औत्सुक्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सुक्यम्, क्ली, (उत्सुकस्य भावः । उत्सुक + ष्यञ् ।) उत्कण्ठा । इति हेमचन्द्रः ॥ (यथा रत्नावली । “औत्सुक्त्येन कृतत्वरा सहभुवा व्यावर्त्तमाना ह्रिया” ॥ “रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना” । इति माघे ११ । २६ । तथा मेघदूते पूर्ब्बमेघे ॥ ५ ॥ “इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे” । व्यभिचारिभावभेदः । यथा साहित्यदर्पणे ३ । १३७ । “औत्सुक्योन्माद- शङ्काः स्मृतिमतिसहिता व्याधिसन्त्रासलज्जाः” ॥ तल्लक्षणं तत्रैव ३ । १५६ । “इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता । चित्तताप-त्वरा-स्वेद-दीर्घनिश्वसितादिकृत्” ॥ उदाहरणं यथा तत्रैव । “यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपां- स्तेचोन्मीलितभालतीसुरभयः प्रौढाःकदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते” ॥ इच्छा । यथा, तत्त्वकौमुद्याम् । “औत्सुक्यमिच्छा सा च इष्यमाणप्राप्तौ निवर्त्तते इष्यमाणश्च स्वार्थ इष्टलक्षणत्वात् फलस्य” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सुक्यम् [autsukyam], [उत्सुक-ष्यञ्]

Anxiety, uneasiness; हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये । औत्सुक्यं परमं चापि Rām.7. 46.15.

Ardent desire, eagerness, zeal; औत्सुक्यमात्रमव- सादयति प्रतिष्ठा Ś.5.6; अवसाययति v. l. औत्सुक्येन कृतत्बरा सहभुवा व्यावर्तमाना ह्रिया Ratn.1.2.

"https://sa.wiktionary.org/w/index.php?title=औत्सुक्यम्&oldid=253903" इत्यस्माद् प्रतिप्राप्तम्