औडुम्बर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुम्बरम्, क्ली, कुष्ठरोगविशेषः । इति मेदिनी ॥ तस्य लक्षणम् । “रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् । उडुम्बरफलाभासं कुष्ठमौडुम्बरं वदेत्” ॥ इति निदानम् ॥ ताम्रम् । इति जटाधरः ॥ ताम्रपात्रादौ त्रि ॥ (उडुम्बरस्य विकारः । उडुम्बर + अण् । उडुम्बरपात्रम् । यज्ञाङ्गवृक्षविकारः । यथाह देवलः । “गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मखः” ॥)

औडुम्बरः, पुं, चतुर्द्दशयमान्तर्गतयमविशेषः । इति मेदिनी ॥ मुनिविशेषः । यथा, -- “वैखानसा बालिखिल्यौडुम्बराः फेनपा वने । न्यासे कुटीचकः पूर्ब्बं बह्वोदो हंसनिष्क्रियौ” ॥ इति श्रीभागवते ३ । १२ । ४३ । “औडुम्बराः प्रातरुत्थाय यां दिशं प्रथमं पश्यन्ति तत आहृतैः फलादिभिर्जीवन्तः” । इति तट्टीकायां स्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडु(दु)म्बर¦ त्रि॰ उडु(दु)म्बरस्य विकारः रजतादि॰ अञ्।

१ ताम्रविकारे पात्रादौ।
“गृहीत्वौडु(दु)म्बरं पात्रम्स्मृतिः
“सौवर्ण्णराजतौडुम्बरखाड्गमणिमयानां पात्रा-णाम्” गोभि॰।

२ यज्ञाङ्गवृक्षविकारे च।
“पश्चात्पतिर-वस्थाय युगमन्तमौडु(दु)म्बरं शलाटुग्रथ्न मा बध्नाति” गोभि॰। स्त्रियां ङीप्। औडु(दु)म्बरीं स्पृष्ट्वा गायेत” श्रुतिः।
“औडु(दु)म्बरीं शाखामुपगूहति” शत॰ ब्रा॰

५ ,

४ ,

३ ,

२५ ,

३ तपस्विविशेषे पु॰।
“वैखानसा बालिखिल्यौडुम्बराः फेन-पावने। न्यासे कुटीचरः पूर्व्वम् बह्वोदो हंसनिष्क्रियौ” भाग॰

३ ,

१२ ,

२७ ।
“औडु(दु)म्बराः प्रातरुत्थाय यांदिशं प्रथमं पश्यन्ति तत आहृनफलादिभिः जीवन्तः” श्रीधरः। औडुम्बरं तत्फलं तस्येवाकारोऽस्त्यस्य अर्श॰अच्।

४ महाकुष्ठभेदे।
“तत्र महाकुष्ठान्यरुणौडुम्बरर्ष्यजिह्वकपालकाकणपुण्डरीकदद्रुकुष्ठानीति” विभज्य
“पित्तेन पक्वौडुम्बरफलाकृतिवर्णान्यौडुम्बराणीति” तल्लक्ष्मसुश्रुते उक्तम्। स च रोगः ताम्रस्तेयकर्मविपाकः यथाहशाता॰
“औडु(दु)म्बरी ताम्रचौरो नरकान्ते प्रजायते”।

५ यमभेदे च
“औडुम्बराय दध्नाय” यमतर्पणमन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुम्बर¦ mfn. (-रः-री-रं)
1. Coppery, made of copper, &c.
2. Made of the wood of the Udumbara fig tree. m. (-रः) A name of YAMA the regent of death. n. (-रं)
1. A kind of leprosy.
2. Copper. E. उडुम्बर and अण् affix: see उडुम्बर, उदुम्बर, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुम्बर [auḍumbara], = औदुम्बर q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुम्बर See. औदुम्बर.

"https://sa.wiktionary.org/w/index.php?title=औडुम्बर&oldid=494198" इत्यस्माद् प्रतिप्राप्तम्