एकदेह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेहः, पुं, (एकः मुख्यो देहो यस्य । ग्रहेषु सौम्यत्वादस्य तथात्वम् ।) बुधग्रहः । इति त्रि- काण्डशेषः ॥ (एको मेदरक्तादीनां साम्यात् तुल्यो देहः शरीरं यत्र । गोत्रम् । वंशः । यथा, हरिवंशे ४६ अध्याये । “बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् । एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः” ॥ दम्पती । “अस्थिभिरस्थीनि मांसैर्मांसानि त्वचा त्वचमिति श्रुतेः” । तथा, -- “शरीरार्द्धं स्मृता जाया पुण्यापुण्यफले समा” । इति स्मृत्युक्तेश्च जायापत्योरेकदेहत्वम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेह¦ पु॰ एकः श्रेष्ठोदेहोऽस्य।

१ बुधग्रहे त्रिका॰ तस्यग्रहेषू अतिसुन्दरत्वात् तथात्वम्। एकस्तुल्योदेहो यत्रएकस्मात् देहोयत्र वा।

२ वंशरूपे गोत्रे तत्र सर्वे-षां तुल्यदेहत्वादेकस्मादुत्पन्नदेहत्वाच्च तथात्वम्।
“बहूनिविप्र! गोत्राणि मुनीनां भावितात्मनाम्। एकदेहानि ति-ष्ठन्ति विभक्तानि विना प्रजाः” हरिवं॰

४६ ।

३ समानदेहा-रव्वे सण्डिण्डे च एकमेकतां गतं देहमस्य।

४ दम्पत्योःतयोर्विवाहेन एकदेहतोत्पादनात्तथात्वम्
“अस्थिभिर[Page1473-a+ 38] स्थीनि मांसैर्मासानि त्वचा त्वचमिति” श्रुतेः।
“आ-म्राये स्मृतितन्त्रे च लोकाचारे च सूरिभिः। शरीरार्द्धंस्मृता जावा पुण्यापुण्यफले समा। यस्य नोपरता भार्य्यादेहार्द्धं तस्य जीवति। जीवत्यर्द्धशरीरे तु कथमन्योधनंहरेत्” वृह॰ स्मृतेश्च तयोरेकदेहत्वम्। तत्र पुंसि पुं॰,स्त्रियां स्त्रीति भेदः एकाङ्गादयोऽप्यत्र। स्त्रियां ङीष्इति भेदः। कर्म्म॰।

५ एकस्मिन् देहे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेह¦ mfn. (-हः-हा-हं)
1. Elegatnly formed.
2. Single bodied. m. (-हः) The planet MERCURY. E. एक best or one, and देह body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेह/ एक--देह mfn. having a similar body or descended from the same person (as a family) Hariv. 2532

एकदेह/ एक--देह mfn. having as it were one body Hariv. 3439

एकदेह/ एक--देह m. " having a singular or beautiful form " , N. of the planet Mercury L.

"https://sa.wiktionary.org/w/index.php?title=एकदेह&oldid=493909" इत्यस्माद् प्रतिप्राप्तम्