एकादशी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकादशी, स्त्री, (एकादशानां पूरणी । एकादश + डडन्तात् ङीप् ।) तिथिविशेषः । सा तु शुक्लपक्षे सूर्य्यमण्डलात् चन्द्रमण्डलस्य निर्गमरूपैकादश- कलाक्रियारूपा । कृष्णपक्षे सूर्य्यमण्डले चन्द्रमण्ड- लस्य प्रवेशरूपैकादशकलाक्रियारूपा । तत्पर्य्यायः । हरिवासरम् २ । हरिदिनम् ३ । इति स्मृतिः ॥ तत्र जातफलम् । “क्रोधोत्कटः क्लेशसहः सुभाषी यागादिकर्त्ता स्वजनैकभर्त्ता । महामतिर्देवगुरुप्रियः स्या- देकादशीजो मनुजोऽतिहृष्टः” ॥ इति कोष्टीप्रदीपः ॥ * ॥ तत्र उपवासविधिः । पारणदिने द्वादशीलाभे सर्व्वएव पूर्णां त्यक्त्वा खण्डामुपवसेयुः । तदलाभे गृही प्रर्ब्बां तनन्यः परां-विधवापि उपवसेत् । पूर्णा तु । “उदयात् प्राक् यदा विप्र मुहूर्त्तद्वयसंयुता । संपूर्णैकादशी ज्ञेया तत्रैवोपवसेद् गृही” ॥ इति गारुडोक्ता ॥ यदा तु पूर्ब्बदिने दशम्या पर- दिने द्वादश्या युक्तैकादशी तदा उत्तरामुपोष्य द्वादश्यां पारणं कुर्य्यात् । परदिने द्वादश्यनिर्गमे त्रयोदश्यामपि । यदा तु सूर्य्योदयानन्तरं दशमी- युतैकादशी अथ च परदिने न निःसरति तदा तां विहाय द्वादशीमुपवसेत् । यदा तु सूर्य्योदय- प्राक्कालीनदशमीविद्धैकादशी परदिने च न निः- चैत्रस्य कृष्णैकादशी पापमोचनी ९ शुक्ला का- मदा १० । वैशाखस्य कृष्णैकादशी वरूथिनी ११ शुक्ला मोहनी १२ । ज्यैष्ठस्य कृष्णैकादशी अपरा १३ शुक्ला निर्जला १४ । आषाढस्य कृष्णैकादशी योगिनी १५ शुक्ला पद्मा १६ । श्रावणस्य कृष्णै- कादशी कामिका १७ शुक्ला पुत्त्रदा १८ । भाद्रस्य कृष्णैकादशी अजा १९ शुक्ला वामना २० । आश्विनस्य कृष्णैकादशी इन्दिरा २१ शुक्ला पापा- ङ्कुशा २२ । कार्त्तिकस्य कृष्णैकादशी रमा २३ शुक्ला प्रबोधिनी २४ । मलमासस्य शुक्लैकादशी सुमद्रा २५ कृष्णा कमला २६ ॥ * ॥ इत्येकादशी- प्रकरणं समाप्तम् ॥ (संख्याविशेषः । एगार इति भाषा । यथा महाभारते ६ । १६ । २१ । “एकादशी धार्त्तराष्ट्री कौरवाणां महाचमूः” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकादशी¦ त्रि॰ एकादशानां पूरणी उभयपक्षीयप्रतिपदादितः[Page1488-a+ 38] एकादेशपूरण्यां तिथौ। यत्र हि हरिवासरव्रतम्। अस्यांव्रतस्य नित्यत्वादिसमर्थनतद्व्रतकालव्यवस्थादि कालमा॰दर्शितं यथा
“अथैकादशी निर्णीयते। तत्रैकादश्यामुप-वासविधिवाक्येषु नित्यशब्दसदाशब्दादीनां नित्यत्वसा-धकानां स्मरणान्नित्यत्वसिद्धिः। तानि च साधकानिसंग्रहकारेण संगृहीतानि।
“नित्यं सदा यावदायुर्नकदाचिदतिक्रमेत्। उपेत्याऽतिक्रमे दोषश्रुतेरत्यागनोद-नात्। फलाश्रुतेर्वीप्सया च तन्नित्यमिति कीर्त्तितम्”। अत्रच नित्यशब्दादीन्यष्टौ नित्यत्वसाधकानि। नित्यशब्द उदा-हृतो गारूडपुराणे
“उपोष्यैकादशी नित्यं पक्षयो-रुभयोरपीति”। सदाशब्द उक्तः सनत्कुमारसंहितायाम्
“एकादशी सदोपोष्या पक्षयोः शुक्लकृष्णयोरिति” याव-दायुःशब्द उक्तो विष्णु रहस्ये
“द्वादशी न प्रमोक्तव्यायावदायुः सुवृत्तिभिरिति”। आग्नेयपुराणेऽपि
“उपो-ष्यैकादशी राजन्! यावदायुः सुवृत्तिभिरिति” अतिक्र-मनिषेधः कण्वेन दर्शितः
“एकादश्यामुपवसेन्न कदाचि-दतिक्रमेदिति” विष्णुनापि
“एकादश्यां न भुञ्जीत क-दाचिदपि मानवः” इति। अकरणे दोषमाह सनत्कुमारः
“न करोति हि यो मूढ एक दश्यामुपोषणम्। स नरोनरकं याति रौरवन्तमसावृतम्। एकाटश्यां मुनिश्रेष्ठ! योभुङ्क्ते मूढचेतनः। प्रतिमासं स भुङ्क्ते तु किल्विषं श्वादि-विट्समम्। निष्कृतिर्म द्यपस्योक्ता धर्मशास्त्रे मनीषिभिः। एकादश्यन्नकामस्य निष्कृतिः क्वापि नोदिता। मद्यपानात्मुनिश्रेष्ठ! पातैव नरकं व्रजेत्। एकाश्यन्नकामस्तु पितृभिःसह मज्जतीति” नारदीये
“पापानि कानि चिद् यानिब्रह्महत्यासमानि च। अन्नमाश्रित्य तिष्ठन्ति संप्राप्तेहरिवासरे। तानि पापान्युपाश्नाति भुञ्जानो हरिवा-सरे” इति स्कान्दे
“मातृहा पितृहा चैव भ्रातृहागुरुहा तथा। एकादश्यां तु यो भुङ्क्ते पक्षयोरुभयोर-पीति” अकरण इवासमापने दोष उक्तो विष्णुरहस्ये।
“परिगृह्य व्रतं सम्यगेकादश्यादिकं नरः। न समा-पयते तस्य गतिः पापीयसी भवेदिति” अत्यागनोदनादर्शिता विष्णुरहस्ये
“परामापदमापन्नोऽहर्षे वा समुप-स्थिते। सूतके मृतके चैव न त्यजेत् द्वादशीव्रतमिति” विस्पष्टं फलाश्रवणञ्च केषुचिद्वाक्येषु तत्र कात्यायनः
“ए-कादश्यां न भुञ्जीत पक्षयोरुभयोरपीति” स्कान्देऽपि
“उपोष्यैकादशी सम्यक् पक्षयोरुभयोरपीति” कूर्मपुरा-णेऽपि
“वदन्तीह पुराणानि भूयोभूयो वरानने!। न[Page1488-b+ 38] भक्तोव्यं न भक्तीव्यं संप्राप्ते हरिवासरे” वोप्सामाह स-नत्कुमारः
“पक्षे पक्षे च कर्त्तव्यमेकादश्यामुपोषण-मिति” नारदोऽपि
“नित्यं भक्तिसमायुक्तैर्नरैर्विष्णुपरा-यणैः। पक्षे पक्षे च कर्त्तव्यमेकादश्यामुपोषणमिति” तदेवं नित्यशब्दादिभिर्हेतुभिरुपवासस्य नित्यत्वं सिद्धम्। काम्यत्वं च सायुज्यादिश्रवणादवगम्यते तदुक्तं विष्णु-रहस्ये
“यदीच्छेद्विष्णु सायुज्यं सुतान् सम्पदमात्मनः। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपीति”। कूर्मपुराणे-ऽपि
“यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः। एका-दश्यां न भुञ्जीत पक्षयोरुभयोरपीति” कात्यायनः
“संसा-रसागरोत्तारमिच्छन् विष्णुपरायणः। ऐश्वर्य्यं सन्ततिं खर्गं मुक्तिं वा यद्यदिच्छति। एकादश्यां न भुञ्जीत प-क्षयोरुभयोरपीति” स्कन्दपुराणे
“यदीच्छेद्विपुलान्भोगान् मुक्तिं चात्यन्तदुर्लभाम्। एकादश्यामुपवसेत् पक्ष-येरुभयोरपीति” नारदोऽपि
“एकादशीसमं किञ्चित्पापत्राणं न विद्यते। स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रदा-यिनी। सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनीति”। तदेवं फलश्रवणात् काम्यत्वं सिद्धम्। ननु काम्यत्वमनित्य-त्वमसति कामे परित्यक्तुं शक्यत्वात् तथा सत्येकस्य क-र्मणोनित्यत्वकाम्यत्वाभ्यां द्वैरूप्याङ्गीकारे नित्यानित्यसंयो-गविरोधः, नायं दोषः स्वादिरादिवत् प्रमाणद्वयेन द्वैरूप्यो-पपत्तेः। तथा हि।
“खादिरो यूपो भवतीति” क्रतौनित्यः खादिरो विहितः।
“खादिरं वीर्यकामस्य यूपंकुर्वीतेति” तस्मिन्नेव क्रतौ काम्यत्वेनानित्यः खादिरो-विहतः। तत्र यथा प्रमाणद्वयसम्बन्धादेकस्यापि खादिरस्यद्वैरूप्यमङ्गीकृतं तद्वदत्रापि द्विविधप्रमाणसद्भावादुपवासस्यद्वैरूप्यं किं न स्यात्?। ननु विषमोदृष्टान्तः नित्यः खादिरःक्रत्वर्थः काम्यस्तु पुरुषार्थः। उपवासस्तु नित्योऽपि पुरु-षार्थ एव तस्य खादिरवत् क्रत्वङ्गत बोधकप्रमाणाभावात्,वाढम्। अस्तु एवं वैषम्यं, प्रयोजकं तु द्वैरूप्ये प्रमाणद्वयमस्त्येव। सूत्रकारेण प्रमाणद्वयस्यैव द्वैरूप्यसाधकत्वोप-न्यासात्। तथा च सूत्रम्
“एकस्य तूभयत्वे संयोग-पृथक्त्वमिति” (जै॰)। अतः केवलपुरुषार्थस्याप्युपवासस्यद्वैरूप्यमविरुद्धम्। यदि बुध्यारोहस्य सदृशो दृष्टान्तोऽपेक्षितः तर्ह्यग्निहोत्रादिर्दृ ष्टान्तोऽस्तु। न ह्यग्निहोत्रंक्रत्वर्थं तस्य स्वयमेव क्रतुत्वात्। तस्य च नित्यकाम्यत्वे-वाक्यद्वयादवगम्येते।
“यावज्जीवमग्निहोत्रं जुहोतीति” नित्यत्वावगमकं वाक्यम्।
“अग्निहोत्रं जुहुयात् स्वर्गकामः” [Page1489-a+ 38] इति च काम्यत्वावगमकम्। तस्य च क्रत्वर्थत्वाभावेनकेवलपुरुषार्थतैव। अतोऽग्निहोत्रे नित्यत्वं काम्यत्वंचेति द्वैरुप्यमस्ति। तत्र शब्दान्तराभ्यासादिकर्मभेदहेत्व-भावेनैकस्यैव कर्मणः सतः प्रयोगभेदोऽवगन्तव्यः। प्रयोगभेदश्च यावज्जीषाधिकरणे निर्णीतः। तस्य चाधि-करणस्य संग्राहकावेतौ श्लोकौ भवतः।
“यावज्जीवं जुहो-तीति धर्मः कर्मणि पुंसि वा। कालःपुरुषधर्मोऽतः काम्यएकः प्रयुज्यताम्। न कालो जीवनं तेन निमित्तप्रवि-भागतः। काम्यः प्रयेगभिन्नः स्याद्यावज्जीवप्रयोगतः” इति। अयमर्थः
