औद्वाहिकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्वाहिकम्, क्ली, (उद्वाहसमये लब्धम् । उद्वाह + ठञ् ।) भार्य्याप्राप्तिकाले लब्धं भार्य्याधनम् । इति दायभागः ॥ तत् भ्रातृभिरविभाज्यम् । यथा । “पितृद्रव्याविनाशेन यदन्यत् स्वयमर्ज्जयेत् । मैत्रमौद्वाहिकञ्चैव दायादानां न तद्भवेत् ॥ इति याज्ञवल्क्यः ॥ (यथा च मनुः । ९ । २०६ । “विद्याधनन्तु यद्यस्य तत्तस्यैव धनं भवेत् । मैत्रमौद्वाहिकञ्चैव माधुपर्किकमेव च” ॥)

"https://sa.wiktionary.org/w/index.php?title=औद्वाहिकम्&oldid=121620" इत्यस्माद् प्रतिप्राप्तम्