एकवाक्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवाक्य¦ न॰ एकम् एकार्थं वाक्यम्। वाक्यार्थाकाङ्क्षिता-काङ्क्षापूरणेण बिशिष्टैकार्थबोधके

१ वाक्यभेदे तच्च द्विविधंपदैकवाक्यं वाक्यैकवाक्यञ्च तच्च वेदा॰ प॰ निरूपितं यथा
“एवमर्थवाद्वाक्यानां प्रशंसापराणां प्राशस्त्ये लक्षणा,सोऽरोदीदित्यादिनिन्दार्थवादवाक्यानां निन्दितत्वे लक्ष-णा अर्थवादगतपदानां प्राशस्त्यादिलक्षणाभ्युपगमे एकेनपदेन लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयर्थ्यं स्यात्[Page1481-a+ 38] एवञ्च विध्यपेक्षितप्राशस्त्य रूपपदार्थप्रत्यायकतया अर्थ-वादपदसमुदायस्य पदस्थानीयतया विधिपदेनैकवाक्यताभवतीत्यर्थवादवाक्यानां पदैकवाक्यता। क्व तर्हि वाक्यैकवाक्यता? यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वा-क्ययोराकाङ्क्षावशेन महावाक्यार्थ बोधकत्वं यथा
“दर्श-पौर्ण्णमासाभ्यां स्वर्गकामोयजेत” इत्यादिवाक्यानां
“समि-धोयजति” इत्यादिवाक्यानाञ्च परस्पराङ्गाङ्गिभावबोधक-तयैकवाक्यता। तदुक्तम् भट्टपादैः
“स्वार्थबोधे समाप्ता-मामङ्गाङ्गित्वाद्यपेक्षया। वाक्यानामेकवाक्यत्वं पुनः सं-हत्य जायते इति”। एकमविसंबादितया तुल्यरूपं वा-क्यम्। अविसंवादितया तुल्यरूपे

२ वाक्ये च।
“श्रवण-कटु नृपाणामेकवाक्यं विवब्रुः” रघुः।
“एकमविसंवादि-वाक्यमेकवाक्यम्” मल्लि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवाक्य/ एक--वाक्य n. a single expression or word

एकवाक्य/ एक--वाक्य n. a single sentence Comm. on Jaim.

एकवाक्य/ एक--वाक्य n. the same sentence , an identical sentence (either by words or meanings) T.

एकवाक्य/ एक--वाक्य n. a speech not contradicted , unanimous speech Ragh.

एकवाक्य/ एक--वाक्य f. (in Gr. )the being one sentence.

"https://sa.wiktionary.org/w/index.php?title=एकवाक्य&oldid=493945" इत्यस्माद् प्रतिप्राप्तम्