“अग्निहोत्रं जुहुयात् स्वर्गकाम” इति। काम्या-ग्निहोत्रं श्रूयते तथा वाक्यान्तरं पठ्यते
“यावज्जीवमग्नि-होत्रं जुहोतीति” तत्र संशयः। किं यावज्जीवमित्यनेना-धिकारान्तरं नोद्यते किं वा काम्याग्निहोत्रे गुणविधि-रिति। यदर्थमर्थान्तरचिन्ता किं यावज्जीवमित्यस्यार्थःकर्मधर्मः उत पुरुषधर्म इति। यावज्जीवशब्देन पुरुषा-युषपरिमितः कालोऽभिधीयते। काम्येन चाग्निहोत्रेणकालविशेष आकाङ्क्षितः। तस्य च कालस्यानेन समर्पणदयं कर्मधर्मः। तस्मात्गुणविधिः। तथा चाग्नि-होत्रस्य काम्यप्रयोगः एक एक न त्वन्योनित्यप्रयोग इतिप्राप्ते, ब्रूमः यावज्जीवशब्दो न कालस्य वाचकः। किन्तुलक्षकः। वाच्यार्थस्तु कृत्स्नजीवनं तच्च न कर्म्मधर्मत्वेन वि-धातुं शक्यं पुरुषधर्मत्वादिति जीविधातुः प्राणधारणामभि-धत्ते न तु कालम्। प्राणधारणं च पुरुषधर्मः कालस्यतदसम्भवात्। तेन स्वर्गकामनेव जीवनमपि किञ्चिन्निमि-त्तम्। तस्मादधिकारान्तरनोदना। तथा सति जीवन-निमित्तो नित्यप्रयोगः कामनिमित्तः कादाचित्कप्रयोगश्च परस्परं भिद्येते इति सिद्ध्वान्तः। अनेनाग्निहोत्र-न्यायेन प्रकृतस्याप्युपवासस्य निमित्तभेदेन नित्यप्रयोगःकाम्यप्रयोगश्चास्तु। नन्वेकस्य कर्मणः कालभेदेन कर्त्तृ-भेदेन वा विना द्वौ प्रयोगौ न सम्भवतः। न चात्र काल-भेदः संभवति नित्यकाम्योपवासयोरेकादश्यामेव विधा-नात्। नाप्यत्र कर्त्तृभेदोऽस्ति। यद्यपि काम्यं परित्यज्यकेवलं नित्यमनुष्ठातुं शक्यं तथापि काम्यमनुतिष्ठासुनानित्यस्य परित्यक्तुमशक्यत्वात्। अतः कर्त्रैक्यात् कालै-क्याच्च नित्यकाम्यरूपौ द्वौ प्रयोगौ न घटेते। नायंदोषः, विविदिषाधिकरणन्यायेन सकृदेवानुत्तिष्ठतः प्र-योगद्वयसिद्धेः। तस्य चाधिकरणस्य संग्राहकावेतौश्लोकौ भवतः
“विद्यार्थमाश्रमार्थं च द्विःप्रयोगोऽथ वा[Page1489-b+ 38] सकृत्। प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते। श्राद्धंभुक्त्या यथा तृप्तिर्विद्यार्थेनाश्रमस्तथा। अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः” इति। अयमर्थः
“तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेनदानेन तपसा नाशकेनेति” श्रुतिवाक्येन यज्ञादय आत्म-विद्योदयाय विहिवाः गृहस्थाद्याश्रमधर्मत्वन्तु यज्ञादीनांसर्वश्रुतिस्मृतिषु प्रसिद्धम्। तत्र संशयः किं यज्ञार्दानांद्विःप्रयोग? उत सकृदिति?। तत्रप्रयोजनभेदात् प्रयोगभेद इतिपूर्वपक्षः। निमन्त्रितेन ब्राह्मणेन क्रियमाणभोजनेन यथा अन्यकर्तृकश्राद्धनिष्पत्तिः स्वतृप्तिश्च न चद्विर्भुज्यते। तद्वद्ब्रह्मविद्यार्थमनुष्ठितेन कर्मणा प्रयोजन-द्वयं सिध्यति। न च नित्यानित्यसंयोगविरोधः खादिर-वद्वाक्यद्वयेन तदुपपत्तेः। तच्च पूर्वमुपपादितं तस्मात्सकृदेव प्रयोग इति। एवमत्रापि सकृदेवोपवासं कुर्वतःकाम्यप्रयोगोनित्यप्रयोगश्चेत्युभयं सिध्यति। ननु सकृद-नुष्ठानेनानेकार्थसिद्धिर्द्वेधा भवति तन्त्रेण वा प्रसङ्गेन वा। तद्यथा दर्शपूर्णमासयोः षण्णां प्रधानयागानां मध्ये त्रयाणांसकृत्सकृदनुष्ठितेन प्रायाजाद्यङ्गेनोपकारः सिध्यति। तदिदं तन्त्रम्। पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रम-ध्यपातिनः पशुपुरोडाशस्याप्युपकारः सिध्यति सोऽयंप्रसङ्गः। एवं सति प्रकृतेऽपि तन्त्रप्रसङ्गयोः कतरस्योपादानमिति चेत्। प्रसङ्गस्येति ब्रूमः। काम्यप्रयोगेणैवनित्यप्रयोगस्यापि सिद्धत्वात् तथा च स्मृतिः।
“काम्येऽपिनित्यसिद्धिः स्यात् प्रसङ्गेनोभयात्मकः इति” तदेवमेकाद-श्युपवासस्य नित्यत्वकाम्यत्वलक्षणद्वैरूप्ये विरोधाभावात्द्वैरूप्यमभ्युपेयमिति स्थितम्। ( अत्रोपवासाङ्गतिथिनिर्णयस्य वेधाधीनत्वात् प्रथमं दश-मीवेधो निरूप्यते। स च बेधस्त्रिविधः अरुणोदयबेधःसूर्य्योदयबेधः पञ्चदशनाडीवेधश्चेति। तत्रारुणोदयबेधोभविष्यत्पुराणे दर्शितः।
“अरुणोदयकाले तु दशमी यदिदृश्यते। सा विद्धैकादशी तत्र पापमूलमुपोषणमिति”।
“अरुणोदयवेलायां दिशो गन्धो भवेद्यदि। दुष्टं तत्तु-प्रयत्नेन वर्जनीयं नराधिप!”। गारुडपुराणेऽपि
“दशमीवेधसंयुक्तो यदि स्यादरुणोदयः। नैवोपोष्यं वै-ष्णवेन तद्विनैकादशीव्रतमिति”। अरुणोदयस्य प्रमाणंस्कान्दनारदाभ्यामुक्तम्।
“उदयात् प्राक्चतस्रस्तु नाडिकाअरुणोदय” इति। तस्मिन्नरुणोदये बेघा बहुविधा। ते च प्रश्रोत्तराभ्यां ब्रह्मवैवर्त्ते दर्शिताः।
“कीदृशस्तु भवे-[Page1490-a+ 38] द्वेधो योगोविप्रेन्द्र! कीदृशः?। योगवेधौ समाचक्ष्व याभ्यांदुष्टमुपोषणम्। चतस्रोघटिकाः प्रातररुणोदयनिश्चयः। चतुष्टयविमागोऽत्र वेधादीनां किलोदितः। अरुणोदयवेधःस्यात्सार्द्धन्तु घटिकात्रयम्। अतिवेधोद्विघटिकः प्र-भासन्दर्शनाद्रवेः। महाबेधीऽपि तत्रैव दृश्यतेऽर्को नदृश्यते। तुरीयस्तत्र विहितोयोगः सूर्य्योदये सतीति”। अयमर्थः बेधातिबेधमहाबेधयोगाश्चत्वारौपवासस्य-दूषकाः। तत्र रवेः प्रभासन्दर्शनात्पूर्ब्बं सार्द्वघटिकात्रयमेकादश्या व्याप्तं ततः प्राचीने घटिकार्द्धे अरुणो-दयसम्बन्धिनि दशमीसद्भावे वेध इत्युच्यते। यदासूर्य्यदर्शनात्पूर्ब्बं घटिकाद्वयमुपरितनमेकादशीव्याप्तंपूर्ब्बं तु घटिकाद्वयं दशमीव्याप्तं तदाऽतिवेध इ-त्युच्यते। यदा सूर्य्योदयस्य दर्शनादर्शनसन्देहकालमेकादशी व्याप्तोति ततः प्राक् कृत्स्नोऽरुणोदयकालोदशमीव्याप्तस्यदा महावेधः। यदा सूर्य्योदये स्पष्टे सतिपश्चादेकादशी प्रवृत्ता ततः प्राच्यामुदयवेलायां दशमीविद्यते तदा योगशब्देनाभिधेयोदोषोभवति। स च वेधा-द्यपेक्षया तुरीयोभवतीति। नन्वरुणोदयात्पूर्ब्बमपियदि मध्यरात्रानन्तर दशमीकला विद्येत तदा नोपबासस्तदभावे तूपवास कर्त्तव्यः। तथा च स्मृतिः
“अ-र्द्भरात्रात्परा यत्र एकादश्युपलभ्यते। तत्रोपवासः क-र्त्तव्यो न तु वै दशमीकलेति” अतोयथानिर्दिष्टेभ्य स्त्रि-भ्योऽन्योऽपि कश्चिद्वेधोऽस्तीति चेत् मैवम्। अर्द्धरात्रवेधोऽपि यदा वर्ज्यस्तदा किमु वक्तव्यम् अरुणोदयवेधइति वक्तुमर्धरात्रवेधौपन्यस्तो न तु वेधाभिप्रायेण। तदेव ब्रह्मवैवर्त्ते शौनकेन स्पष्टीकृतम्।
“अर्द्धरात्रेतु केषाञ्चिद्दशम्या वेध इष्यते। अरुणोदयवेलायां नावकाशोविचारणे। कापालवेध इत्याहुराचार्या ये हरिप्रियाः!न तन्मम मतं यस्मात्त्रियामा रात्रिरिष्यत्” इति। य एतेवेधातिवेधमहावेधयोगाःपूर्ब्बमभिहितास्तेषु त्रयोऽरुणो-दयवेधाश्चतुर्थौदयवेधः। तञ्चोदयवेधङ्कण्वोऽप्याह
“उदयोपरिविद्धा तु दशम्यैकादशी यदा। दानवेम्यः प्रीण-नार्थं दत्तवान्पाकशासन इति”। स्मृत्यन्तरेऽपि।
“दश-म्याः प्रान्तमादाय यदोदेति दिवाकरः। तेन स्पृष्टंहरिदिनं दत्तं जम्भासुराय त्विति”। पञ्चदशनाडीवेथ-स्तु स्कन्दपुराणे दर्शितः
“नागोद्वादशनाडीभिर्दिक् पञ्चदवभिस्तथा। भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरान्ति-थिमिति”। तदेवं बेधत्रयं निरूपितम्। तत्र पञ्च-[Page1490-b+ 38] दशनीडीवेधस्यं वेधान्तरस्य च विषयव्यवस्था निगमेदर्शिता।
“सर्वप्रकारवेधोऽयमुपबासस्य दूषकः। सार्द्ध-सप्तमुहूर्त्तस्तु वेधोऽयं बाधते व्रतमिति”। सर्व्वप्रकार इ-त्यत्रं प्रकारशब्देन कलाकाष्ठादयोवेधातिवेधादयो वागृह्यन्ते नात्र तिथ्यन्तरवत्त्रिमुहूर्त्तत्वं वेधेऽपेक्षितंकिन्तु लवकलाकाष्ठादिकमपि ग्राह्यम्। तदुक्तं नार-दीये।
“लवादिवेधे विप्रेन्द्र! दशम्यैकादशीं त्यजेत्। सु-राया विन्दुना पृक्तं गङ्गाम्भ इव निर्मलमिति”। स्कन्द-पुराणेऽपि
“कलाकाष्ठादिगत्यैव दृश्यते दशमी विभो,। एकादश्यां न कर्त्तव्यं व्रतं राजन्! कदाचनेति”। स्मृत्य-न्तरेऽपि।
“कलार्द्धेनापि विद्धा स्याद्दशम्यैकादशी यदि। तदाप्येकादशीं हित्वा द्वादशीं समुपोषयेदिति”। सोऽयंकलाकाष्ठादिवेधोऽरुणोदये सूर्य्योदये च समानः। त-त्रारुणोदयवेधीवैष्णवविषयः। तच्च गारुडपुराणे विस्प-ष्टमवगम्यते।
