एकावली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकावली, स्त्री, (एका श्रेष्ठा आवली माला ।) एक- यष्टिका । इत्यमरः ॥ एकनर हार इति भाषा । (अलङ्कारविशेषः । तल्लक्षणादिकमुक्तं साहित्य- दर्पणे १० परिच्छदे । १०१ । यथा, -- “पूर्ब्बं पूर्ब्बं प्रति विशेषणत्वेन परं परम् । स्थाप्यतेऽपोह्यते वा चेत्स्यात्तदैकावली द्विधा” ॥ क्रमेणोदाहरणम् । तत्रैव । “सरो विकसिताम्भोजमम्भोजं भृङ्गसङ्गतम् । भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्” ॥ “न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः” ॥ भट्टिः । २ । १९ ॥ क्वचिद्विशेष्यमपि यथोत्तरं वि- शेषणतया स्थापितमपोहितञ्च दृश्यते । यथा, -- “वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु । कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम्” ॥ एवमपोहनेऽपि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकावली स्त्री।

एकलतिकाहारः

समानार्थक:एकावली

2।6।106।1।3

अर्धहारो माणवक एकावल्येकयष्टिका। सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकावली¦ स्त्री एकाऽद्वितीया आवली माला मणिश्रेणी। (एकनर) हारभेदे, सा॰ द॰ उक्तेऽर्थालङ्कारभेदे अल-ङ्कारशब्दे

३९

८ पृ॰ विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकावली¦ f. (-ली) A single string of beads, flowers, &c. E. एक and आवली a row.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकावली/ एका f. a single row , single string of pearls or beads or flowers , etc. Vikr. Naish. Ka1d. etc.

एकावली/ एका f. (in rhet. )a series of sentences where the subject of each following sentence has some characteristic of the predicate of the preceding one Kpr. x , 45 Sa1h. etc.

एकावली/ एका f. N. of wk. on rhetoric

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKĀVALĪ : Wife of Ekavīra, founder of the Hehaya dynasty. (For details see under Ekavīra).


_______________________________
*6th word in right half of page 268 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकावली&oldid=493989" इत्यस्माद् प्रतिप्राप्तम्