एकान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकान्तम्, क्ली, (एकस्मिन्नेव अन्तः समाप्तिर्यस्य ।) अत्य- न्तम् । तत्पर्य्यायः । अतिशयः २ भरः ३ अतिवेलम् ४ भृशम् ५ अत्यर्थम् ६ अतिमात्रम् ७ उद्गाढम् ८ निर्भरम् ९ तीव्रम् १० नितान्तम् ११ गाढम् १२ वाढम् १३ दृढम् १४ । (यथा माघे २ । ८३ । “तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः” ॥ तद्वति, त्रि । यथा कुमारे १ । ३६ । “नागेन्द्रहस्तास्त्वचि कर्कशत्वा- देकान्तशैत्यात् कदलीविशेषाः” ॥ तथा भागवते । १ । ४ । ४ । तस्य पुत्त्रो महायोगी समदृङ्निर्विकल्पकः । एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते” ॥) भेद्यगामिनि त्रि । इत्यमरः ॥ (सर्व्वत्र यदवधारे- णोच्यते स एकान्तः ॥ यथा “तृवृद्विरेचयति मद- नफलं वामयतीति” ॥ इत्युत्तरतन्त्रे ६५ अध्याये सुश्रुतेनोक्तम् ॥) निर्ज्जनम् ॥ (यथा हितोपदेशे विग्रहे । १५ । “अथ केनापि शस्यरक्षकेण धूसर- कम्बलकृततनुत्राणेन धनुःकाण्डं सज्जीकृत्यावनत- कायेन एकान्ते स्थितम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकान्त नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।67।1।2

तीव्रैकान्तनितान्तानि गाढबाढदृढानि च। क्लीबे शीघ्राद्यसत्त्वे स्यात्त्रिष्वेषां सत्त्वगामि यत्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकान्त¦ त्रि॰ एकः अन्तः निश्चयः सीमा वा।

२ अत्यन्ते अ-तिशये
“तेजःक्षमा वा नैकान्तंकालज्ञस्य महीपतेः” माघः।
“शकुन्तमेकान्तमनोविनोदिनम्” नै॰। क्रियाविशेषणत्वेनात्रन॰।
“एकान्तविध्वंसिषु मद्विधानाम्” रघु॰
“नात्यश्नतस्बुयोगोऽस्ति नचैकान्तमनश्नतः” गीता। तद्वति

३ द्रव्येत्रि॰।
“एकान्तपाण्डुस्तनलम्बिहारम्” रघुः।
“एका-न्तशैत्यात् कदलीविशेषाः” कुमा॰। एक एवान्तोयत्र। निर्जने

४ रहसि।
“तस्माद्ध्वान्ते हर्म्यस्यान्तःशय्यैकान्ते कर्त्तव्या” ज्यो॰ त॰।
“वासे बहूनां कलहे-भवेद्वार्त्ता दयोरपि। तस्मादेकान्तमास्थाय चिन्त-येत् नित्यसंयुतः, पुरा॰। ततः तसिल्। एकान्ततस् एका-[Page1519-a+ 38] न्ते इत्याद्यर्थे।
“दृष्टे साऽपार्था चेन्नैकान्ततोऽत्यन्ततोऽभावात्” सां॰ का॰। तत्र भवः ठञ्। ऐकान्तिक एका-न्तभवे त्रि॰ स्त्रियां ङीप्।
“ऐकान्तिकी हरेर्भक्तिरुत्पा-तायैव कल्पते” पुरा॰। एक एवान्तः स्वभावो यस्य। एक-रूपताप्राप्ते त्रि॰।
“विलोक्यैकान्तभूतानि मूतान्यादौप्रजापतिः। स्त्रियं चक्रे स्वदे हार्द्धं यया पुंसां मतिर्ह-ता” भाग॰

६ ,

१८ ,

२२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Excessive.
2. Solitary, lonely, retired.
3. Aside, apart. adv. n. (-न्तं)
1. Much, excessive.
2. Apart. E. एक one and अन्त end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकान्त/ एका m. a lonely or retired or secret place , (539809 एind. in a lonely or solitary place , alone , apart , privately) MBh. Mn. S3ak. etc.

एकान्त/ एका m. a single part , part , portion Pat.

एकान्त/ एका m. the only end or aim , exclusiveness , absoluteness , necessity R. Sus3r. etc.

एकान्त/ एका m. devotion to one object , worship of one Being , monotheistic doctrine MBh. BhP.

एकान्त/ एका mfn. directed towards or devoted to only one object or person BhP. R. etc.

"https://sa.wiktionary.org/w/index.php?title=एकान्त&oldid=493979" इत्यस्माद् प्रतिप्राप्तम्