औद्भिदम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भिदम्, क्ली, (उद्भिद + स्वार्थेऽण् ।) साम्भरि- लवणम् । अस्य गुणाः । (यथा सुश्रुते । सूत्रस्थाने ४६ अः ॥ “लघु तीक्ष्णोष्णमुत्क्लेदि सूष्णं वातानुलोमनम् । सुतिक्तं कटुसंस्कारं विद्याल्लवणमौद्भिदम्” ॥) तीक्ष्णत्वम् । उत्क्लेदकारित्वम् । क्षारयुक्तत्वम् । कटुत्वम् । तिक्तत्वम् । कोष्ठबद्धतानाहशूलनाशि- त्वञ्च । इति राजवल्लभः ॥ (अस्य पर्य्यायो गुणाश्च यथा -- “औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयंः क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे । १ भागे ॥ “सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्” । इति वाभटे सूत्रस्थाने । ६ अ ॥) उद्भिदो जातं जलम् । तस्य गुणाः । मधुरत्वम् । पित्तशमनत्वम् । अविदाहित्वम् । इति राज- वल्लभः ॥ (“औद्भिदं पित्तशमनं मधुरं न विदाहि च” ॥ इति वैद्यकचकपाणिकृतहव्यगुणे पाणीयवर्गे ॥ अस्य व्याख्यायां शिवदासेनोक्तं यथा । “औद्भिदं निम्नप्रदेशादूर्द्ध्वमुत्तिष्ठज्जलम्” ॥ उद्भिदो जातं द्रव्यादि । यथा ॥ “तत् नस्त्रिविधं ज्ञेयं जाङ्गलौद्भिदपार्थिवम्” । “भौममौषधमुद्दिष्टमौद्भिदन्तु चतुर्व्विधम् । वनस्पतिर्वीरुधश्च वानस्पत्यस्तथौषधिः” ॥ “मूलत्मक्सारनिर्यासनाडस्वरसपल्लवाः । क्षाराः क्षीरं फलं पुष्पं भस्मतैलानि कण्टकाः ॥ पत्राणि शुद्धाः कन्दाश्च प्ररोहश्चौद्भिदो गणः” । इति चरके सूत्रस्थाने । १ अः ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the hill on shore of the river कृतमाला. Br. III. ३५. १७.

"https://sa.wiktionary.org/w/index.php?title=औद्भिदम्&oldid=427093" इत्यस्माद् प्रतिप्राप्तम्