ऐन्दवम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्दवम्, क्ली, (इन्दुर्देवता यस्य । इन्दु + अण् ।) मृग- शिरोनक्षत्रम् । इति ज्योतिषम् ॥ यथा । मात्स्ये । “अश्विनी रेवती मूलमुत्तरत्रयमैन्दवम् । स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते” ॥ ऐन्दवं मृगशिरः । इति मठप्रतिष्ठातत्त्वम् ॥ (इन्दोश्चन्द्रस्य इदम् । चन्द्रसम्बन्धिनि, त्रि । यथा, मनुः ११ । १२५ । “सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऐन्दवम्&oldid=121298" इत्यस्माद् प्रतिप्राप्तम्