.3.14.

Not accompanied by anyone; एकः संप्रति नाशितप्रियतमस्तामद्य रामः कथम् U.2.28.

The same, one and the same, identical; (adopted by him, her real father being Daśaratha) in marriage to him, who being greatly pleased caused copious showers of rain to fall in his kingdom. It was this sage that performed for king Daśaratha the sacrifice which brought about the birth or Rāma and his three brothers].

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एक mfn. ( इUn2. iii , 43 , probably fr. a base ए; cf. Zd. ae-va ; Gk. ? , ? ; Goth. ai-n-s ; also Lat. aequu-s ; g. सर्वा-दिPa1n2. 1-1 , 27 ; See. Gr. 200) , one( एकोऽपि, or एकश्-चन, with नpreceding or following , no one , nobody ; the words एकया नor एकान् नare used before decade numerals to lessen them by one e.g. एकान् न त्रिंशत्, twenty-nine) RV. etc.

एक mfn. (with and without एव)alone , solitary , single , happening only once , that one only (frequently ifc. ; See. धर्मै-क-रक्ष, etc. ) RV. etc.

एक mfn. the same , one and the same , identical S3Br. v Ka1tyS3r. Mn. etc.

एक mfn. one of two or many( एक- एक, एक- द्वितीय, the one - the other ; esp. pl. एके, some , एके- अपरेsome - others , etc. ) S3Br. Ka1tyS3r. MBh. Hit. etc.

एक mfn. ( एकrepeated twice , either as a compound [See. एकै-क] or uncompounded , may have the sense " one and one " , " one by one " RV. i , 20 , 7 ; 123 , 8 ; v , 52 , 17 R. BhP. etc. )

एक mfn. single of its kind , unique , singular , chief , pre-eminent , excellent Ragh. Katha1s. Kum. etc.

एक mfn. sincere , truthful MW.

एक mfn. little , small L.

एक mfn. (sometimes used as an indefinite article) , a , an R. S3ak. Vet. etc. (the fem. of एकbefore a तद्धितsuffix and as first member of a compound is एकnot एकाPa1n2. 6-3 , 62 )

एक m. N. of a teacher A1p.

एक m. of a son of रयBhP.

एक n. unity , a unit( ifc. ) Hcat.

"https://sa.wiktionary.org/w/index.php?title=एक&oldid=249404" इत्यस्माद् पुनः प्राप्तिः