“दशमीशेषसंयुक्तोयदि स्यादरुणोदयः। नैपोपीव्यं वैष्णवेन तद्विनैकादशीब्रतमिति”। वैस्व नसपञ्चरात्रादिवैष्णवागमोक्तदीक्षां प्राप्तोवैष्णवः। अतएव स्कन्दपुराणे वैष्णवस्वरूपमभिहितम्
“परामापद-मापन्नोऽहर्षे वा समुपस्थिते। नैकादशीन्त्यजेद्यातु यस्यदीक्षाऽस्ति वैष्णवो। समात्मा सर्ब्बजीवेषु निजाचारा-दविच्युतः। विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते” इति। विष्णुपुराणेऽपि।
“न चलति निजकर्मणोयःसममतिरात्मसुहृद्विपक्षपक्षे। न हरति न च हन्ति क-ञ्चिदुच्चैः सितमनसं तमवेहि विष्णुभक्तमिति”। ( यथोक्तगुणसम्पन्नो वैष्णवदीक्षां प्राप्तोयस्तं प्रति तिथि-वेधोनिर्णीयते। एकादशी द्विविधा अरुणोदयवेधवती शुद्धा-चेति। तत्र वेधवती सर्व्वा त्याज्या।
“तद्विनैकीदशीब्रत-मिति” गारुडपुराणे सामान्येन प्रतिषेधात्। विशेषतस्तु संपृक्तादिभेदेन प्रतिषेधीद्रष्टव्यः य एते वेधाति-वेधमहावेधयोगाख्यादोषाः पूर्वमुक्तास्तेषु सत्स्वेका-दशी संपृक्तसंदिग्धसंयुक्तसंकीर्णनामभिर्व्यवह्रियते। अरु-णोदयस्य प्रथमघटिकायां दशमीसद्भावे वेध इत्युक्तः। स च द्विविधः। घटिकाप्रारम्भे कृत्स्रघटिकायां चदशमीवृत्तिभेदात्। तत्र प्रारम्भमात्रदशमीयुक्तैकादशीसंपृक्तेत्युच्यते। कृत्स्रघटिकावर्त्तिदशमीसद्भावयुक्तैका-दशी सन्दिग्धा। अरुणोदयप्रथममुहूर्त्तादधोदशमोव्या-प्तिरतिवेधस्तदुपेतैकादशी संयुक्तेत्युच्यते। सूर्य्यमण्डल-दर्शनसन्देहवेलायां दशमीसद्भावे महावेधः तद्यु-[Page1491-a+ 38] क्तैदकाशी संकीर्णेत्युच्यते। ता एताः संपृक्तादयश्चतस्रोऽपि त्याज्याः। तथा च गोभिलः
“अरुणोदय-वेलायां यदिदशमीसङ्गता। संपृक्तैकादशी तान्तुमोहिन्यै दत्तवान् प्रभुरिति”। गारुडपुराणे
“उदया-त्प्राक् त्रिघटिकाव्यापिन्येकादशी यदि। संदिग्धैकादशीनाम वर्ज्येयं धर्म्मकाङ्क्षिभिः। उदयात्प्रागमुहूर्त्तेन-व्यापिन्येकादशी यदा। संयुक्तैकादशी नाम वर्जयेद्धर्म-वृद्धये। आदित्योदयवेलाया आरभ्य षष्टिनाडिका। सं-कीर्णैकादशी नाम त्याज्या धर्म्मफलेप्सुभिः। पुत्रपौत्रप्रवृ-द्ध्यर्थन्द्वादश्यामुपवासयेत्। तत्र क्रतुशतं पुण्यं त्रयोद-श्यां तु पारणमिति”। यद्यपि पूर्व्वत्र वेधवाक्ये
“सार्द्धंतु घटिकात्रयम्” इत्युक्तम् अत्र तु सन्दिग्धैकादशीवाक्येत्रिघटिकेत्युक्तं तथापि नैतावता वैषभ्येण विरोधः श-ङ्कनीयः शास्त्रद्वयस्याऽपि दशमीवेधत्यागपरत्वात्। तदेवं सामान्यविशेषाभ्यां प्रतिषिद्धचादरुणोदयविद्धैका-दशी वैष्णवेन परित्याज्या। यस्तु योगस ज्ञकश्चतुर्थोयोगस्तस्य त्याज्यत्वमर्थात्सिद्धम्। अरुणोदयवेधोऽपियदा त्यज्यते तदा किमु” वक्तव्यं सूर्य्योदयवेध इति। वच-नन्त्वत्र कण्वप्रोक्तं पूर्व्वमेवोदाहृतम्। या तु चतुर्विधवेधरहिता शुद्धैकादशी सा द्विविधा। आधिक्येन युक्तातद्रहिता चेति। आधिक्य च त्रिविधम् एकाद-श्याधिक्यं द्वादश्याधिक्यमुमयाधिक्यं चेति। त्रिष्व-प्येतेषु पक्षेषु अरुणोदयमारभ्य प्रवृत्तां शुद्धामप्ये-कादशीं परित्यज्य परेद्युरुपवासः कर्त्तव्यः। तत्रैका-दश्याधिक्ये नारदः
“सपूर्णैकादशी यत्र द्वादश्यांवृद्धिगामिनी। द्वादश्यां लङ्घनं काय्य न्त्रयोदश्यां तु पार-णमिति”। स्मृत्यन्तरेऽपि
“एकादशी यदा पूर्णा परतःपुनरेव सा। पुण्यं क्रतुशतस्योक्तं त्रयोदश्यां तु पारणमिति” विष्णुरहस्येऽपि
“एकादशीकलाप्राप्ता येन द्वादश्युपो-षिता। तस्य क्रतुशतं प्रोक्तं त्रयोदश्यान्तु पारणमिति” द्वादश्याधिक्ये व्यास आह
“एकादशो यदा लप्ता परतोद्वादशी भवेत्! उपोष्या द्वादशी तत्र यदीच्छेत् परमांगतिम्” उभयाधिक्ये गुरुराह
“संपूर्णैकादशी यत्रप्रभाते पुनरेव सा। तत्रोपोष्या द्वितीया तु परतोद्वादशी यदीति” नारदोऽपि
“संपूर्णैकादशी यत्रप्रभाते पुनरेव सा। सर्तैरेवोत्तरा कार्य्या परतो द्वादशीयदीति” स्मृत्यन्तरेऽपि
“एकादशी यदा पूर्णा परतोद्वादशी यदि। एकादशीं परित्यज्य द्वादशीं समुप्रो-[Page1491-b+ 38] षयेदिति”। उभयाधिक्यरहितायां न कोऽपि सन्दे-होऽस्ति। इति वैष्णवदीक्षायुक्तानामेकादशी निर्णीता। ( अथ श्रौतस्मार्त्तपर्यवसितानां पञ्चरात्रादिदीक्षार-हितानाम् एकादशी निर्णीयते। अरुणोदयवेधस्यवैष्णवविपयत्वे व्यवस्थिते सत्युदयवेधः स्मार्त्तानुष्ठान-विषयत्वेन परिशिष्यते। अतएव स्मर्यते
“अतिवेधामहावेधा ये वेधास्तिथिषु स्मृताः। सर्वेऽप्यवेधा विज्ञेयावेधः सूर्य्योदये मतः” इति। एवञ्च सति सूर्य्योदयवेधमपेक्ष्यैकादशी द्विधा भिद्यते शुद्धा विद्वा चेति। तत्रश्रुद्धायां पूर्ववच्चत्वारोभेदा भवन्ति एकदश्याधिक्यंद्वादश्या-घिक्यमुभयाधिक्यमनुभयाधिक्यं चेति। एवं विद्ध्वा-यामपि चत्वारोभेदा उन्नेयाः। शुद्धायामेकादश्याधिक्येद्वयोस्तिथ्योरुपवासयोग्यतामाह वृद्धवशिष्टः
“संपूर्णे-कादशी यत्र प्रभाते पुनरेव सा। लुप्यते द्वादशी तस्मिन्नु-पवासः कथम्भवेत्?। उपोष्ये द्वे तिथी तत्र विष्णु प्री-णनतत्परैरिति”। उभयोग्धिकारिभेदेन व्यवस्था स्कन्द-पुराणे दर्शिता
“प्रथमेऽहनि संपूर्णा व्याप्याहोरात्रसं-युता। द्वादश्यां च तथा तात! दृश्यते पुनरेव च। पूर्व्वा-कार्या गृहस्थैस्तु यतिभिस्तूत्तरा तिथिरिति” एतच्चपरेद्युर्द्वादश्यभावविषयम् तथा च स्मृत्यन्तरे।
“पुनःप्रभातसमये घटिकैका यदा भवेत्। अत्रोपवासो वि-हितश्चतुर्थाश्रमवासिनाम्। विधवायाश्च तत्रैव परतोद्वादशी न चेदिति”। गारुडपुराणेऽपि
“पुनः प्रभा-तसमये घटिकैका यदा भवेत्। अत्रोपवासो विहितोवनस्थस्य यतेस्तथा। विधवायाश्च तत्रैव परतो द्वा-दशी न चेदिति”। पुराणान्तरे
“एकादशी यदापूर्णा परतः पुनरेव सा। पुण्यं क्रतुशतस्योक्तं त्र-योदश्यान्तु पारणमिति” एवमेकादश्याधिक्यपक्षे गृहित-त्योर्व्यवस्थाऽभिहिता। द्वादश्याधिक्ये पूर्वेद्युरुपवासमाहनारदः
“न चेदेकादशी विष्णौ द्वादशी परतः स्थिता। उ-पोष्यैकादशी तत्र यदीच्छेत् परमं पदमिति”। स्कन्दपुराणेऽपि
“शुद्धा यदा समा हीना समहीनाऽधिकोत्तरा। एकादश्यामुपवसेन्न शुद्धां वैष्णवीमपीति” दशमीवेधरहिता-शुद्धैकादशी यदा परेद्युरुदयादूर्द्धं नास्ति किन्तुदये समा त-तोन्यूना वा द्वयोरपीत्यर्थः। एवं च सति प्रकृते द्वादश्या-धिक्येऽपि एकादशी समन्यूनयोरन्यतरत्वात् प्रथमैवोपो-ष्येत्युक्तं भवति। उभयाधिक्ये परेद्यु रुपवासो गारु-डपुराणे दर्शितः
“संपूर्णैकादशो यत्र अपाते पुनरे-[Page1492-a+ 38] व सा। तत्रोपोष्या परायुष्या परतो द्वादशी यदीति” वराहपुराणेऽपि।
“एकादशी विष्णुना चेत् द्वादशी परतःस्थिता। उपोष्या द्वादशी तत्र यदीच्छेत् परमं पदमिति” स्मृत्यन्तरेऽपि
“संपर्णैकादशी यत्र प्रभाते पुनरेव सा। वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते। गृहस्थोऽपिपरां कुर्यात् पूर्वां नोपवसेतदा। पूर्णाप्येकादशी त्यज्यावर्द्धते द्वितयं यदीति” एवमेकैकाधिक्ये द्वितयाधिक्येऽपिनिर्णयो दर्शितः। अनुभयाधिक्ये तु नास्ति सन्देहः। इति शुद्धायां चत्वारोभेदाव्यवस्थिताः। अथ विद्वायांचत्वारोभेदा व्यवस्थाप्यन्ते। तत्राप्येकादश्याधिक्ये पूर्व-वद्गृहियत्यार्व्यवस्था द्रष्टव्या। तदाह प्रचेताः
“एकादशीविवृद्धा चेच्छुक्ले कृष्णेऽविशेषतः। उत्तरान्तु यतिः कुर्यात्पूर्वामुपवसेद्गृहीति” नचैतद्वाक्यं शुद्धाधिक्ये चरितार्थ-मिति शङ्कनीयम् बाधकाभावेन विद्धाधिक्येऽपितद्वननप्रवृत्तेर्निवारयितुमशक्यत्वात्। द्वादश्याधिक्येपरेद्युरुपवासः। तदाह व्यासः
“एकादशी यदा लुप्तापरतो द्वादशी भवेत्। उपोष्या द्वादशी तत्र यदीच्छेत्परमां गतिमिति” लुप्ता आदौ दशमीमिश्रितत्वात् परतो-वृद्ध्यभावाच्च क्षयं गतेति यावत्। उभयाधिक्येऽपि परे-द्युरुपवासः। तदुक्तं भविष्यपुराणे
