ओङ्कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओङ्कारः, पुं, (ओम् + कारप्रत्ययः ।) प्रणवः । इत्यमरः ॥ (यथाह स्मृतिः । “ओङ्कारः पूर्ब्बमुच्चार्य्यस्ततो वेदमधीयते” । “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्ज्जातौ तस्मान्माङ्गलिकावुभौ” । इति व्याकरणटीकायां दुर्गादासः । “प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति” ॥ इति मनुः । २ । ७५ ॥ अत्राह आवस्तम्बः, “ओङ्कारः स्वर्गद्वारं तद्ब्रह्म अध्येष्यमाण एत- दापि प्रतिपद्येत विकथां चान्यां कृत्वा एवं लौ- किक्या वाचा व्यावर्त्तते” । लौकिक्या वाचा व्याव- र्त्तते तया मिश्रितं न भवतीत्यर्थः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओङ्कार पुं।

ओंकारः

समानार्थक:ओङ्कार,प्रणव

1।6।4।1।2

शिक्षेत्यादि श्रुतेरङ्गमोङ्कार प्रणवौ समौ। इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओङ्कार¦ पु॰ ओम् + स्वरूपे कारप्रत्ययः। प्रणवे।
“प्राणायामै-स्त्रिभिः पूतस्ततओङ्कारमर्हति” मनुः।
“ओङ्कारश्चाथ-शब्दश्च द्वावेतौ ब्रह्मणः पुरा” पुरा॰ अधिकम् ओम्शब्दे-चक्ष्यते।
“ओङ्कारं पूर्ब्बमुच्चार्य्य पश्चाद्वेदमधीयते” इति स्मृतेः
“तस्म दोमित्युदाहृत्य यज्ञदानतपःक्रियाः। प्रवर्त्तन्तेविधानोक्ता” इति गीतोक्तेः
“स्रवत्यनोङ्कृतं सर्व्वम्” इत्युक्तेश्च ओङ्कारस्य सर्व्वकर्म्मारम्भादौ पाठ्यत्वात् आर-म्भसाधनत्वेन

२ आरम्भे। सप्तानां सामावयवानां

३ प्र-थमावयवे च। उद्गीथशब्दे

११

७० पृ॰ सप्तावयव-सामानि दृश्यानि। ओङ्कारः तदाकारः अस्त्यस्यअच्। काशीस्थे

३ शिवलिङ्गभेदे
“ओङ्कारं प्रथमं लिङ्गंद्वितीयन्तु त्रिलोचनमिति” काशीस्थचतुर्द्दशप्रधानलिङ्ग-कथने। तदाविर्भावकथा तत्रैव

७३ अध्याये
“यथोङ्कारस्य लिङ्गस्य प्रादुर्भाव इहाभवत्। पुरानन्दवने-चात्र ब्रह्मणा विश्वयोनिना। तपस्तप्तं महादेवि! समाधिंदधता परम्। पूर्ण्णे युगसहस्रेऽथ मित्त्वा पातालसप्तकम्। उदतिष्ठत् पुरोज्योतिर्विद्योतितहरिन्मुखम्। यदन्त-राविरभवन्निर्व्याजेन समाधिना। तदेव परमं धामबहिराविरभूद्विधेः। अभूच्चटचटाशब्दः स्फुटितो भूमि-मागतः। तच्छब्दाद्व्यसृजद्बेधाः समाधिं क्रमतोवशी। स्रष्टाऽसृज्यत तत्सानौ यावदुन्मील्य लोचने। पुरःप-श्चाद्ददर्शाग्रे तावदक्षरमादिमम्। अकारं सत्वसम्पन्नमृक्-क्षेत्रं सृष्टिपालकम्। नारायणात्मकं साक्षात्तमःपारेप्रतिष्ठितम्। ओङ्कारमथ तस्याग्रेरजोरूपं यजुर्जनिम्। बिधातारं समस्तस्य स्वाकारमिव चिन्तितम्। नीरव-ध्वान्तसङ्केतसदनाभं तदग्रतः। मकारं स ददर्शाथतमोरूपं विशेषतः। साम्नां योनिं लये हेतुं साक्षाद्रु-द्रस्वरूपिणम्। अथ तत्पुरतोधाता व्यधात् स्वनयना-तिथिम्। विश्वरूपमथोङ्कारं सगुणञ्चापि निर्गुणम्। अनाख्यनादशदनं परमानन्दविग्रहम्। शब्दव्रह्मेतियत् ख्यातं सर्व्ववाङ्ममयकारणम्। अथोपरिष्टान्नादस्यविन्दरूपं परात् परम्। कारणं कारणानाञ्च जगदा-[Page1555-b+ 38] सञ्जनं परम्। विधिर्विलोकयाञ्चक्रे तपसा गोचरी-कृतम्। अवनादोमिति ख्यातं सर्व्वस्यास्य स्वभावतः। भक्त-मुन्नयते यस्मात्तदोमिति यईरितः। अरूपोऽपि स्वरूपाट्यःस घात्रा नेत्रयोःकृतः। तारयेद्यद्भवाम्मोधेः स्वजपासक्तमानसम्। ततस्तार इति ख्यातोयस्तं ब्रह्मा व्यलोकयत्। प्रणूयते यतः सर्व्वैः पुरनिर्व्वाणकामुकैः। सर्व्वेभ्योऽ-भ्यधिकस्तस्मात् प्रणवोयः पकीर्त्तितः। सुसेवितारंपुरुषं प्रणमेद्यः परम्पदम्। अतस्तं प्रणवं शान्तंप्रत्यक्षीकृतवान् विधिः। त्रयीमयस्तुरीयोयस्तुर्य्याती-तोऽखिलात्मकः। नादविन्दुस्वरूपो यः स प्रैक्षि द्विजगा-मिना। प्रावर्त्तन्त यतोवेदाः साङ्गाः सर्वस्य योनयः। स वेदादिः पद्मभुवा पुरस्तादवलोकितः। वृषभोयस्त्रिधा-बद्धोरोरवीति महोदयः। स नेत्रविषयीचक्रे परमःपरमेष्ठिना। शृङ्गाश्चत्वारि यस्यासन् हस्तासन्सप्त एव च। द्वेशीर्षे च त्रयः पादाः स देवोविधिनेक्षितः। यदन्तर्ली-नमखिलं भूतं भावि भवत् पुनः। तद्वीजं वीजरहितंद्रुहिणेन विलोकितम्। लीनं मृग्येत यत्रैतदाब्रह्मस्तम्भभाजगम्। अतः सभाज्यते सद्भिर्यल्लिङ्गं तद्विलोकितम्। पञ्चार्थायत्र भासन्ते पञ्चब्रह्ममयं हि यत्। आदिपञ्च-स्वरूपं यन्निरैक्षि ब्रह्मणा हि तत्। तमालोक्य ततो-वेधा लिङ्गरूपिणमीश्वरम्”। ओङ्कारेश्वरोऽप्यत्र।

४ बुद्ध-शक्तिभेदे स्त्री त्रिका॰। अवर्णाऽस्यादेः परत्वेपररूपम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओङ्कार¦ m. (-रः) The mysterious name of the deity: see ओम्। f. (-रा) A Baudd'ha Sakti, or female personification of divine energy. E. ओम् and कार affix implying a letter, the compound letter ओ; other- wise ओम्, signifying assent, and कार who makes; what complies with our wishes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओङ्कारः [ōṅkārḥ], See under ओम्.

"https://sa.wiktionary.org/w/index.php?title=ओङ्कार&oldid=494142" इत्यस्माद् प्रतिप्राप्तम्