एकाग्र

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाग्रः, त्रि, (एकं एकस्मिन् वा अग्रं पुरोगतं ज्ञेय- मस्य ।) अनन्यचित्तः । तत्पर्य्यायः । एकतानः २ अनन्यवृत्तिः ३ एकायनः ४ एकसर्गः ५ एकाग्य्रः ६ एकायनगतः ७ । इत्यमरः ॥ (यथा, मनुः । १ । १ । “मनुमेकाग्रमासीनमभिगम्य महर्षयः” । “एकाग्रं विषयान्तराव्याक्षिप्तचित्तम्” । इति कुल्लुकभट्टः । तथा भागवते ८ । १६ । ३ । “मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि । वासुदेवे समाधाय चचार ह परव्रतम्” ॥ तथा गीतायाम् ६ । १२ । “तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासाने युञ्ज्याद्योगमात्मविशुद्धये” ॥ “एकाग्रं विक्षेपरहितं मनः कृत्वा” । इति स्वामि- टीका ।) अनाकुलः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाग्र वि।

एकाग्रः

समानार्थक:एकतान,अनन्यवृत्ति,एकाग्र,एकायन,एकसर्ग,एकाग्र्य,एकायनगत

3।1।79।2।3

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्. एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

एकाग्र वि।

अनाकुलः

समानार्थक:एकाग्र

3।3।190।2।1

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः। अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाग्र¦ त्रि॰ एकमग्रं विषयप्रवणता यस्य।

१ विषयान्तरव्या-वृत्तैकमात्रविषयकचित्तवृत्तिके

२ विक्षेपरहितज्ञाने च।
“मनुमेकाग्रमासीनमभिगम्य महर्षयः” मनुः। स्वार्थे अण्। ऐकाग्र अत्रार्थे त्रि॰। तस्य भावः ष्यञ् ऐकाग्र्य तद्भावे न॰
“मनसश्चेन्द्रयाणाञ्चाप्यैकाग्र्यं निश्चितं तपः” भा॰{??}॰

