औडुम्बरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुम्बरम्, क्ली, कुष्ठरोगविशेषः । इति मेदिनी ॥ तस्य लक्षणम् । “रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् । उडुम्बरफलाभासं कुष्ठमौडुम्बरं वदेत्” ॥ इति निदानम् ॥ ताम्रम् । इति जटाधरः ॥ ताम्रपात्रादौ त्रि ॥ (उडुम्बरस्य विकारः । उडुम्बर + अण् । उडुम्बरपात्रम् । यज्ञाङ्गवृक्षविकारः । यथाह देवलः । “गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मखः” ॥)

"https://sa.wiktionary.org/w/index.php?title=औडुम्बरम्&oldid=121558" इत्यस्माद् प्रतिप्राप्तम्