औदार्य्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औदार्य्यम्, क्ली, (उदारस्य भावः । उदार + ष्यञ् ।) उदारता । इति हेमचन्द्रः ॥ (वाग्गुणभेदः । यथा किराते १ । ३ ॥ “स सौष्ठवौदार्य्यविशेषशा- लिनोम्” इति “औदार्य्यं अर्थसम्पत्तिः” इति मल्लिनाथः ॥ सात्त्विको नायकगुणभेदः । यथा साहित्यदर्पणे ३ । ५८ । “शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी । ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः” ॥ तल्लक्षणं यथा तत्रैव ३ । ६३ । “दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता” ॥ नायिकालङ्कारभेदः । यथा, तत्रैव ३ । ९४ । “यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः । अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः” ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता । औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः” ॥ तल्लक्षणं यथा तत्रैव ३ । १०३ । “औदार्य्यं विनयः सदा” ॥ अस्य उदाहरणं यथा तत्रैव । “न ब्रूते परुषां गिरं वितनुते न भ्रूयुगं भङ्गुरं नोत्तंसंक्षिपति क्षितौ श्रवणतः सा मेस्फुटेऽप्यागसि कान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या वहिः सख्या वक्त्रमभिप्रयच्छति परं पर्य्यश्रुणी लोचने” ॥ मनसो वृत्तिभेदः । यथा पञ्चदशी । १५ । ३ । “शान्ता धोरास्तथा मूढा मनसो वृत्तयस्त्रिधा । वैराग्यं क्षान्तिरौदार्य्यमित्याद्या घोरवृत्तयः” ॥)