२५ अ॰।
“तद्गीतिश्रवणैकाग्र्या संसदश्रुमुखो बभौ” रघु॰। तल् एकाग्रता स्त्वी, त्व एकाग्रत्व न॰ तत्रार्थे। ( एकाग्रता च चित्तस्य धर्म्मविशेषः विषयान्तरावलम्बनरूपसंसर्गशून्यः। एकविषयकधारावाहिकवृत्तिरूपःस च त्रिगुणात्मकस्य चित्तस्य सत्वगुणोद्रेके रजोगुणकृतविक्षेपाभावात् तमोगुणकृततन्त्राद्यभावाच्च उदेति। तत्र बाह्याभ्यन्तरकारणाग्युक्तानि” पात॰ सू॰भाष्यविवरणेषु यथा
“यस्य चित्तस्यावस्थितस्येदं शास्त्रेणपरिकर्म्म निर्द्दिश्यते, तत्कथम्? भा॰।
“मैत्रीकरुण मुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषया-णां भावनातश्चित्तप्रसादनम्” सू॰।
“तत्र सर्व्वप्राणिषु सुखसम्भीगापन्नेषु मैत्रीं भावयेत्दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम्, अपु-ण्यशीलेषूपेक्षाम्। एवमस्य भावयतः शुक्लोधर्म्मौपजायतेततश्चित्तं प्रसीदति प्रसन्नमेकाग्रं स्थितिपदं लभते” भा॰।
“अपरिकर्म्मितमनसोऽसूयादिमतः समाधितदुपायसम्यत्त्य-नुत्पादात् चित्तप्रसादनोपायानसूयादिविरोधिनः प्रति-पादयितुमुपक्रमते--यस्य,--चित्तस्यावस्थितस्येदमिति। मै-त्रीकरुणेत्यादि प्रसादनान्तम्। सुखितेषु मेत्रीं सौहार्द्दंभावयत ईर्षाकालुष्यं निवर्त्तते चित्तस्य। दुःखि-तेषु च करुणामात्मनीव परस्मिन् दुःखप्रहाणेच्छां भा-वयतः परापकारचिकीर्षाकालुष्यं चेतसोनिवर्त्तते। पुण्य शीलेषु प्राणिषु मुदितां हर्षं भावयतः असूयाकालुष्यं{??} तसो निवर्त्तते। अपुण्यशीलेषु चोपेक्षां माध्यस्थ्यंभावयतोऽमर्षकालुष्यं चेतसोनिवर्त्तते। ततश्चास्य रा-जसतामसधर्म्मनिवृत्तौ सात्विकः शुक्लोवर्म्म उपजायते। सत्वोत्कर्षसम्पन्नः सम्भवति। वृत्तिनिरोधपक्षे तस्य प्र-सादस्वाभाव्याच्चित्तं प्रसीदति प्रसन्नञ्च वक्ष्यामाणेभ्यउपायेभ्यः एकाग्रं स्थितिपदं कमते। असत्यां पुनर्मेत्र्या-[Page1486-b+ 38] दिभावनायां न ते उपायाः स्थित्यै कल्पन्ते--तानिदानींस्थित्युपायानाह” वाचस्पतिविवरणम्।
“प्रच्छर्द्दनविधारणाभ्यां वा प्राणस्य” सू॰।
“कोष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषात् वमनंप्रच्छर्द्दनं, विधारणं प्राणायामः ताभ्यां वा मनसः स्थितिंसंप्रसादयेत्” भा॰
“वाशब्दो वक्ष्यमाणोपायान्तरापेक्षी विकल्पार्थो न, मैत्र्यादिभावनापेक्षया तया सह समुच्चयात्। प्रच्छर्द्दनं वि-वृणोति--कोष्ठ्यस्येति। प्रयत्नविशेषात् योगशास्त्रविहि-तात् येन कोष्ठ्योवायुर्नासिकापुटाभ्यां शनैरेच्यते। वि-धारणं विवृणोति विधारणं प्राणायामः रेचितस्यकोष्ठ्यस्य वायोर्यदायामो बहिरेव स्थापनं न तु सहसा-प्रवेशनं तदेताभ्यां प्रच्छर्द्दनविधारणाभ्यां वायोर्लधूकृत-शरीरस्य मनः स्थितिपदं लभते। अत्र चोत्तरसूत्रगतात्स्थितिनिवन्धनीतिपदात् स्थितिग्रहणमाकृष्य सम्प्रसादयेदि-त्यर्थप्राप्तेन सम्बन्धनीयः” विव॰।
“स्थित्युपायान्तरमाह” भा॰
“विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनि वन्धनी” सू॰
“नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्ध-प्रवृत्तिः, जिह्वाग्रे रसंवित्, तालुनि रूपसंवित्, जिह्वा-मध्ये स्पर्शसंवित्, जिह्वामूले शब्दसंवित्, इत्येताः प्रवृ-त्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति संशयं विधमन्तिसमाधिप्रज्ञायाञ्च द्वारीभवन्तीति” भा॰।
