ओड्रपुष्पम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड्रपुष्पम्, क्ली, (ओड्रं पुष्पम् ।) जवा । इत्यमरः ॥ वृद्धास्तु “ओड्रपुष्पशब्देन तथा जवाशब्देन ओड्रवृक्षः ओड्रस्य पुष्पञ्चोच्यते” इत्याहुः । वृक्षे व्युत्पत्तिर्यथा । ओड्रं पुष्पमस्य इति । “ओड्रः स्यादोड्रपुष्पञ्च जवाथ हयमारकः” । इति रायमुकुटः ॥ “ओड्रपुष्पकुसुमप्रियेऽम्बिके” । इति हरानन्दः ॥ इत्यमरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=ओड्रपुष्पम्&oldid=121454" इत्यस्माद् प्रतिप्राप्तम्