ओषधिपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिपति¦ पु॰

६ त॰। चन्द्रे तस्य किरणेनौषधीनामाप्याय-नात्
“अमायां तु सदा सोम ओषधीः प्रतिपद्यते। तमोषधिगतं गावःपिबन्त्यमृतवत् तथा” कालमा॰ सोमो-त्पत्तिवाक्याच्च तथात्वम्
“अपमार्गमोषधिपतिः स्म करैः”। माघः ओषधीनाथौधघीपादयोऽत्र।

२ कर्पूरे

३ सोम-मलतायाञ्च। यथा च चन्द्रस्यौषधिपतित्वं तथा हरिवं॰

२५ अ॰ अत्रेः सोमोत्पत्तिमुपवर्ण्य उक्तं यथा
“तस्ययच्च्यावितं तेजः पृथिवीमन्वपद्यत। ओषध्यस्ताः समुत्प-न्नास्तेजसा प्रज्वलन्त्युत। ताभिर्धार्य्यास्त्रयोलोकाः प्रजा-श्चैव चतुर्विधाः। पोष्टा हि भगवान् सोमो जगतां जग-तीपते!। स लब्धतेजा भगवान् संस्तवैस्तैश्च कर्म्मभिः। तपस्तेपे महाभागः पद्मानां दशतोर्दश। हिरण्य-वर्णा यादेव्यो धारयन्त्यात्मना जगत्। विघुस्तासामभूत्[Page1565-a+ 38] देवः प्रख्यातः स्बेन कर्म्मणा। ततस्तस्मै ददौ राज्यब्रह्मा ब्रह्मविदां वरः। वीजौषधीनां विप्राणामपाञ्चजनमेजय!। सोऽभिषिक्तो महाराज राज्येन द्विजराज-राट्। त्रीन् लोकान् भासयामास खभासा भास्वतांवरः”। काशीख॰

१४ अ॰ सोमोत्पत्तिमुक्त्वोक्तम्।
“तस्ययत् प्लावितं तेजः पृथिवीमन्वपद्यत। तेनोषध्यः समुद्भूता याभिः संधार्य्यते जगत्। स लब्धतेजा भगवान्ब्रह्मणा वर्द्धितः स्वयम्। तपस्तेपे महाभागः पद्मानांदशतीर्दश। अविमुक्तं समासाद्य क्षेत्रं परमपावनम्। संस्थाप्य लिङ्गममृतं चन्द्रेशाख्यं खनामतः। वीजौष-धीनां तोयानां राजाऽभूदग्रजन्मनाम्। प्रसादाद्देवदेवस्यविश्वेशस्य पिनाकिनः। तुष्टेन देवदेवेन स्वमोलौ योधृतः सदा। आदाय तां कलामेकां जगत् संजोवनींपराम्। पश्चाद्दक्षेण शप्तोऽपि मासान्ते क्षयमाप्य च। आप्याय्यतेऽसौ कलया पुनरेव यया शशी”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिपति/ ओष-धि--पति m. " lord of herbs " , the moon S3is3. Ka1d. etc.

ओषधिपति/ ओष-धि--पति m. the सोमplant

ओषधिपति/ ओष-धि--पति m. camphor T.

ओषधिपति/ ओष-धि--पति m. " master of plants " , a physician.

"https://sa.wiktionary.org/w/index.php?title=ओषधिपति&oldid=494175" इत्यस्माद् प्रतिप्राप्तम्