ओषधिप्रस्थः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिप्रस्थः, पुं, (ओषधिबहुलं प्रस्थं यत्र । ओषधी- नामाकरत्वात् हिमालयस्य तथात्वम् ।) हिमाल- यस्य नगरम् । (यथा, कुमारे ६ । ३३ । “तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम्” । तत्रैव ६ । ३६ । “आसेदुरोषधिप्रस्थम्” इति ।) तथा, -- कालिकापुराणे ४१ अंध्यायः । “एतस्मिन्नन्तरे शम्भुः शिप्रं त्यक्त्वा तदा सरः । गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ॥ यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात् सृता । ओषधिप्रस्थनगरस्यादूरे सानुरुत्तमः ॥ तत्र भर्गः स्वमात्मानमक्षरं परमात्परम् । एकाग्रं चिन्तयामास भगवान् वृषभध्वजः” ॥

"https://sa.wiktionary.org/w/index.php?title=ओषधिप्रस्थः&oldid=121506" इत्यस्माद् प्रतिप्राप्तम्