“एकादशीं दिशा युक्तांवर्द्धमाने विवर्ज्जयेत्। क्षयमार्गस्थिते सोमे कुर्वीत दशमीयुतामिति” उभयानाधिक्ये तु नैवास्ति सन्देहः कोट्य-न्तराभावात्। न च विद्धत्वादस्ति सन्देह इति वाच्यंकोट्यन्तराभावे विद्धाया अप्युपादेयत्वात्। तथा च विष्णु-रहस्ये
“एकादशी भवेत् काचिद्दशम्या दूषिता तिथिः। वृद्धिपक्षे भवेद्दोषः क्षयपक्षेऽतिपुण्यदेति”। इति विद्धाभे-दाव्यवस्थापिताः। अत्र शुद्धाविद्धयोरप्येष निर्णयसंग्रहः। एकादशीद्वादश्योरुभयोरपि वृद्धौ परेद्यु रुपवासः। द्व-योरप्यवृद्धौ पूर्वेद्युः। एकादशीमात्रवृद्धौ गृहियत्यो-र्व्यवस्था। द्वादशीमात्रवृद्धौ शुद्धायां सर्वेषां पूर्वेद्युः वि-द्धायां परेद्युरिति” तदेवं शास्त्रार्थे व्यवस्थिते यावन्ति मु-निवाक्यानि विधायकानि निषेधकानि सर्वाणि तान्यविरो-धेन व्यवस्थापनीयानि। तत्र व्यवस्थापनप्रकारं दर्शयामःस्कन्दपुराणे
“प्रतिपत्प्रभृयः सर्वा उदयादोदया-द्रवेः। संपूर्णा इति विख्याता हरिवासरवर्जिताः” इतिहरिवारेषु तु संपूर्णत्वं प्रकारन्तरेणोक्तं गारुड-पुराणे
“उदयात् प्राग्यदा विप्र! मुहूर्त्तद्वयसंयुता। सं-पूर्णैकादशी ज्ञेया तत्रैवोपवसेद्गृहीति” भविष्यपुराणे-[Page1492-b+ 38] ऽपि
“आदित्योदयवेलायां प्राङ्मुहूर्त्तद्वयान्विता। एकादशी तु संपूर्णा विद्धाऽन्या परिकल्पितेति”। तदेत-द्वचनद्वयमरुणोदयवेधोपजीवनेन प्रवृत्तत्वाद्वैष्णवविषयम्। दशमीवेधे निन्दकानि तु वचनानि द्विविधान्युप-लभ्यन्ते। कानिचिदरुणोदयानुवादेन प्रवृत्तानि, कानि-चित्तदननुवादेनेति। यथा भविष्यपुराणे
“अरु-णोदयकाले तु दशमी यदि दृश्यते। तत्र नैकादशी कार्याधर्मकामार्थनाशिनीति” कौत्सः
“अरुणोदयवेलायांविद्धा गान्धार्य्युपोषिता। तस्याः पुत्रशतं नष्टं तस्मात् तां-परिवर्जयेदिति” एतादृशानि सर्वाणि वैष्णवविषयाणिद्रष्टव्यानि। अरुणोदयानुवादमन्तरेण दशमीविद्धा-निन्दकानि च कानिचिद्वचनान्युपलभ्यन्ते तद्यथानारदः
“दशम्यनुगता यत्र तिथिरेकादशी भवेत्। तत्रोपवासे नाशश्च परेत्य नरकं व्रजेदिति” ब्रह्मवैवर्त्ते
“दशमीशेषसंयुक्तां यः करोति विभूढधीः। एकादशीफलं तस्य नश्येत् द्वादशवार्षिकमिति” बिष्णुरहस्येऽपि
“दशमीशेषसंयुक्तामुपोष्यैकादशीं किल। संवत्सकृतेनेहनरोधर्मेण मुच्यते” इति ईदृशानि सर्वाण्यपि वेधविषयेवैष्णवविषयाण्यण्यविषये तूभयाधिक्ये द्वादश्याधिक्ये चसर्वपुरुषविषयाणि द्रष्टव्यानि। दशमीविद्धाभ्यनुज्ञाप-कानि च कानिचिद्वचनान्युपलभ्यन्ते तद्यथा स्कन्द-पुराणे
“त्रयोदश्यां न लभ्येत द्वादशी यदि किञ्चन। उपोर्ष्यकादशी तत्र दशमीमिश्रितापि चेति” स्मृत्यन्तरे
“उपोष्यैकादशी तत्र द्वादशी न भवेद्यदि। दशम्यापि हिमिश्रैव एकादश्येव धर्मकृदिति” वृहद्वशिष्ठः
“द्वा-दशी स्वल्पस्वल्पापि यदि न स्यात् परेऽहनि। दशमीमि-श्रिता कार्या महापातकनाशिनीति” ऋष्यशृङ्गः
“एका-दशी न लभ्येत सकला द्वादशी भवेत्। उपाष्यैकादशीविद्धा ऋषिरुद्दालकोऽब्रवीदिति” हारीतोऽपि
“त्रयो-दश्यां यदा नष्ट द्वादशीघटिकाद्वयम्। दशम्यैकादशीविद्धा सैवोपोष्या सदा तिथिरिति” एतादृशानि वाक्यानिसर्वाणि अनुभयाधिक्ये सर्वपुरुषविषयाणि एकादश्याधिक्येतु स्मार्त्तगृहस्थविषयाणि द्रष्टव्यानि नत्वेतानि वैष्णबवि-षयाणि वैष्णवप्रकरणेषु विद्धाभ्यनुज्ञाया अदर्शनात्। संपूर्णेकादशीपरित्यागविषयाणि कानिचिद्वचनाम्युपल-भ्यन्ते। तद्यथा स्कन्दपुराणे
“एकादशी भवेत् पूर्णापरतो द्वादशी यदि। तदा ह्यैकादशीं त्यक्त्वा द्वादशीं समु-पोषयेदिति” तथा कालिकापुराणे
“एकादशी यदा[Page1493-a+ 38] पूर्णा परतो द्वादशी भवेत्। उपोष्या द्वादशीतत्र तिथिवृद्धिः प्रशस्यत इति” गारुडपुराणे
“पूर्णाभवेद् यदा नन्दा भद्रा चौ विवर्द्धते। तदोपोष्या तु भद्रास्यात् तियिवृद्धिप्रशस्तिव इति”। एवादृशानि सर्वाणिवैष्णवविषयाणि। दिनत्रयविषयाणि कानिचिद्वचनान्यु-पलभ्यन्ते। यदाह नारदः
“यदि दैवात्तु संसिध्येदेकादश्यांतिथित्रयम्। तत्र क्रतु शतं पुण्यं द्वादशीपारणे भ-वेदिति” कूर्मपुराणेऽपि
“द्विसृगेकदाशी यत्र तत्र सन्नि-हिवो हरिः। तामेवोपवसेत् काममकामो विष्णुतत्परः” इति अत्राद्यन्तयोर्दशमीद्वादश्यौ मध्ये एकादशीत्येतद्दि-नत्रय यदाप्रोति तदा परतो द्वादश्या वृद्धिरवृद्धिश्चेत्युभयंसम्भवति। तत्र यद्यवृद्धिस्तदा यथोक्तं दिनत्रयमुपोष्यम्। तदुक्तं पुराणान्तरे
“दिनत्रयमृते! देवि नोपोष्या दशमीयुता। सैवोपोष्या मदा पुण्या परतश्चेत् त्रयोदशीति” द्वादशीवृद्धौ
“एकादशी यदा लुप्ता” इत्यनेन व्यासवचनेन परे-द्युरुपवास इति पूर्वमेव निर्णीतं यदा त्वाद्यन्तयोरेकादशीत्रयोदश्योर्मध्ये द्वादशीत्येतादृशं दिनत्रयं तदा ना-रदेन स्मर्य्यते
“एकादशी द्वादशी च रात्रिशेषे त्रयो-दशी। तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पार-णम्”।
“एकादशी द्वादशी च रात्रिशषे त्रयोदशी। त्रिस्पृशा नाम सा प्रोक्ता ब्रह्महत्यां व्यपोहतीति”। तदेतद्वैष्णवविषयं यतिविषयं वा द्रष्टव्यम्। गृहस्थे तुतन्निषिद्धम् तथा च कूर्मपुराणे
“एकादशी द्वादशी चरात्रिशेषे त्रयोदशी। उपवास न कुर्वीत पुत्रपौत्र-समन्वितः” एति पद्मपुराणे
“एकादशी द्वादशी चरात्रिशेषे त्रयोदशी। त्र्यहस्पृग्यदहोरात्रं नोपोष्यंतत् सुतार्थिभिरिति” यत्तु ऋष्यशृङ्गेणोक्तम्।
“अवि-द्धानि निषिद्धैश्च न लभ्यन्ते दिनानि तु। मुहूर्त्तौ पञ्च-भिर्विद्धा ग्राह्यैवैकादशी तिथिः। तदर्द्ध विद्धान्यन्यानिदिनान्युपवसेद्बुधः। पूर्ब्बविद्धा न कर्त्तव्या षष्ठ्येकाद-श्यथाष्टमी। एकादशीं तु कुर्वीत क्षीयते द्वादशी यदीति” अत्र निंषेधो यतिविषयः, विधिर्गृहस्थविषयः वेधवाहुल्येहेयत्वशङ्का मा भूदिति पञ्चभिर्भुहूर्त्तौरित्युक्तम्। तदेवंनानाविधवचनस्य व्यवस्थापनप्रकारी व्युत्पादितः। अन-या व्युत्पत्त्या मन्दबुद्धिरपि व्यवस्थापयितुं शक्लोत्येव। इत्युपवासतिथिर्निरूपिता। ( अथाधिकारी निरूप्यते तत्र नारदः
“अष्टाव्दा-दधिको मर्त्योह्यपूर्णाशीतिहायनः। भुङ्क्ते यो मानवो[Page1493-b+ 38] मोहादेकादश्यां स पापकृदिति” कात्यायनोऽपि
“अष्टवर्षाधिको मर्त्यो ह्यशीतिन्यूनवत्संरः। एकादश्या-मुपवसेत् पक्षयोरुभयोरपीति”। गृहस्थस्य तु शुक्लै-क्वादश्यामेव नित्योपवासः यथा कूर्मपुराणे
“एकादश्यांन भुञ्जीत पक्षयोरुभयोरपि। वानप्रस्थो यतिश्चैव शुक्ला-मेव सदा गृहीति” भविष्योत्तरेऽपि
“एकादश्यां न भुञ्जीतपक्षयोरुभयोरपि। ब्रह्मचारी च नारी च श्रुक्लामेव सदागृहीति” नारी विधवा तस्या एव यतिधर्मत्वात्। पति-मत्यास्तू पवासं निषेधति विष्णुः
“पत्यौजीवति या नारीउपोष्य व्रतमाचरेत्। आयुष्यं हरते भर्त्तुर्नरकं चैव ग-च्छतीति” मनुः
“नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्यु-पोषणमिति” मार्कण्डेयपुराणे
“नारी खल्वननुज्ञाताभर्त्त्रा पित्रा सुतेन वा। निष्फलं तु भवेत् तस्या यत्-करोति व्रतादिकमिति” आदिशब्दाद्वस्त्रालङ्कारगन्धधू-पाञ्जनानामुपसंग्रहः मनुः
“पुष्पालङ्कारवस्त्राणि गन्ध-धूपानुलेपनमिति” पत्युरनुमत्या व्रतादिष्वधिकारिणीभवति तदाह कात्यायनः।
“भार्या पत्युर्मतेनैव व्रतादीना-चरेत् सदेति” शुक्लामेवेत्येवकारः कृष्णैकादश्य मुपवास-निषेधपरः। तथा च कूर्मपुराणे
“संक्रान्त्यां कृष्णपक्षे चरविशुक्रदिने तथा। एकादश्यां न कुर्वीत उपवासञ्च पा-रणमिति” गौतमोऽपि
“आदित्येऽहनि संक्रान्त्यामसितै-कादशीषु च। व्यतीपाते कृते श्राद्धे पुत्री नोपवसेद्गृ-हीति”। अत्रपुत्रीति विशेषणं पुत्रवतो दोषविशेषप्रतिपा-दनार्थम् तथा च पद्मपुराणं
“संक्रान्त्यामुपवासेन पारणे-न युधिष्ठिर!। एकादश्यां च कृष्णायां ज्येष्ठःपुत्रोविनश्यति” नारदीयेऽपि
“इन्दुक्षयेऽकसंक्रान्त्यामेकादश्यां सितेतरे। उपवासं न कुर्वीत यदीच्छेत्सन्ततिन्धुवामिति”। अत्र सं-क्रान्त्यादिषूपवासस्य निषेधः संक्रान्त्यादिनिमित्तक-स्य। तथाच कात्यायनः
