ऐन्द्रियक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रियकम्, त्रि, (इन्द्रियेणानुभूयते । इन्द्रिय + वुञ् ।) प्रत्यक्षम् । इन्द्रियग्राह्यम् । इत्यमरः ॥ (व्याधिविशेषः । यथा, -- “मिथ्याभियोगहीनेभ्यो यो व्याधिरुपजायते । शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः ॥ वेदनानामशान्तानामित्येते हेतवः स्मृताः । सुखहेतुर्मतस्त्वेकः समयोगः सुदुर्ल्लभः ॥ नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः । हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्व्विधः ॥ सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक् । न सुखं कारणं तस्मात् योगएव चतुर्व्विधः ॥ नात्मेन्द्रियमनोबुद्धिगोचरं कर्म्म वा विना । सुखं दुःखं यथा यच्च बोद्धव्यं तत्तथोच्यते ॥ स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च । द्विविधः सुखदुःखानां वेदनानां प्रवर्त्तकः । इच्छा द्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्त्तते ॥ तृष्णा च सुखदुःखानां कारणं पुनरुच्यते । उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान् ॥ स्पृश्यते नानुपादाने न स्पृष्टो वेत्ति वेदनाः । वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः ॥ केशलोमनखाग्रान्नमलद्रवगुणैर्विना” । इति चरके शारीरे १ अः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रियक वि।

इन्द्रियज्ञानम्

समानार्थक:प्रत्यक्ष,ऐन्द्रियक

3।1।79।1।2

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्. एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रियक¦ त्रि॰ इन्द्रियेण प्रकाश्यः वुञ्। इन्द्रियप्रकाश्ये

१ प्रत्यक्षात्मके ज्ञाने

२ तद्विषये च
“स च परिणामभेद ऐन्द्रि-यक इति नास्ति प्रत्यक्षाद्यनवरुद्धोविषय इति” सां॰ कौ॰
“यथा मनोरथः स्वप्नः सर्व्वमैन्द्रियकं मृषा” भाग॰

७ ,

२ ,

४४

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रियक¦ mfn. (-कः-की-कं)
1. Perceptible, perceived, present.
2. Of or belonging to the sense. E. इन्द्रिय an organ of sense, and वुञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रियक mfn. relating to the senses , sensual Car. VP.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रियक&oldid=494103" इत्यस्माद् प्रतिप्राप्तम्