ओष्ठः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • ओष्ठः, अधरः, अभूमिसाह्वयः, छदः, दन्तछदः, दशनोछिष्टः, रदच्छदः, रदनच्छदः।

नामम्[सम्पाद्यताम्]

  • ओष्ठः नाम अधरः, दन्तछदः। मुखस्य पुरोभागॆ दृश्य्मानः दळः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठः, पुं, (उष्यते दह्यते उष्णाहारेणेति । उष दाहे + “उषिकुषीति” । २ । ४ । थन् ॥) दन्ताच्छादकावयवः । उपर ठो~ट इति भाषा । तत्पर्य्यायः । रदनच्छदः २ दशनवासः ३ । इत्य- मरः ॥ दन्तवासः ४ दन्तवस्त्रम् ५ रदच्छदः ६ इति राजनिर्घण्टः ॥ तस्य द्विवचने ओष्ठौ ओष्ठा- धराविति यावत् ॥ (यथा, ऋग्वेदे । २ । ३९ । ६ । “ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः” । तथा मनुः । ८ । २८२ । “अवनिष्ठीवतो दर्पाद्द्वारोष्ठौ च्छेदयेन्नृपः” ॥ तथा, कुमारे ३ । ६७ । “उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठः [ōṣṭhḥ], [उष्यते उष्णाहारेण, उष्-कर्मणि थन् Uṇ.2.4.] A lip (lower or upper); द्वावोष्ठौ छेदयेन्नृपः Ms.8.282; अधर˚, बिम्ब˚. -ष्ठी A creeper bearing a red fruit to which the lip is commonly compared (बिम्बफल; Mar. तोण्डली). (In comp. the अ or आ of words before ओष्ठ may be optionally dropped, and the fem. may end in आ or ई as बिम्बो (म्बौ) ष्ठा-ष्ठी. [Vārt. ओत्वोष्ठयोः समासे वा Sk. on P.VI.1.94.] [cf. L. ostium]. -Comp. -अधरौ, -रम् the upper and lower lip. -अवलोप्य a. Which could be eaten with lips; मांसान्योष्ठावलोप्यानि साधनीयानि, देवताः । अश्नन्ति... ॥ Bk.5. 14. -उपमफला, -भा -फला the creeper Bryonia Grandis (whose fruit resembles a lip. Mar. तोंडली). -कोपः, -प्रकोपः a disease of the lips. -ज a. labial (produced by the lips). -जाहम् the root of the lip. -पल्लवः, -वम् a sprout-like or tender lip. -पाकः The cracking of lips due to cold &c. -पुटम् the cavity made by opening the lips. -पुष्पः -पुष्पम् the tree वन्धुक (Mar. दुपारी).-रोगः any disease of the lips.

"https://sa.wiktionary.org/w/index.php?title=ओष्ठः&oldid=494179" इत्यस्माद् प्रतिप्राप्तम्