“एकादर्शीषु कृष्णासु रविसंक्रमणे तथा। चन्द्रसूर्य्योपरागे च न कुर्य्यात्पुत्रवान्गृही। तत्प्रयुक्तोपवासस्य निषेधोऽयमुदाहृतः। निभित्ता-न्तरयुक्तस्य न विधिर्ननिषेधनमिति” जैमिनिरपि
“तन्निमित्तोपवासस्य निषेधोऽयमुदाहृतः। नानुषङ्गकृतो-ग्राह्योयतोनित्यमुपोषणमिति”। अयमर्थः एकादश्युप-वासस्य नित्यत्वात्स क्रान्त्याद्यपवासस्य च काम्यत्वात्काम्यो-पवासनिषेधे सति न नित्योपयासनिषेथः सिध्यतीति। संक्रान्त्यादिनिमित्तश्चोपवासः संवत्तेनीक्तः।
“अमावास्या-द्बादशी च संक्रान्तिश्च पिशेषतः। एताः प्रशस्तास्तिथ-[Page1494-a+ 38] यो भानुव रस्तथैव च। अत्र स्नानं जपोहोमो देवतानांच पूजनम्। उपवासस्तथा दानमेकैकं पावनं स्मृतमि-ति”। गृहस्थस्य तु शुक्ल यामेव नित्योपवास इत्युक्तम्। नैमित्तिककाम्योपवासौ तु कृष्णायामपि कर्त्तव्यौ। तत्रनैमित्तिकः स्मृत्यन्तरे पठ्यते।
“शयनीबोधनीमध्ये याकृष्णैकादशी भवेत्। सैवोपोष्या गृहस्थेन नान्या कृष्णाकदाचनेति”। काम्यस्तु स्कन्दपुराणे
“पितॄणां गतिम-न्विच्छन् कृष्णायां समुपोषयेदिति” सनत्कुमारः
“भानुवारेण संयुक्ता कृष्णा संक्रान्तिसंयुता। एकादशीसदोपोष्या सर्वसंपत्करी तिथिरिति”। मत्स्यपुराणेऽपि
“एकादश्यां तु कृष्णायामुपोष्य बिधिवन्नरः। पुत्रानायुःसमृद्धिं च साम्राज्यं च स गच्छतीति”। दिनक्षये पुत्रवतोगृहस्थस्योपवासोऽपि निषिद्धः तथा च पितामहः
“एकादश्यां दिनक्षये उपवासं करोति यः। तस्य पुत्राविन-श्यन्ति मघायां पिण्डदोयथेति”। मत्स्यपुराणेऽपि
“दिनक्षयेऽर्कसंक्रान्तौ ग्रहणे चन्द्रसूर्य्ययोः। उपवासं नकुर्वीत पुत्रपौत्रससन्वितः” इति। दिनक्षयलक्षणं प-द्मपुराणे
“द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद्दिनक्षयः” इति। वशिष्ठोऽपि
“एकस्मिन् सावने त्वह्नि तिथीनां त्रित-यं यदा। तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलमिति”। फलमत्रोपवासव्यतिरिक्तदानादिजन्यं द्रष्टव्यम् उ-पवासस्य निषिद्धत्वात्। ईदृशे विषये किं कर्त्तव्यमि-त्याकाङ्क्षायां वायुपुराणे पठ्यते
“उपवासे निषिद्धे तुभक्ष्यं किञ्चित्प्रकल्पयेत्। न दुष्यत्युपवासेन उपवासफ-लम्भवेत्”।
“नक्तं हविष्यान्नमनोदनं वा फलन्तिलाःक्षीरमथाम्बु वाज्यम्। यत्पञ्चगव्यं यदि वापि वायुः प्र-शस्तमत्रोत्तरमुत्तरं चेति”। उपवासासमर्थस्त्वेकभ-क्तादीनि कुर्य्यात् तथा च स्मृतिः।
“उपवासेत्व शक्तानाम-शीतेरूर्ध्वजीविनाम्। एकभक्तादिकं कार्यमाह बौधायनोभुनिरिति”। मार्कण्डेयपुराणे
“एकभक्तेन नक्तेन तथै-वायाचितेन च। उपवासेन दानेन न निर्द्वादशिकोभ-वेदिति”। कूर्म्मपुराणेऽपि
“एकभक्तेन नक्तेन क्षीणवृद्धा-तुरःक्षिपेत्। नातिक्रामेद्द्वादशीन्तु उपवासव्रतेन चेति”। स्मृत्यन्तरेऽपि
“एकभक्तेन नक्तेन बालवृद्धातुरः क्षिपेत्। पयोमूलं फलं वाऽपि न निर्द्वादशिकोभवेदिति”। भविष्ये-पुराणेऽपि
“एकादश्यातुपवसेन्नक्तं वापि समाचरे-दिति”। नित्यकाम्ययोरशक्तास्तु प्रतिनिधिभिर्व्र तङ्कारयेयुः। तथा च विष्ण रहस्ये
“असामार्थ्ये शरीरस्य व्रते च समु[Page1494-b+ 38] पस्थिते। कारयेद्धर्मपत्नीं वा पुत्रं वा विनयान्वित-मिति”। पैठीनसिः
“भार्य्या पत्युर्व्रतं कुर्य्याद्भार्य्यायाश्चपतिर्व्र तत्। असामर्थ्ये परस्ताभ्यां व्रतभङ्गो न जायते” इति। स्कन्दपुराणे
“पुत्रं वा विनयोपेतं भगिनीं भ्रा-तरन्तथा। एषामभावएवान्यं ब्राह्मणं विनियोजयेत्”। अन्यत्रापि
“भ्रातरं भगिनीं शिष्यं कारयेद्ब्राह्मणादिभिरिति”। स्मृत्यन्तरेऽपि
“पितृमातृपतिभ्रातृश्वश्रूगु-र्वार्य्यभूभुजाम्। अदृष्टार्थमुपोषित्वा स्वयञ्च फलभाग्भवे-दिति” कात्यायनः।
“पितृमातृस्वसृभ्रातृगुर्वर्थे चविशेषतः। उपवासं प्रकुर्बाणः पुण्यं शतगुणं लभेत्। द-क्षिणा नात्र दातव्या शुश्रूषा विहिता च सा। नारीच पतिमुद्दिश्य एकादश्यामुपोषिता। पुण्यं शतगुणंप्राहुर्मुनयः पारदर्शिनः। उपपासफलंतस्याः पतिःप्राप्तोत्यसंशयम्। राज्यस्थक्षत्रियार्थे च एकादश्या-मुपोषितः। पुरोधाः क्षत्रियस्यार्द्धं फलं पाप्रोतिनिश्चितम्। पितामहादीनुदिश्य एकादश्यामुपोषणे। कृतेते तु फलं विप्राः! समग्रंसमवाप्नुयुः। कर्त्ता दशगुणंपुण्यं प्राप्नोत्यत्र न संशयः। यमुदिश्य कृतंसोपि सं-पूर्णं फलमाप्नुयादिति”। प्रतिनिधौ च कश्चिद्विशेषःस्मृतौ
“काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके च सः। काम्येऽप्युपक्रमादूर्द्ध्वं क्वचित्प्रतिनिधिं विदुरिति”। अयमर्थःनित्यं नैमित्तिकं च प्रतिनिधिनाप्युपक्रम्य कारयेत् काम्यंतु स्वसामर्थ्यं परीक्ष्य स्वयमेबोपक्रम्य कुर्य्यात् असामर्थ्येउपक्रमादूर्द्धं प्रतिनिधिनापि तत् कारयेत्। ( उपवासाकरणे प्रायश्चित्तं स्मर्य्यते
“अष्टम्याञ्च चतु-र्दश्यां दिवा भुक्त्वैन्दवं चरेत्। एकादश्यां दिवा रात्रौनक्तञ्चैव तु पर्वणीति” स्मृत्यन्तरे
“अर्के पर्वद्वयेरात्रौ चतुर्दश्यष्टमीदिवा। एकादश्यामहोरात्रं भुक्त्वाचान्द्रायणञ्चरेत्”। अथ काम्योपवासक्रमः तत्राङ्गिराः
“सायमाद्यन्तयोरह्नोःसायं प्रातश्च मध्यमे। उपवासफलं प्रेसुर्जह्याद्भक्तचतुष्ट-यम्” इति। देवलः
“दशम्यामेकभक्तस्तु मांसमैथुनवर्जितःएकादशीमुपवसेत् पक्षयोरुभयोरपि। देवतास्तस्य तुष्यन्तिकामितं चास्य सिध्वतीति” वृहस्पतिरपि
“दिवानिद्रा प-रान्नं च पुनर्भोजनमैथुने। क्षौद्रं कांस्यामिषं तैलं द्वा-दश्यामष्ट वर्जयेदिति” कूर्मपुराणे
“कांस्य मांसं मसूरांश्चचणकान् कोरदूषकान्। शाकं नधु परान्नञ्च त्यजेदुपव-सन् स्त्रियमिति” स्मृत्यन्तरेऽपि
“शाकं मांसं मसूरांश्च[Page1495-a+ 38] पुनर्भोजनमैथुने। द्यूतमन्यम्बुपानञ्च दशम्यां वैष्णवस्त्य-जेदिति” विष्णुधर्मोत्तरे
“असम्भाष्यान् हि सम्भाष्य तुलस्यतसिकादलम्। आमलक्याः फलं वापि पारणे प्राश्य शुध्यति”
“असकृज्जलपानं च दिवास्वापञ्च मैथुनम्। ताम्बूलचर्वणंमांसं वर्ज्जयेत् व्रतवासरे” इति च। वसिष्ठः
“उपवासे तथाश्राद्धे न खादेद् दन्तधावनम्। दन्तानां काष्ठसंयोगोहन्तिसप्त कुला नि चेति” दन्तधावने प्रायश्चित्तं च विष्णुरहस्ये
“श्राद्धोपवासदिवसे खादित्वा दन्तधावनम्। गायत्र्याःशतसंपूतमम्बु प्राश्य विशुद्ध्यतीति” हारीतः
“पतितपाष-ण्डिनास्तिकसम्भाषणमनृताश्लीलादिकमुपवासादिषु वर्ज-येदिति” कूर्मपुराणे
“बहिर्ग्रामान्त्यजान् सूतिं पतितञ्चरजस्वलाम्। न स्पृशेन्नामिभाषेत नेक्षेत व्रतवासरे” इतिविष्णुरहस्ये
“स्मृत्यालोकनगन्धादिस्वादनं परिकीर्त्तनम्। अन्नस्य वर्जयेत् सर्वं ग्रासानाञ्चाभिकाङ्क्षणम्। गात्राभ्यङ्गंशिरोऽभ्यङ्गं ताम्बूलं चानुलेपनम्। व्रतस्थो वर्ज्जयेत् सर्वंयच्चान्यत्र निराकृतभिति” ब्रह्माण्डपुराणे
“कांस्यं मांसंसुरां क्षौद्रं लोभं वितथभाषणम्। व्यायामञ्च प्रवासञ्चदिवास्वप्नं तथाञ्जनम्। तिलपिष्टं मसूरांश्च द्वादशै-तानि वैष्णवः। द्वादश्यां वर्ज्जयेन्नित्यं सर्वपापैः प्र-मुच्यते” इति। ( एकादश्यां श्राद्धं कृत्वापि न भोक्तव्यं तदाहकात्यायनः
“उपवासो यदा नित्यः श्राद्धं नैमित्तिकंभवेत्। उपवासं तदा कुर्य्यादाघ्राय पितृसेवितमिति” तथा
“मातापित्रोः क्षये प्राप्ते भवेदेकादशी यदां। अभ्यर्च्य पितृदेवांस्तु आजिघ्रेत् पितृसेवितमिति” यत्तु वचनम्
“श्राद्धं कृत्वा तु यो विप्रो न भुङक्ते पि-तृसेवितम्। हविर्देवा न गृह्णन्ति कव्यञ्च पितरस्तथेति” तदेकादशीव्यर्तिरिक्तविषयम् आघ्राणेनापि भोजनकार्य्यं सि-ध्यति तस्य भोजनकार्य्ये विधानात्”( सूतकादौ दानार्चनरहितमुपवासमात्रं कुर्य्यात् तदुक्तंकूर्म्मपुराणे
“काम्योपवासे प्रक्तान्ते त्वन्तरा मृतसूतके। तत्रसाम्यं ब्रतं कुर्य्यात्दानार्चनविवर्जितम्” इति वराहपुराणे
