ऐन्द्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रम्, क्ली, (इन्द्रो देवता यस्य । इन्द्र + अण् ।) ज्येष्ठा- नक्षत्रम् । इति जटाधरः ॥ मूलविशेषः । वन आदा इति भाषा । तत्पर्य्यायः । वनार्द्रका २ वनजा ३ अरण्यजार्द्रका ४ । अस्य गुणाः । कटु- त्वम् । अम्लत्वम् । रुचिबलाग्निकारित्वञ्च । इति राजनिर्घण्टः ॥ (इन्द्रस्य इदम् ।) इन्द्रसम्बन्धिनि त्रि । (यथा मनुः ५ । ९३ । “न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम् । ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा” ॥ “ऐन्द्रंस्थानं राज्याभिषेकाख्यं आधिपत्यकारणम्” इति तट्टीकायां कुल्लूकभट्टः ॥ तथा रघुः २ । ५० । “महीतलस्पर्शनमात्रभिन्न- मृद्धं हि राज्यं पदमैन्द्रमाहुः” ॥ “ऐन्द्रमम्बु सुपात्रस्थमविपन्नं सदा पिबेत्” ॥ इति वाभटे सूत्रे । ५ अ ॥) (इन्द्रस्यापत्यं पुमान् ।) बालिवानरे (अर्ज्जुने जयन्ते च पुं ॥ जलविशेषः ।)

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रम्&oldid=121304" इत्यस्माद् प्रतिप्राप्तम्