ऐतिह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिह्यम्, क्ली, (इतिह उपदेशपारम्पर्य्यम् । तदेव । इतिह “अनन्तावसथेतिहभेषजाञ् ञ्यः” । ५ । ४ । २३ । इति स्वार्थे ञ्यः ।) पारम्पर्य्योपदेशः । तत्पर्य्यायः । इतिह । इत्यमरः ॥ (यथा रामायणे । ५ । ८७ । २३ । “ऐतिह्यमनुमानञ्च प्रत्यक्षमपि चागमम् । ये हि सम्यक् परीक्षन्ते कुतस्तेषामबुद्धिता” ॥ “ऐतिह्यं नाम आप्तोपदेशो वेदादिः” । इति विमानस्थाने । ८ अ । चरकेणोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिह्य नपुं।

परम्परोपदेशः

समानार्थक:ऐतिह्य,इतिह

2।7।12।2।1

सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित्. पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्.।

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिह्य¦ न॰ इतिह पारम्पर्य्योपदेशः अनिर्द्दिष्टप्रवक्तृकोप-देश इति यावत् स्वार्थे ष्यञ्। पारम्पर्य्योपदेशे। यथात्रवटे यक्षः प्रतिवसतीत्यादि परम्परोपदेशमात्रम् न तु केनाप्येतदुपलभ्य कथितम्। अष्टप्रमाणवादिनः पौरा-णिका इदं प्रमाणान्तरमुरीचक्रुः तदेतन्मतं सां॰कौ॰ निराकृतम् यथा
“यच्चानिर्द्दिष्टप्रवक्तृकं प्रवादपारम्पर्य्यमात्रम् इति होचुर्वृद्धा इत्यैतिह्यं यथा इह वटेयक्षः प्रतिवसतीति न तत् प्रमाणम् अनिर्द्दिष्टप्रव-क्तृकत्वेन सांशयिकत्वात् आप्तप्रवक्तृकत्वनिश्चये त्वागमइत्युपपन्नं त्रिविधम् प्रमाणमिति”
“स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्” ऐतरे॰
“ऐतिह्यमनुमानञ्च प्रत्य-क्षमपि चागमम्। ये हि सम्यक् परीक्षन्ते कुतस्तेषा-मबुद्धिता” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिह्य¦ n. (-ह्यं) Traditional instruction. E. इतिहा tradition, ञ्य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिह्यम् [aitihyam], Traditional instruction, legendary account; ऐतिह्यमनुमानं च प्रत्यक्षमपि चागमम् Rām.; किलेत्यैतिह्यो (ऐतिह्य is regarded as one of the Pramāṇas or proofs by the Paurāṇika as and reckoned along with प्रत्यक्ष अनुमान &c.; see अनुभव). प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि Mb.12. 218.27; श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् । प्रमाणेप्वनवस्थाना- द्रिकल्पात्स विरज्यते ॥ Bhāg.11.19.17.2. Tradition -a figure of speech; Kuval.123.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिह्य n. (fr. इति-ह) , traditional instruction , tradition TA1r. i , 2 , 1 MBh. R.

"https://sa.wiktionary.org/w/index.php?title=ऐतिह्य&oldid=494091" इत्यस्माद् प्रतिप्राप्तम्