“सूतके च नरः स्रात्वा प्रणम्य मनसा हरिम्। एका-दश्यां न भुञ्जीत व्रतमेवं न लुप्यते। मृतके न च भुञ्जीतएकादश्यां सदा नरः। द्वादश्यान्तु समश्रीयात्स्रात्वा वि-ष्णुं प्रणम्य चेति”। तत्र परित्यक्तं देवार्चनं सूतकान्तेकुर्य्यात् तदुक्तं मत्स्यपुराणे
“सूतकान्ते न स्रात्वा पूजा-यित्वा जनार्द्दनम्। दानं दत्त्वा विधानेन व्रतस्य फलम-[Page1495-b+ 38] श्नुते” इति। स्त्रीणां रजोदर्शनेऽपि न व्रतत्यागः किन्तुदेवतार्च्चनादिरहितं सूतकादाविवोपवासमात्रं कर्य्यंतदाह पुलस्त्वः
“एकादश्यां न भुञ्जीत नारी दृष्टे रजस्य-ऽपि” इति। ऋष्यशृङ्गः
“संप्रवृत्तेऽपि रजसि
२ त्याज्यंद्वादशीव्रतमिति”। सत्यव्रतोऽपि
“प्रारब्धदीर्घतपसां नारी-णां चेद्रजोभवेत्। न तत्रापि व्रतस्य स्यादुपरोधः कदा-चनेति” शुद्ध्यनन्तरं देवतार्च्चनादिकं कुर्य्यात् तथा चस्मृतिः
“स्रात्वा भर्तुश्चतुर्थेऽह्नि शुद्धा स्यात्परिचारणे। पञ्चमेऽहनि शुद्धा स्याद्दैवे पित्र्ये च कर्म्मणीति”( नित्योपवासप्रकारो विष्णुरहस्येऽभिहितः
“अथ नित्योप-वासी चेत्सायं प्रातर्भुजिक्रियाम्। वर्जयेन्मतिमात्विप्रः संप्राप्ते हरिवासरे” इति ब्रह्मवैवर्त्तेऽपि
“इतिविज्ञाय कुर्वीत नित्यमेकादशीव्रतम्। विशेषनियमाशक्तो-ऽहोरात्रं भुक्तिवर्जितः। निगृहीतेन्द्रियः श्रद्धास-हायोविष्णुतत्परः। उपोष्यैकादशीं पापान्मुच्यते नात्रसंशयः”। शक्तौ सत्यां नियमानाचरेत् तथा च कात्या-यनः
“शक्तिमांस्तु ततः कुर्य्यान्नियमं सविशेषणमिति”। ( यदा द्वादश्यां श्रवणनक्षत्रम्भवेत् तदा शुद्धैकादशी-मपि परित्यज्य द्वादश्यामेवोपवसेत् तथा च नारदीये
“शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता। तयोरेवोपवासश्च त्रयोदश्यां च पारणमिति” तथा
“एकदश्यान्त्वविद्धायां संप्राप्ते श्रवणे तदा। उपोष्या-द्वादशी शुद्धा सर्व्वपापक्षयावहेति” यदा पारणपर्याप्ताद्वादशी स्यात्तदा तस्यामेव पारणा कार्य्या न तु त्रयोदश्यांतदुक्तम्
“भवेद्यत्र त्रयोदश्यां द्वादश्यास्तु कलाद्वयम्। द्वादश द्वादशीर्हन्ति त्रयोदश्यां तु पारणम्। कलाद्वयंत्रयं वापि द्वादशीं न त्वतिक्रमेत्। पारणे मरणे नॄणां ति-थिस्तात्कालिकी स्मृतेति” ननु द्वादश्यतिक्रमेऽपि नास्तिदोषः
“सा तिथिः सकला ज्ञेयेति
“वचने साकल्यविधा-मादिति चेत् मैवं साकल्यस्य स्नानादिविषयत्वात्वाक्यशेषे
“स्नानदानजपादिषु” इत्यभिधानात्। पारणे तुसाकल्यवचनं न प्रवर्त्तते
“तिथिस्तात्कालिकी ज्ञेयेत्युक्तेः( अल्पद्वादशीकाले यदा पारणन्तदा सद्भिः प्रागेव-सर्व्वाः क्रियाः कर्त्तव्याः तदुक्तं नारदीये
“अल्पायामधविप्रेन्द्र! द्वादश्यामरुणोदये। स्नात्वार्चनाक्रियाः कार्य्या-दानहोमादिसंयुताः। एतस्मात्कारणाद्विप! प्रत्यूषे-स्नानमाचरेत्। पितृतर्पणसंयुक्तं स्वल्पां दृष्ट्वा च द्वा-दशीम्। महाहानिकरी ह्येषा द्वादशी लङ्घिता नृ[Page1496-a+ 38] णाम्। करोति धर्म्महरणमस्नातेव सरस्वतीति” गरुड-पुराणेऽपि
“यदा स्वल्पा द्वादशी स्यादपकर्षोभुजेर्भवेत्। प्रातर्मध्याह्निकस्यापि तत्र स्यादपकर्षणमिति”। स्कन्दपुरा-णेऽपि
“यदा भवेदतीवाल्पा द्वादशी पारणादिने। ऊषः-काले द्वयं कुर्य्यात् प्रातर्मध्याह्निकञ्चयदिति”। तत्र पारणासम्भवे अद्भिः पारणङ्कुर्य्यात् तदाह कात्यायनः
“सन्ध्या-दिकम्भवेन्नित्यं पारणन्तु निमित्ततः। अद्भिस्तु पार-यित्वाथ नैत्यिकान्ते भुजिर्भवेदिति” देवलोऽपि
“सङ्कटे वि-षमे प्राप्ते द्वादश्यां पारयेत्कथम्?। अद्भिस्तु पारणङ्कुर्या-त्पुनर्भुक्तं न दोषकृदिति”। यथा कलयापि द्वादशी नास्तितदात्रयोदश्यामपि पारणङ्कुर्य्यात् तदुक्तं नारदाये
“त्रयोदश्यां तु शुद्धायां पारणं पृथिवीफलम्। शतयज्ञा-धिकं वापि नरः प्राप्नोत्यसंशयमिति”। पारणञ्च नै-वेद्यमिश्रितङ्कुर्य्यात् तदुक्तं स्कन्दपुराणे
“कृत्वा चैवो-पवासन्तु योऽश्नाति द्वादशादिने। नैवेद्यं तुलसीमिश्रंहत्याकोटिविनाशनमिति”। ( अस्यामेकादश्यां यान्युपवासप्रतिनिधिरूपाणि एकभ-क्तनक्तायाचितदानानि तेषां प्रतिपद्युक्तन्यायेनोप-वासतिथावेवानुष्ठानं, य नि तु स्वतन्त्राण्येकभक्तनक्तादीनि तेषां पूर्ब्बोक्तन्यायेन मध्याह्नादिव्यापितिथिग्रहण-प्राप्नौ दशमीविद्धा प्रतिषिध्यते द्वादशीकल्पे
“पूर्णाविद्धां-दिनार्द्धेन नन्दां पूर्णामपि त्यजेत्। यदीच्छेदात्मसन्तानंनियमेषु चतुर्ष्वपि। नोपोषितं च नक्तञ्च नैकभक्तमयाचितम्। गन्दायां पूर्णविद्धायां कुर्य्यादैश्वर्य्यमोहितः। एकादशीयुता शस्ता द्वादश्या समुपोषणे। नक्ते चायाचिते नित्य-मेकभक्ते तथाऽनघ!। नक्तञ्चायाचितं तात! नैकभक्त-मुपाहरेत्। दशमीसहिते दानमनर्थं हरिवासरे” इतिदिनार्द्धेन सार्द्धसप्तमुहूर्त्तैरित्यर्थः। एतदेवाभिप्रेत्य
“दिक्पञ्चदशमिस्तथेति” उदाहृतम्। तथा
“सार्द्धसप्तमुहूर्त्तेस्तुवेधोऽयं बाधते व्रतमिति” एतदूनवेधे तु तिय्यन्तरव-न्मध्याह्नादिव्याप्तिर्ग्रहीतव्या”। ( अत्राधिकारिविशेष हरि॰ भ॰ आग्नेये
“गृहस्थोव्रह्मचारी वा आहिताग्निर्यमिस्तथा। एकादश्यं न भुञ्जीतपक्षयो रुमयोरपि”। पाद्मोत्तरखण्डे
“वर्णानामाश्रमाणा-ञ्च स्त्रीणाञ्च वरवर्णिनि! एकादश्युपवासस्तु कर्त्तव्योनात्रसंशयः”।
“एतस्मात् कारणाद्विप्र! एकादश्य मुपेष-णम्। कुर्य्यान्नरोवा नारी वा पक्षयोरुभयोरपि” विष्णु-धर्म्मोत्तरीयम्
“वैष्णवों वाथ शैवोवा कुर्य्यादेकादशीव्रतम्”। [Page1496-b+ 38] सौरपुराणम्
“वैष्णवोवाथ शैवोवा सौरोऽप्येतत् सेमाचरेत्”। स्कान्दम्।
“न शैवोन च सौरोवांनाश्रमी तीर्थसेवकः। योभुङ्क्ते वासरे विष्णोः श्वपचादधिको हि सः। विप्रिथं तेन मे गोरि! कृतं दुष्टेन पापिना। मद्-भक्तिबलमाश्रित्य येन भुक्तं हरेर्दिने”।
“विधवा याभवेन्नारी भुञ्जीतैकादशीदिने। तस्यास्तु सुकृतं नश्येत्भ्रूणैत्या दिनेदिने” कात्या॰। एकादशीं विनारण्डा यतिश्च सुमहातपाः। पच्यते ह्यन्धतामिस्रेयावदाहूतसंप्लवम्” नारदीयम्।
“सधवायास्तु पत्य-नुमत्या सह वाधिकारः।
“सपुत्रश्च सभार्य्यश्च स्वजनैर्भक्तिसंयुतः। एकादश्यामुपवसेत् पक्षयोरुभयोरपि” विष्णुध॰। तदनुमत्या सधवाया अधिकारिता कालमा॰दर्शिता। (
“वैष्णवस्योभयपक्षयोर्निंत्याधिकारः यथाह तत्त्वसागरे।
“यथा शुक्ला तथा कृष्णा यथा कृष्णा तथेतरा। तुल्ये तेमनुते यस्तु सवै वैष्णव उच्यते” एवमेव ए॰ त॰ रघु॰।
“व्याधिभिः परिमूतानां पित्ताधिकशरीरिणाम्। त्रिंशद्वषांधिकानाञ्च नक्तादिपरिकल्पनम्” मार्क॰ पु॰। प्रागुक्तकालमाधवमतानुसारिण्येकादशीव्रतकालादिव्यवस्थासर्वदेशवासिभिः प्रायेणाद्रियते। गीडनिवासिभिस्तु रघु-नन्दनोक्ता व्यवस्थाद्रियते। तन्मतसिद्धव्यवस्था तु एकादशीत॰ धृतवचनजातादनुसन्धेया तत्र संक्षेपस्तत्रं दर्शितो यथा
“तत्र संक्षेपः पारणादिने द्वादशीलाभे सर्व्वएव पूर्णांत्यक्त्वा खण्डामुपवसेत् तदलाभे गृहो पूर्ब्बां तदन्यःपरांविधवापि। यदा तु पूर्ब्बदिने दशम्या उत्तरदिनेद्वादश्या युक्तैकादशी तदोत्तरामुपोष्य द्वादश्यां पारणंकुर्य्यात्। परदिने द्वादशानिर्गमे त्रयोदश्यामपीति। यदा तु सूर्य्योदयानन्तरं दशमीयुतैकादशी अथ च पर-दिने न निःसरति तदा तां विहाय द्धादश मुपवसेत्। (अत्रमाधवमते भेदः) यदा तु सूर्य्योदयात् प्राक्कालीनदशमीविद्धैकादशी परदिने न नि सरति तदातामुपवसेत्। यदा तु तथाविधा सती परदिनेऽपि निः-सरति तत्परदिने च द्वादशी तदा तां विहाय खण्डा-मुपोष्य द्वादश्यां पारयेत्। यदा तु पूर्व्वदिने तद्विद्धैका-दशी परदिने च द्वादशी तदा षष्टिदण्डात्मिकां विद्धा-मुपोष्य परदिने द्वादश्याः प्रथमपादमुत्तीर्प्य पारयेत्। वैष्णवस्तु तत्रापि शुक्लपक्षे परामुपोष्य त्रयोदश्यां वार-येदिति। [Page1497-a+ 38]( सर्व्वस्यां कृष्णैकादश्यां वैष्णवानां सपुत्त्राणांगृहस्त्रानामप्युपवासोनित्यः। ब्राह्मणस्य तु विशेषतो-नित्यः। वैष्णवेतरेषान्तु तादृशानां हरिशयनमध्यवर्त्ति-नीषु कृष्णैकादशीषूपवासोनित्यः। अपुत्त्रवतां गृहि-णान्तु सर्व्वास्वेव नित्याधिकारः। काम्योपवासे तु अ-विशेषेणैव सर्व्वेषामधिकारः। नित्योपवासे तु रविसं-क्रमादिदोषोनास्ति अष्टाब्दादधिकोमर्त्योह्यपूर्ण्णाशीतिवत्-सरोनित्याधिकारी विधवायास्तु सर्व्वास्वेव निव्याधिकारः। ( अत्र मलमासादिदोषोनास्ति। यथा ज्योतिः परा-शरः
