ओषधिप्रस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिप्रस्थः, पुं, (ओषधिबहुलं प्रस्थं यत्र । ओषधी- नामाकरत्वात् हिमालयस्य तथात्वम् ।) हिमाल- यस्य नगरम् । (यथा, कुमारे ६ । ३३ । “तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम्” । तत्रैव ६ । ३६ । “आसेदुरोषधिप्रस्थम्” इति ।) तथा, -- कालिकापुराणे ४१ अंध्यायः । “एतस्मिन्नन्तरे शम्भुः शिप्रं त्यक्त्वा तदा सरः । गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ॥ यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात् सृता । ओषधिप्रस्थनगरस्यादूरे सानुरुत्तमः ॥ तत्र भर्गः स्वमात्मानमक्षरं परमात्परम् । एकाग्रं चिन्तयामास भगवान् वृषभध्वजः” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिप्रस्थ¦ पु॰ ओषधियुक्तं प्रस्थमत्र। हिमालयराजधान्याम्
“तत् प्रयातौषधीप्रस्थं स्थितये हिमवत्पुरम्”
“आसेदुरोषधिप्रस्थम्”
“इत्यौषधिप्रस्थविलासिनीनाम्” कुमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिप्रस्थ/ ओष-धि--प्रस्थ n. N. of the city of हिमालयKum.

"https://sa.wiktionary.org/w/index.php?title=ओषधिप्रस्थ&oldid=253426" इत्यस्माद् प्रतिप्राप्तम्