“व्याचष्टे--नासिकाग्रे धारयत इति। धारणाध्यान-समाधीन् कुर्वतस्तज्जयात् या दिव्यगन्धसंवित् साक्षात्-कारः एवमन्वास्वपि प्रवृत्तिषु योज्यम्। एतच्चागमात्प्रत्येतव्यं नोपपत्तितः” विवरणम्। तत्र सामान्यकारणञ्च शौचमेव तत्रोक्तम्
“शौचात् स्वाङ्गज-योजुपुप्सापरैरसंसर्गः” सू॰
“सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रि-यजयात्मदर्शनयेग्यत्वानि च” सू॰।
“शुचेः सत्वशुद्धिस्ततःसौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चात्मदर्शनयोग्यत्वंबुद्धिसत्वस्य भवतीति एतत् शौचस्थैर्य्यादधिगम्यते” भा॰। तत्राद्यं सूत्रं वाह्यशौचसूचकं द्वितीयन्तु आन्तरशौच-सूचकम्
“चित्तमलानां क्षालने चित्तममलं भवति वैमल्यात्सौमनस्यं स्वच्छता स्वच्छत्वादैकाग्र्यं ततो मनोवश्यादिन्द्रि-याणां जयस्तज्जयादात्मदर्शनयोग्यं भवतीति क्रमेणआन्तरशौचस्य फलमुक्तम्। एतच्च विवरणे स्थितम् एका-ग्रताया आविर्भावे यथा समाधिलाभस्तथा तत्रैवोक्तम्
“सर्वार्थतैकाग्र तयोः क्षयोदयौ चित्तस्य समाधिपरिणामः” [Page1487-a+ 38] सू॰
“सर्व्वार्थता चित्तधर्म्मः एकाग्रता च चित्तधर्म्मसर्व्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः एकाग्रताया उदयआविर्भाव इत्यर्थः तयोर्धर्म्मित्वेनानुगत चित्तं, तदिदंचित्तसपायोपजनयोः स्वात्ममूतयोर्धर्म्मयोरनुगतं समा-धीयते स चित्तस्य समाधिपरिणामः” भा॰।
“संप्रज्ञातसमाधिपरिणामावस्थां चित्तस्य दर्शयति। सर्व्वार्थेत्यादि। विक्षिप्तता सर्व्वार्थता। सन्न विनश्यतीतिक्षयस्तिरीभावः, नासदुत्पद्यत इति उदय आविर्भावः। आत्ममूतयोः सर्व्वार्थतैकाग्रतयोः धर्म्मयोः यौ अपायो-पजनौ सर्व्वार्थताया अपायः एकाग्रताया उपजनस्तयोरनुगतं चित्तं समाधीयते पूर्ब्बापरीभूतसाध्यभानसमाधिविशेषणं भवतीति” वा॰ विवरणम्।
“ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्येकाग्रतापरिणामः” सू॰।
“समाहितचित्तस्य पूर्ब्बप्रत्ययः शान्त उत्तरस्तत्सदृशउदितः समाधिचित्तभूम्योरनुगतं पुनस्तथैव आ स-माधिम्रेषादिति। स खल्वयं धर्म्मिणश्चित्तस्यैकाग्रतापरिणामः” भा॰।
“पुनः समाधेः पूर्ब्बापरीभूताया अवस्थायाः निष्-पत्तौ सत्यां शान्तोदितावतीतवर्त्तमानौ तुल्यौ च तौप्रत्ययौ चेति तुल्यप्रत्ययौ एकाग्रतायान्तु द्वयोः सादृश्यंसमाहितचित्तस्येति समाधिनिष्पत्तिः दर्शिता। तथै-वैकाग्र्यस्यावधिमाह आसमाधिभ्रेषात्। असमाधिभ्रंशादिति”। वा॰ विवरणम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाग्र¦ mfn. (-ग्रः-ग्रा-ग्रं)
1. Intent, closely attentive, fixed on one object.
2. Undisturbed, unperplexed.
3. Known, celebrated.
4. Single- pointed. m. (-ग्रः) The whole of a long line which is subdivided. E. एक and अग्र chief, &c.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाग्र/ एका mfn. one-pointed , having one point , fixing one's attention upon one point or object , closely attentive , intent , absorbed in MBh. Mn. i , 1 BhP. Bhag. etc.

एकाग्र/ एका mfn. undisturbed , unperplexed

एकाग्र/ एका mfn. known , celebrated L.

एकाग्र/ एका n. (in math. ) the whole of the long side of a figure which is subdivided

"https://sa.wiktionary.org/w/index.php?title=एकाग्र&oldid=493967" इत्यस्माद् प्रतिप्राप्तम्