“अनादिदेवतार्च्चासु कालदोषोन विद्यते। नित्य-स्वाध्याययोगे च तथैवैकादशीव्रते” एका॰ त॰ रघु॰। ( अत्र विशेषोहेमाद्रौ स्कान्दे।
“एकादशी कला यत्र द्वा-दशी च क्षयं गता। नक्तं तत्र प्रकुर्व्वीत नीपवासंगृहाश्रमी”। अत्रोपवासविधायकसामान्यशास्त्रस्यनक्तविधायकविशेषशास्त्रेण बाधः।
“एकादशी कला-प्येका द्वादशी यत्र लुप्यते। तत्रोपवासं कुर्वीत निष्-कामोविष्णुतत्परः” तत्रैव स्कान्दम्।
“तत्र पूर्वापर-वचनपर्य्यालोचनया नक्तविधानं कामिनः काम्योपवासव्रतविषयं, निष्कामस्य, नित्योपवासार्थिनो विष्णुपरायणस्यगृहस्थस्याप्युपवासः” ए॰ त॰ रघु॰। वाचस्पतिमते
“निष्कामस्तु गृही कुर्य्यादुत्तरैकादशीं तथा। सका-मस्तु तदा पूर्वां कुर्य्याद्बौधायनोऽब्रवीत्” विष्णुरहस्यात्सकामेन तत्र दशमीविद्धा कार्य्या निष्कामेण द्वादशी-युक्तोपोष्येतिभेदः। ( वेधविषये हेमाद्रो तु सार्द्धघटिकात्रयोक्तिरष्टाविंशति-मानरात्रिविषया महत्तरास्तु रात्रीरपेक्ष्य चत्रस्रोध-टिकाग्राह्या
“निशःप्रान्ते तु यामार्द्धे देववादित्रवादने। सारस्वतानध्ययने चारुणोदय उच्यते इति” स्मृतेरित्युक्तम्। हेमाद्रिमतानुसारेण निण्ण॰ सि॰ एकादशीभेदा अष्टा-दशेत्युक्त्वा तद्व्यवस्था तत्रोक्ता यथा
“शुद्धा विद्धा द्वयी नन्दा त्रेधा न्यूनसमाधिकैः। षट्प्र-काराः पुनस्त्रेधा द्वादश्यूनसमाधिकाः” इत्यष्टादशैकादशीभेदाः तत्र शुद्धाधिकन्यूनद्वादशिका शुद्धाधिकसमद्वादशिकाच सकामैः पूर्वा निःकामैरुत्तरा कार्या
“प्रथमेऽहनिसंपूर्णेति” पूर्वोक्तस्कान्दात्
“ऊनद्वादशिकायां तु विष्णु-प्रीतिकार्मैरुपवासद्वयं कार्य्यम्
“संपूर्णैकादशी यत्र प्रभातेपुनरेव सा। लुप्यते द्वादशी तस्मिन्नुपवासः कथं भवेत्?। उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परैरिति” वृद्धवसि-[Page1497-b+ 38] ष्ठोक्तेः।
“शुद्धन्यूना शुद्धाधिका शुद्धसमा विद्धन्यूना विद्धसमाधिकद्वादशिका च सर्वेषां परैवेति” हेमाद्रिः मदनरत्नंतु शुद्धाधिका परा।
“संपूर्णैकादशी यत्रेति” पूर्वोक्तेः।
“शुद्धा यदा समा हीना समा हीबाधिकोत्तरा। एकादशीमुपवसेन्न शुद्धां वैष्णवीमपीति” स्कान्दात् अत्र शुद्धा एकादशी, उत्तरा दृदशी
“नचेदेकादशी विष्णाविति” नारदो-क्तेश्च। यत्तु
“अविद्धापि च विद्धा स्यादिति” पद्मम्तच्छुद्धाधिकापरम्। यत्तु
“संपूर्णैकादशी त्याज्या परतोद्वादशो यदि। उपोष्या द्वादशी शुद्धा द्वादश्य मेव पार-णम्” इत्यादि तद्वैष्णवपरम्। स्मार्त्तानां तु पूर्वैवेत्युक्तम्। विद्धन्यूना समद्वादशिका तु मुमुक्षूणां पुत्रवतां च परा अ-न्येषाञ्च पूर्वा। पुत्रवतोऽपि पूर्वोति मदनरत्ने। विद्धसमासमद्वादशिकोनद्वादशिका च मुमुक्षुभिः पराऽन्यैः पूर्वाकार्या।
“दशमी मिश्रिता पूर्वा द्वादशी यदि लुप्यते। शु-द्धैव द्वादशी राजन्नुपोष्या मोक्षकाङ्क्षिभिरिति” व्यासोक्तेःमोक्षकाङ्क्षिग्रहणादन्येषां पूर्वैव।
“पारणाहे न लभ्येतद्वादशी कलयापि चेत्। उदानीं दशमीविद्धाप्युपोष्यैक-दशी तिथिरिति” ऋष्यशृङ्गोक्तेश्च। विद्धाधिका समद्वा-दशिका च सर्वेषां परैव माधवमते त्वत्र गृहिणःपूर्वा यतेरुत्तरा
“सर्वत्रैकादशी कार्य्या द्वादशीमिश्रितानरैः। प्रातर्भवतु वा मा वा यतो नित्यमुपोषणमिति” पाद्मोक्तेः। विद्धाधिका न्यूनद्वादशिका मोक्षपरैः विष्णु-प्रीतिकामैः परा कार्य्या गृहस्थेन तु नक्त कार्य्यम्
“एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। उपवासं नकुर्वीत पुत्रपौत्रसमन्वित” इति कौर्मे दिनक्षये उपवासनिषेधात्।
“दशम्यैकादशी विद्ध्वा द्वादशी च क्षयंगता। क्षीणा सा द्वादशी ज्ञेया नक्तं तु गृहिणः स्मृत-मिति” वृद्धशातातपोक्तेश्च गृहिणः पूर्वत्रोपवासः। ए-कादश्याः शुद्धन्यूनत्वे शुद्धसमत्वे वा द्वादश्या न्यूनसम-त्वयोरेकादश्यामुपवासः। यानि तु
“दशम्यनुगता हन्तिद्वादशद्वादशीफलम्। धर्मापत्यधनायूंषि त्रयोदश्यां तुपारणमिति” कौर्मादीनि दशमीवेधत्रयोदश पारणयोर्नि-षेधकानि तानि विहितभिन्नपराणि अत्र मूलवचनानितद्व्यवस्था चाकरे ज्ञेया। यत्तु कालहेमाद्रौ
“बहुवाक्य-विरोधेन सन्देहो जायते यदा। द्वादशी तु तदा ग्राह्यात्रयोदश्यां तु पारणमिति” मार्कण्डेयोक्तेः
“सन्दिग्धेषुच वाक्येषु द्वादशीं समुपोवयेत्। विवादेषु च सर्वेषु द्वा-दश्यां समुपोषणम्। पारणं च त्रयोदश्यामाज्ञेयः मा-[Page1498-a+ 38] मकी मुने!” इति पाद्मोक्तेश्च वेधसन्देहे ज्योतिर्विदां विप्रतिपत्तौ वा परा कार्य्येत्यक्तम्। तद्वैष्णवविषयम्”(
“अथात्रोपयुक्तं किञ्चिदुच्यते। तत्र दशम्यामे-कादशीयोगे दशमीमध्य एव भोजनम्।
“एकादश्यां नभुञ्जीतेति” तस्या एव निमित्तत्वात्,
“निषेधस्तु निवृत्तात्माकालमात्रमपेक्षत” इति देवलोक्तेश्च। केचित्तु एकादशीव्रताङ्गत्वेन पूर्वेद्युरेका क्तविधानाद्विधिस्पृष्टे च विषये नि-षेधानवकाशेन काम्यव्रताङ्गे न भोजननिषेध प्रवर्त्तते तेनैकादशीमध्येऽपि पूर्वदिने भोजनमित्याहुः” निर्ण्ण॰ सि॰। तत्रैकादशीदिवसे श्राद्धप्राप्तौ विशेषः नि॰ सि॰ उक्तः( माधवीये
“उपवासो यदा नित्यः” इत्यादि प्रागुक्तकात्यायनवाक्यमाश्रित्य उपवासदिनेश्राद्धं कृत्वा श्राद्धशेषघ्राणं कार्य्यमिति व्यवस्थाप्योक्तम्।
“हेमाद्र्यादिसर्वनिब-न्धेष्ववम्। एतेनैकादशीनिमित्तकं व्वाद्धं द्वादश्यां कार्य्य-मिति” वदन्तः परास्ताः किञ्च, महालये।
“स पक्षःसकलः पूज्यः श्राद्धषोडशकं प्रतीति, श्रुतं षोडशत्वम्। पौषैकादश्यां च मन्वादिश्राद्धं, क्षयाहापरिज्ञाने च कृ-ष्णैकादश्यां विहितं श्राद्धं बाधितमेव स्यात्। यदपिस्मृतिचन्द्रिकास्थं पठन्ति।
“अन्नाश्रितानि पापानितद्भोक्तुर्दातुरेव वा। मज्जन्ति पितरस्तस्य नरके शाश्वतीःसमा” इति। तस्यापि रागप्राप्तभुजिगोचरस्य वैधं श्राद्धंगोचरयतां महत्साहसमित्यलम्। योऽपि
“अकृतश्राद्ध-निचया जलपिण्डविनाकृताः” इति लघुनारदीये एका-दश्यां श्राद्धादिनिषेधः स मातापितृभिन्नविषयः पूर्ववाक्येतद्ग्रहणात्”( हरिभक्तिविलासानुसारिणस्तु वैष्णवदीक्षावतां तद्दिनेश्राद्धनिषेधः द्वादश्यां तत् करणीयमिति वदन्ति यथा
“अथोपवासदिने श्राद्धनिषेधः। पाद्मे पुष्करखण्डे
“ए-कादश्यां यदा राम! श्राद्धं नैमित्तिकं भवेत्। तद्दिनं तुपरित्यज्य द्वादश्यां श्राद्धमाचरेत्”। तत्रैवोत्तरखण्डे
“एकादश्यान्तु प्राप्तायां मातापित्रोर्मृताहनि। द्वाद-दश्यां तत् प्रदातव्यं नोपवासदिने क्वचित्। गर्हि-तान्नं नचाश्नन्ति पितरश्च दिसौकसः”। स्कान्दे
“एकादशी यदा नित्या श्राद्धं नैमित्तिकं भवेत्। उपवासंतदा कुर्य्यात् द्वादश्यां श्राद्धमाचरेत्”। ब्रह्मवैवर्त्ते।
“ये कुर्व्वन्ति महीपाल! श्राद्धं त्वेकादशीदिने। त्रयस्तेनरकं यान्ति दाता भोक्ता परेतकः”। हरिभक्ति॰धृतवाक्यानि। [Page1498-b+ 38]
“एकादश्यां यदा रामेत्यादिना उपवासदिने श्राद्धं नि-षिद्धम्। यच्च स्कान्दादौ
“श्राद्धदिनं समासाद्य उप-वासो यदा भवेत्। तदा कृत्वा तु वै श्राद्धं भुक्तशेषन्तुयद्भवेत्। तत् सर्व्वं दक्षिणे पाणौ गृहीत्वान्नं शिखि-ध्वज!। अवजिघ्रेदनेनाथ भवेत् श्राद्धं शिखिध्वज!। पितॄणां तृप्तिदं तात! व्रतभङ्गो न विद्यते” इत्यादि। तच्च वैष्णवेतरविषयं मन्तव्यम् वैष्णवपितॄणामपि श्री-विष्णुदिने श्राद्धभक्षणायोगादिति” तट्टीका। अत्रेदं बोध्यं स्मृतिचन्द्रिकास्थवचनेन हरिभक्तिविलास-धृतचवनचतुष्टयेन च उपवासदिने श्राद्धनिषेधात् प्रागुक्तकात्यायनस्कान्दादिवचनेन श्राद्धशेषभोजनासम्भवेऽपिआघ्राणमात्राङ्गकतया श्राद्धविधानात् परस्परं विरोधस्त-योर्विरोधपरिहाराय कर्त्तृभेदविषयकत्वमवश्य कल्पनीयंतद्विना तदपरिहारात् तत्र वैष्णवेतरविषतया आघ्रा-णाङ्गश्राद्धस्य, वैष्णवविषयकतया च श्राद्धनिषेधस्य कल्पनंयुक्त न च विनिगमनाविरहेण वैपरीत्यं शङ्कनीयंवैष्णवस्य सत्वगुणाधिकविष्णोः सेवकत्वेन सात्विकपुरा-णीक्तविधेरेव ग्राह्यतया सात्विकपुराणेषु च पाद्मस्य की-र्त्तनात् वैष्णवैः पाद्मोक्तविधेरेव ग्रह्यतौचित्येन स्कान्दस्यतामसत्वेन तदुक्तविधेस्ततरैर्ग्राह्यतौचित्येन च विनिगमना-सम्भवात्” पाद्मस्कान्दयोर्यथा सात्विकतामसत्वं तथोक्तम्” मात्स्यं कौर्म्मं तथा लैङ्गं शैवं स्कान्दं तथैव च। आग्ने-यञ्च षडेतानि तामसानि निबोधत। बैष्णवं नारदीतञ्चतथा भागवतं शुभम्। गारुडञ्च तथा पाद्मं वाराहं शु-भदर्शने। सात्विकानि पुराणानि विज्ञेयानि शुभानि षट्” पद्मपु॰। एवञ्च सति पाद्मवाक्यस्य वैष्णवविषयकत्वनि-श्चये स्कान्दकात्यायनादिवाक्यस्य तदितरविषयत्वं निर्श्ची-यते। निर्ण्णयसिन्धुकृता श्राद्धनिषेधवाक्यस्य माता-पितृश्राद्धव्यतिरिक्तविषयकत्वं यत्कल्पितं तन्न मनोरयमंपाद्मोक्तवाक्ये गर्हितान्नं न गृह्णन्ती पितरैति पितृमात्र-स्याग्रहणोक्तेः सर्व्वश्राद्धस्यैव निषेधात् मातापित्रोर्मृताह-नात्यादिपाद्मोत्तरवचने तयोरपि श्राद्धनिषेधात्। तेनकैमुतिकन्यायेनेतरश्राद्धस्यापि निषेधः सूपपन्न एव। किञ्चशेषभोजननिमित्तकालयोरुभयोप्यरङ्गतया स्मार्त्तानां शेष-भोजनरूपार्ङ्गबाधः वैष्णवानां तु कालबाध इत्युभयोरपि-एकतरबाधस्य शास्त्रबोधिततया न दूषकत्वम्। स्मार्त्तैरपिग्रस्तोदया दिनिमित्तकोपवासदिने श्राद्धं निषिध्य ग्रहणात्परेद्युः श्राद्धविधानेन कालरूपाङ्गवाधस्य तत्र स्वीकारात तद्ध-[Page1499-a+ 38] दत्रापि एकादश्युपवासदिनसम्भविमृताहरूपकालबाधेनो-त्तरदिने श्राद्धविधानेनावैष्भ्यम्। तथा च
“ग्रस्तोदयेयदा चन्द्रे प्रत्यव्द समुप्रस्थितम्। तद्दिने चोपवासः स्यात्प्रत्यव्दं तु परेऽहनि”
“ग्रस्तावेवास्तमानं तु रवीन्दू प्राप्नुतोयदि। प्रत्यव्दं तु तदा कार्य्यं परेऽहन्येव सर्व्वदा” नि॰सि॰ धृतवचनैः निमित्तकालबाधेनापरेद्युः श्राद्धकालः। एतेन एकादशीव्रतदिवसे श्राद्धनिषेधे विघ्नपतितश्राद्धस्यकृष्णैकश्यां विधानम् अश्वयुक्कृष्णपक्षनिमित्तकषोडश-श्राद्धविधानञ्च निर्विषयं स्यादित्यापत्तिरपास्ता विषयभेदेनव्यवस्थासम्भवात्। तथाहि विघ्नपतितश्राद्धे श्रा-द्धकालव्याप्तैकादशीतिथिमात्रस्य निमित्तता तस्य व्रत-दिवसात् पूर्ब्बेद्युरपि कदाचित् सम्भवेन तद्रूपविषय-लाभेन निर्विषयत्वाभावात् क्वचिदेकदिने तत्प्रसक्तावपिसामान्यमुखेन प्रवृत्तशास्त्रस्य उपवासदिनव्यतिरिक्ततिथि-खण्डविषयकत्वकल्पनेनाविरोधः। किञ्चात्र कर्त्तृभेदेन-व्यतस्थाप्युपपद्यते वैष्णवेतरसपुत्रगृहस्थस्य कृष्णैकाद-श्युपवासस्य नित्यत्वाभावेन तत्परं श्राद्धविधानं, वैष्णव-विषयः श्राद्धनिषेध इति कर्त्तृभेदसम्भवात्। अश्वयु-क्कृष्णपक्षनिमित्तकषोडशश्राद्धविधानमपि न निर्विषयंतिथिह्रासादिवशादेकसावनदिवसे तत्रविहितश्राद्धद्वय-वद् वैष्णवैः द्वादश्यां श्राद्धद्वयकरणेन षोडशसंख्या-पूर्त्तिसम्मवात्। पौषैकाकाशारूपमन्वादिनिमित्तकश्राद्धस्यापि नैमित्तिकतया मन्वादिकृत्यत्वेन पूर्व्वाह्णे विहि-तत्वेन उपवासदिन एव तत्खण्डस्यैव लाभसम्भवेन पूर्ब्ब-दिवसे च तदसम्भवेन विरोधप्रसङ्गेऽपि वैष्णवानां द्वादश्यामेव मृताहश्राद्धस्येव तस्य कर्त्तव्यता वैष्णवेतरगृहस्थस्यतद्दिने कर्त्तव्यतेति कर्त्तृभेदात् व्यवस्थाया नानुपपत्तिः। ( पाद्मे नैमित्तिकमित्युक्तेः ब्रह्मवैवर्त्ते परेतकइत्युक्तेश्च आद्यश्राद्धमपि एकादश्युपवासदिवसे वैष्णवैर्नकर्त्तव्यमेव।
“एकोद्दिष्टं तु यत् श्राद्धं तन्नैमित्तिकमु-च्यते। तदप्यदैवविकं कार्य्यमयुग्मानाशयेद् द्विजान्” इतिभविष्य पु॰ एकोद्दिष्टस्य नैमित्तिकत्वेन परिभाषितत्वात्-प्रेतोद्देश्यकश्राद्धस्य च एकोद्दिष्टत्वाच्च तस्यापि तद्दिनेनिषेध एव प्रेतश्राद्धस्य यथैकोद्दिष्टत्वं तथैकोद्दिष्टशब्देवक्ष्यते इत्थं स्मार्त्तवैष्णवकर्त्तृभेदात् व्यवस्थाभेदः।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकादशी f. the eleventh day of a fortnight (on which fasting is considered an indispensable observance and very efficacious) MBh. Katha1s. etc.
एकादशी f. presentation of offerings to पितृs or deceased ancestors on the eleventh day after their death (on which occasion Brahmans are fed , and the period of impurity for a Brahman terminates)
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
EKĀDAŚĪ : The eleventh day after a new moon or full moon day. The vrata observed on this day is called the Ekādaśī vrata. King Ambarīṣa observed very strictly and continuously the Ekādaśī Vrata to obtain the status of Indra. (See under Ambarīṣa). (Navama Skandha, Bhāgavata). This vrata would fetch food for the hungry and salvation for those who are in search of it. (Agni Purāṇa). The method of observing this vrata is detailed below:
Those who observe the Ekādaśī vrata should be on a regulated diet excluding meat and avoid sexual acts on the Daśamī day, the day preceding Ekādaśī. On both the Ekādaśī days in a month one should not take any food at all. The period which combines Ekādaśī with Dvādaśī (the twelfth day) is called Harivāsara because of the presence of Viṣṇu at that time. That is a good time for doing sacred yajñas. That day where there is only a small portion of Ekādaśī and the rest Dvādasī is the best day for yajñas. Trayodaśī (the thirteenth day) is good for breaking the fast. The day which merges Dvādaśī into Trayodaśī is the best day for breaking the fast. Do not observe the Vrata on a day which combines Daśamī with Ekādaśī. Hell is the result if one does so.
Completely abstaining from food on the Ekādaśī day you should take food on the Dvādaśī day. As you take your food you should pray like this: “Bhuṅkṣyehaṁ Puṇḍarīkākṣa śaraṇaṁ me bhavācyuta”. (Oh, Puṇḍa- rīkākṣa, I am going to break my fast. Oh, Bhagavan, let you be my heaven). If an Ekādaśī comes on a Pūyaṁ--Puṣya--day in the bright half of the month that day should on any account be observed. That day would give the observer unlimited good result and that Ekādaśī is qualified as Pāpanāśinī (destroyer of all evils). When Ekādaśī and Dvādaśī happen to combine on a Tiruvoṇam (Śrāvaṇa) day the Ekādaśī is qualified as Vijayā. That day gives prosperity to devotees. It is also called Vijayā if an Ekādaśī comes in the month of Phālguna (March) on a Pūyaṁ (Puṣya) day. The wise extol this day as one promising crores of good effects. On the Ekādaśī day you should do Viṣṇu Pūjā which is productive of universal happiness. He who does so will acquire children and wealth in this world and attain Viṣṇuloka on death. (Chapter 178, Agni Purāṇa)
_______________________________
*3rd word in right half of page 267 (+offset) in original book.